Skip to content
SarvaKosh
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

Kathasaritsagara Part 1 (Lambaka 1–5)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 761 of 876

Read in context
Page 761

७४ कथासरित्सागर
पञ्चमस्तरङ्ग
कलिङ्गसेनायाः सोमप्रभायाश्च कथा (पूर्वानुवृत्ता)
ततोऽन्येद्युरुपेतां तां प्रातः सोमप्रभां सखीम्।
कलिङ्गसेना वियन्मातः कथां कुर्वत्युवाच सा॥१॥
मां प्रसेनजिते राज्ञे तातो दास्यति निश्चितम्।
एतच्चात्र मयाम्बातो दृष्टो वृद्धः स च त्वया॥२॥
वत्सेश्वरस्तु यथा रूपे त्वयैव कथितस्तथा।
श्रुतिमार्गप्रविष्टेन हृतं तेन मया मनः॥३॥
तत्प्रसेनजितं पूर्वं प्रदर्श्य नय तत्र माम्।
आस्ते वत्सेश्वरो यत्र किं तातेन किमम्बया॥४॥
एवमुक्तवतीं तां च सोक्ता सोमप्रभाब्रवीत्।
गन्तव्यं यदि तद्यामो यन्त्रेण व्योमगामिना॥५॥
किं तु सर्वं गृहाण त्वं निजं परिकरं यतः।
दृष्ट्वा वत्सेश्वरं भूयो नागन्तुमिह शक्ष्यसि॥६॥
न च त्वं द्रक्ष्यसि पुनः पितरौ न स्मरिष्यसि।
दूरस्थां प्राप्तदयिता विस्मरिष्यसि मामपि॥७॥
नह्येषमहमेष्यामि भर्तृवेश्मनि ते सखि।
तच्छ्रुत्वा राजकन्या सा रुदती तामभाषत॥८॥
तर्हि वत्सेश्वरं तं त्वमिहैवानय मे सखि।
नोत्सहे तत्र हि स्थातुं क्षणमक्क त्वया विना॥९॥
मानिन्ये चानिरुध्य किमपायाच्चित्रलेखया।
जानन्त्यपि तथा चेतो मतस्त्वं तत्कथां शृणु॥१०॥
बाणासुरस्य तनया बभूवोषेति विश्रुता।
तस्याश्चाराधिता गौरी पतिप्राप्त्यै वरं ददौ॥११॥
स्वप्ने प्राप्स्यसि यत्सङ्गं स ते भर्त्ता भवेदिति।
ततो देवकुमाराभं कञ्चित्स्वप्ने ददर्श सा॥१२॥
गान्धर्वविधिना तेन परिणीता तथैव च।
प्राप्ततत्सदृशसम्भोगा प्राबुध्यत निशाक्षये॥१३॥
अबुद्ध्वा सं पतिं दृष्टं दृष्ट्वा सम्भोगलक्षणम्।
स्मृत्वा गौरीवरं सामूत्सात्कुभयविस्मया॥१४॥