Skip to content
SarvaKosh
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

Kathasaritsagara Part 1 (Lambaka 1–5)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 691 of 876

Read in context
Page 691

१६६ कथासरित्सागर
फल यच्च सुतादानात् कृत पुत्रात् परत्र यत्।
सुलोचनाख्यामत्र किञ्च यन्मि निशम्यताम् ॥५०॥
सुषेणनृपते कथा
आसीद्राजा सुषेणाख्यश्चित्रकूटाचले युवा।
कामोऽन्य इव यो धात्रा निर्मितस्त्र्यम्बकेर्ष्या ॥५१॥
स चक्रे दिव्यमारामं मूले तस्य महागिरे ।
सुराणां नन्दनोद्यानवासवैरस्यदायिनम् ॥५२॥
तन्मध्ये च चकारैकां वापीमुत्फुल्लपङ्कजाम्।
लक्ष्मीलीलाारविन्दानां नवाकरमहीमिव ॥५३॥
सस्यास्तस्थौ स सद्रत्नसोपानायास्तटे सदा।
पत्नीनां स्वानुरूपाणामभावादवधूसखः ॥५४॥
एकदा तेन मार्गेण नभसा सुरसुन्दरी।
रम्भा जम्भारिभवनादाजगाम यदृच्छया ॥५५॥
सा तं ददर्श राजानं तत्रोद्याने विहारिणम्।
साक्षा मधुमिवोत्फुल्लपुष्पकाननमध्यगम् ॥५६॥
वापिकापद्मपतितां दिवोऽनु पतितां श्रियम्।
चन्द्रं किमेष नैसद् वा क्षीरस्य ह्यनपायिनी ॥५७॥
नूनं पुष्पोपद्यानं पुष्पेक्षुः सोऽयमागतः।
किं तु सा रतिरेतस्य क्व गता सहचारिणी ॥५८॥
इत्यौत्सुक्यकृताश्लेषा सावतीर्ण मभोन्तरात्।
रम्भा मानुषरूपेण राजानं तमुपागमत् ॥५९॥
उपेतां तां च महसा दृष्ट्वा राजा सविस्मय ।
अचिन्तयदहो नेयमसंभाव्यवपुर्भवेत् ॥६०॥
न तावन्मानुषी येन पादौ मास्य रजःस्पृशौ।
न चक्षुः सनिमेषं वा तस्माद्दिव्यैव साप्सरो ॥६१॥
प्रष्टव्या तु मया नयं पलायेत हि जातुचित्।
रतिभेनासहा प्रायो दिव्याः कारणक्रुताः ॥६२॥
इति ध्यायन् स नृपतिः कृतसम्भाषणस्तया।
वरक्रमणेय हरकार तत्कथापदमाप्तवान् ॥६३॥