कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 1042 of 1079
Read in context१८२ कथासरित्सागर
बुद्ध्वा च मिलितग्राम्यवृत्तानुमतया तया।
दशमारिकया सोऽथ पथिको जगृहे पतिः॥९५॥
तेन साकं च यावत् सा कालं कमपि तिष्ठति।
तावत्तीक्ष्णज्वराक्रान्तः सोऽपि तस्याः क्षयं ययौ॥९६॥
ततः सा हासिनी ग्राम्यामप्येकादशमारिका।
खिन्ना गङ्गातटं गत्वा प्रव्रज्यामेव शिश्रिये॥९७॥
इत्युक्त्वा हसितं वत्सराजपुत्रं स गोमुखः।
भूयोऽब्रवीत् कथामेतां शृण्विमां दान्तजीविनः॥९८॥
पुमान् कश्चिद्दरिद्रोऽभूद् ग्रामे क्वापि कुटुम्बवान्।
एक एव बलीवर्दस्तस्य चाभूद् गृहे धनम्॥९९॥
स निःसत्त्वोऽशनाभावात् सीदत्यपि कुटुम्बके।
सोपघातोऽपि तं दान्तं व्यक्रीणीत न लोभतः॥१००॥
गत्वा तु विन्ध्यवासिन्याः पुरतो दर्भसंस्तरे।
पतित्वा स तपश्चक्रे निराहारोऽर्थकाम्यया॥१०१॥
उत्सृष्टैको बलीवर्दः सर्वदा धनमस्ति ते।
अतस्तमेव विक्रीथ जीविष्यसि सदा सुखम्॥१०२॥
इत्यादिष्टस्तया स्वप्ने देव्या प्रातः प्रबुध्य सः।
उत्थाय पारणं किञ्चित् कृत्वा स्वगृहमाययौ॥१०३॥
एत्याप्यधीरो बिभ्रतु नोक्षार्णं तं शशाक च।
विक्रीतेऽस्मिन्नहं निस्वो नैव वर्तेय जात्विति॥१०४॥
अथ सं कथितस्वप्नदेव्यादेशं प्रसङ्गतः।
उपहासकृधं कश्चिदुवाच सुमतिः सुहृत्॥१०५॥
एक एवास्ति दान्तस्तं त्वं विक्रीथ सर्वदा।
जीविष्यसीति दम्भोऽस्त तस्मात् मूढ न त्वया॥१०६॥
तद्विक्रयेणैतमुक्षाणं निर्वाहय कुटुम्बकम्।
ततो भविष्यत्यपरस्ततश्चान्यस्ततोऽपरः॥१०७॥
इत्युक्तस्तेन मित्रेण ग्रामीणः स तथाकरोत्।
एकैकवृषपण्याच्च जिजीव भृशं सुखी॥१०८॥
एवं फलति भव्यस्य विधिः सत्पानुमारतः।
सन्मुग्धो नवन् मत्स्र्द्दीन न शृणुते धियम्॥१०९॥