Skip to content
SarvaKosh
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

Kathasaritsagara Part 1 (Lambaka 1–5)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 705 of 876

Read in context
Page 705

३५० कथासरित्सागर
वेतालैस्तैश्च का मैत्री ये विहस्य हरन्त्यसून।
तद्राजपुत्रि सख्यं मे मा स्म व्यभिचर सदा ॥१५३॥
इति श्रुत्वा कथामेतां हर्म्ये सोमप्रमामुखात्।
कलिङ्गसेना सस्नेहं तां सखीं प्रत्यभाषत ॥१५४॥
एते पिशाचा न त्वेते राजपुत्रा मया सखि।
पिशाचदुग्रहकथामहमाख्यामि ते श्रृणु ॥१५५॥
पिशाचब्राह्मणयोः कथा
यज्ञस्थलारव्ये कोऽप्यासीदग्रहारे पुरा द्विजः।
स जातु दुर्गसः काष्ठा न्यायाहुतुमटवीं ययौ ॥१५६॥
तत्र काष्ठं कुठारेण पाटद्यमानं द्विधेर्वधात्।
व्यापत्य तस्य जङ्घायां भित्त्वान्तः प्रविवेश खत् ॥१५७॥
ततः स प्रस्रवद्रक्तो दृष्ट्वा केनापि मूर्च्छितः।
उत्क्षिप्यानीयत गृहं पुंसा प्रत्यभिजानता ॥१५८॥
तत्र विह्वलया पत्न्या तस्य प्रक्षाल्य शोणितम्।
आश्वास्य तस्य जङ्घायां निबद्धो व्रणपट्टकः ॥१५९॥
छतश्चिकित्स्यमानः सन् प्रशस्तस्य दिने दिने।
न परं न रुरोहैव यावन्नाडीत्वमाययौ ॥१६०॥
ततो नाडीव्रणात् खिन्नो दरिद्रो मरणोद्यतः।
अभ्येत्य सख्या विप्रेण केनापि जगदे रहः ॥१६१॥
सखा मे यज्ञदत्ताख्यश्चिरं भूत्वातितुर्गतः।
पिशाचसाधनं कृत्वा धनं प्राप्य सुखी स्थितः ॥१६२॥
तच्च तत्साधनं तेन ममाप्युक्तं त्वमप्यतः।
पिशाचं साधय सखे स ते रोषयिता व्रणम् ॥१६३॥
इत्युक्त्वारव्यातमग्नोऽथाबुवाचास्य क्रियामिमाम्।
उत्थाय पश्चिमे यामे मुक्तकेशो दिगम्बरः ॥१६४॥
अनाचान्तश्च मुष्टी द्वे तण्डुलानां यथाक्रमम्।
द्वाभ्यामादाय हस्ताभ्यां जपन् गच्छेदचतुष्पथम् ॥१६५॥
तत्र तण्डुलमुष्टी द्वे स्थापयित्वा ततः सखे।
मौनेनैव त्वमागच्छेर्मा वीक्षिष्ठाश्च पृष्ठतः ॥१६६॥