कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 1026 of 1079
Read in context१६६ कथासरित्सागर
इत्यादिश्य सा देवी तिरोऽभूत्तस्य सोऽपि च।
प्रबुध्य प्रातरुत्थाय चक्रे स्नानादिमङ्गलम्॥२३४॥
ततोऽमरेश्वरस्याग्रे गत्वा तस्मै प्रणम्य तम्।
यत्र सङ्केतक तस्य तापस्या विहित तया॥२३५॥
अत्रान्तरे च कथमप्याप्तनिद्रा स्वमन्दिरे।
मृगाङ्कलेखामपि तां गौरी स्वप्ने समादिशत्॥२३६॥
क्षीणशाप हिरण्याक्ष जात विद्याधर पुन।
करस्पर्शेन तापस्याः पतिं प्राप्स्यस्यल शुचा॥२३७॥
इत्युक्त्वान्तर्हितायां च देव्यां प्रातः प्रबुध्य सा।
मृगाङ्कलेखा तापस्यै तस्मै स्वप्न शशंस तम्॥२३८॥
सा तच्छ्रुतैव नागत्य भूलोक सिद्धतापसी।
स्मित क्षेत्रेऽमरेशस्य हिरण्याक्ष तमभ्यधात्॥२३९॥
एहि विद्याधर लोक पुत्रेत्युक्त्वा करेण सा।
प्रणत त समादाय बाहावुपतस्थुषम्॥२४०॥
तावत्स च हिरण्याक्षो भूत्वा विद्याधरेश्वरः।
स्मृत्वा शापक्षयाज्जाति तापसीं तामभाषत॥२४१॥
हिमाद्रौ वद्ध्यकूटाख्ये पुरे जानीहि मामियम्।
विद्याधराणा राजान नाम्नाप्यमृततेजसम्॥२४२॥
सोऽहमुल्लङ्घनक्रोधाच्छाप प्राप्य पुरा मुनेः।
मर्त्ययोनिमुपागच्छ त्वत्करस्पर्शनावधिम्॥२४३॥
शाप्तस्य मे सदा भार्या या दुःखादजहत्तनूम्।
सैषा मृगाङ्कलेखाद्य जाता पूर्वप्रिया मम॥२४४॥
इदानीं च त्वया सार्धं गत्वा प्राप्स्यामि तामहम्।
त्वत्करस्पर्शपूतस्य शान्तः शापो हि सोऽद्य मे॥२४५॥
इति ब्रुवस्तया साक तापस्या गगनेन सः।
जगामामृततेजास्त हिमाद्रि द्युचराधिपः॥२४६॥
मृगाङ्कलेखामुद्यानस्थितां तत्र ददर्श सः।
साप्यापश्यत्तमायान्तं तापस्याधिष्ठितं तया॥२४७॥
चित्र श्रुतिपथेनादौ प्रविश्याग्योन्यमानसम्।
अनिर्गत्याप्यधिष्ठितां दृष्टिमार्गेण तौ पुनः॥२४८॥