कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 1000 of 1079
Read in context१४६ कथासरित्सागर
तेन भीषयितुं तं च वयस्यं नर्मणा मया।
उत्ससर्जूरगस्तटान्ते स वंशो मन्त्रबलाद्बहिः॥८७॥
क्षणात् स्नात्वा तटं प्राप्तो मध्यस्थो विलोक्य सः।
अशङ्कितं महाहिं च त्रस्तो मोहमुपागमत्॥८८॥
चिरादाश्वसितः सोऽथ मया ध्यानावधृत्य तत्।
मत्कृतं त्रासनं कोपाच्छपति स्म सखापि माम्॥८९॥
गच्छेदृगेव त्रिफणः सर्पो भव महानिति।
अनुनीतोऽथ शापान्तमृषिपुत्रः स मेऽब्रवीत्॥९०॥
सर्पीभूतश्च्युतं कूपे योऽसौ त्वामुद्धरिष्यति।
तस्योपकृत्यावसरे शापमुक्तो भविष्यसि॥९१॥
इत्युक्तेनैव गते तस्मिन्नपोऽहं सर्पतां गतः।
उद्धृतोऽस्मि त्वया चाद्य कूपात्तद्यामि सम्प्रति॥९२॥
स्मृतश्चैषोपकारं ते कृत्वा मोक्ष्य स्वशापतः।
इत्युक्त्वा भुजगे याते स्त्री स्ववृत्तमवर्णयत्॥९३॥
दुष्टस्त्रिय आत्मकथा
अह क्षत्रियपुत्रस्य भार्या राजोपसेविनः।
शूरस्य रूपिणो मूनरुचारुरूपस्य मानिनः॥९४॥
कृतोऽन्यपुरुषासङ्गो मया तदपि पापया।
तद्विज्ञाय स भर्त्ता मे निग्रहायाकरोन्मतिम्॥९५॥
सखीमुखाच्च तद्बुद्ध्वा तदवाहं पलायिता।
रात्रौ वनं प्रविष्टैव कूपभ्रष्टोद्धृता त्वया॥९६॥
स्वत्प्रसादादिदानीं च गत्वा जीवामि कुत्रचित्।
भूयात्तन्मे दिनं यत्र कुर्यां ते प्रत्युपक्रियाम्॥९७॥
इत्युक्त्वा बोधिसत्त्वं तं कुलटा निकटासतं।
गोत्रवर्धनसञ्ज्ञस्य राज्ञः सा नगरं ययौ॥९८॥
तस्य सङ्गतिमुत्पाद्य परिवारजनैः सह।
तस्यौ राजमहादेव्या दासीभावाश्रयेण सा॥९९॥
तस्यापि बोधिसत्त्वस्य तस्याः सम्भाषणात् स्त्रियाः।
नाचिरासीद्वने नष्टसिद्धमूलफलादिकम्॥१००॥