कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 159 of 1079
Read in context१६६ कथासरित्सागर
तद्दृष्ट्वा मुक्तमौनस्तं तपोदत्तः स पृष्टवान्।
अथान्तः किमिदं ब्रह्मन्करोषीति सकौतुकम् ॥१७॥
निर्बन्धपृष्टः स च तं शक्रोऽब्रवीद् द्विजाकृतिः।
सेतुं बध्नामि गङ्गायां ताराय प्राणिनामिति ॥१८॥
ततोऽब्रवीत्तपोदत्तः सेतुः किं मूर्ख बध्यते।
गङ्गायामोघहार्याभिः सिकताभिः कदाचन ॥१९॥
तच्छ्रुत्वा समुवाचैनं शक्रोऽथ द्विजरूपधृक्।
यद्येवं वेत्सि तद्विद्यां विना पाठं विना श्रुतम् ॥२०॥
कस्माद्व्रततपःसाध्यैस्त्वं साधयितुमुद्यतः।
इयं शशविषाणेच्छा व्योम्नि वा चित्रकल्पना ॥२१॥
अनक्षरो लिपिन्यासो यदिच्छाध्ययनं विना।
एवं यदि भवेदेतन्नाधयीत कश्चन ॥२२॥
इत्युक्तः स तपोदत्तः शकेण द्विजरूपिणा।
विचार्य तत्तथा मत्वा तपस्त्यक्त्वा गृहं ययौ ॥२३॥
एवं सुधीः सुखं बोध्यो मरुभूतिस्तु दुर्मतिः।
न शक्यते बोधयितुं बोध्यमानश्च कुप्यति ॥२४॥
इत्युक्ते गोमुखेनाऽत्र मध्ये हरिशिखोऽभ्यधात्।
भवन्ति सुखसम्बोध्याः सत्यं देव सुमेधसः ॥२५॥
विरूपशर्मणो ब्राह्मणस्य कथा
तथा च पूर्वमभवद् वाराणस्यां द्विजोत्तमः।
कश्चिद् विरूपशर्माख्यो विरूपो निर्धनस्तथा ॥२६॥
स च वैरूप्यदौर्गत्यनिर्विण्णस्तत्तपोवनम्।
गत्वा तीव्रं तपश्चक्रे रूपद्रविणकाङ्क्षया ॥२७॥
अथ सुरपतिः कृत्वा विकटव्याधिताकृतेः।
जम्बुकस्याधमं रूपमस्याग्रे तस्य तन्मियान् ॥२८॥
तं विलोक्य परीताङ्गमक्षिकाभिरसृक्स्रवम्।
विरूपशर्मा धनकर्मणसा विममर्श सः ॥२९॥
ईदृशा अपि जायन्ते संसारे पूर्वकर्मभिः।
तन्ममाल्पमिदं धात्रा कृतं यन्मद्वपुः कृत ॥३०॥
को दैवविलिखितं भोगं रुद्धयेदित्यवेक्ष्य सः।
विरूपशर्मा धतकैस्तपःस्थानाद्ययौ गृहम् ॥३१॥