कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
Kathasaritsagara Part 1 (Lambaka 1–5)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)
Page 845 of 876
Read in contextयहाँ पृष्ठ का लिप्यन्तरण प्रस्तुत है:
७८६ कथासरित्सागर
ततः स यक्षो गत्वैव स्वयुक्त्या निजघान तान्।
निधानवादिनो विप्रान्सम्प्राप्तमनार्यान् ॥७४॥
तद्बुद्ध्वा धनदः क्रुद्धो विरूपाक्षमुवाच तम्।
ब्रह्महत्या कथं पाप कारिता सहसा त्वया ॥७५॥
दुर्गतो वार्त्तिकजनो लोभात्किं नाम नाचरेत्।
निवार्यन्ते स विप्राय विघ्नेस्तैस्त्वेनं हन्यते ॥७६॥
इत्युक्त्वाथ शशापैनं विरूपाक्षं धनाधिपः।
मर्त्ययोनौ प्रजायस्व दुष्कृताचरणादिति ॥७७॥
प्राप्तशापोऽथ कस्यापि भूतले ब्राह्मणस्य सः।
विरूपाक्षः सुतो जातो ब्राह्मणस्याग्रहारिणः ॥७८॥
ततोऽस्य यक्षिणी पत्नी धनाध्यक्षं व्यजिज्ञपत्।
देव यत्र स भर्त्ता मे क्षिप्तस्तत्रैव मां क्षिप ॥७९॥
प्रसीद नहि शक्नोमि वियुक्ता तेन जीवितुम्।
एव तया स विज्ञप्तः साध्व्या वैश्रवणोऽभ्यधात् ॥८०॥
तस्य विप्रस्य सदने जातो भर्त्ता स तेऽनघे।
तस्यैव दास्या गेहे त्वं निपतिष्यस्ययोनिजा ॥८१॥
तत्र तेन समं भर्त्रा सङ्गमस्ते भविष्यति।
स्वप्रसादात्स शापं च तीर्त्वा मत्पार्श्वमेष्यसि ॥८२॥
इति वैश्रवणादेशात्सा साध्वी पतिता ततः।
दास्यास्तस्या गृहद्वारि कन्या भूत्वैव मानुषी ॥८३॥
अकस्माच्च तया दास्या कन्या दृष्टाद्भुताकृतिः।
गृहीत्वा दर्शिता चास्य स्वामिनोऽथ द्विजन्मनः ॥८४॥
न्वियेयं कन्यका क्वापि निःसन्देहमयोनिजा।
त्याग्या मम चक्रीहानय तां श्यमदाद्द्रुतम् ॥८५॥
इयं हि मम पुत्रस्य मन्ये भार्यात्वमर्हति।
इति सोऽपि द्विजो दासीं तामुवाच मनन्तरम् ॥८६॥
प्रमादत्र विवृद्धा सा कन्या विप्रात्मजश्च सः।
अन्योन्यदर्शनापहृतात्मनो बभूवतुः ॥८७॥
ततः कृतविवाही तौ तेन पित्रेण दम्पती।
प्रजातिस्मरणव्याप्तावुत्तीर्णविरहाविव ॥८८॥