कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
Kathasaritsagara Part 1 (Lambaka 1–5)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)
Page 575 of 876
Read in context५२८ कथासरित्सागर
श्मशानमेतद्देषा च चिता ज्वलति तत्क्षणम्।
गम्यतेऽत्र पिशाचादिभीषणं त्वं हि बालकः ॥१९६॥
एतच्छ्रुत्वा पितुर्वाक्यं त्रस्तस्य विहस्य सः।
वीरो विजयदत्तस्तं सावष्टम्भमभाषत ॥१९७॥
किं पिशाचादिभिस्तात वराकं क्रियत मम।
किमल्पसत्त्वः कोऽप्यस्मि तदशङ्क नयैष माम् ॥१९८॥
इत्याग्रहाद् ब्रुवन्तं तं स पिता तत्र नीतवान्।
सोऽप्यङ्गं तापयन् बाण्च्छितामुपससर्प ताम् ॥१९९॥
ज्वलन्तीमनलज्वालाधूमव्याकुलमूर्धजाम् ।
नृमांसग्राहिणीं साक्षान्नि रक्षोधिदेवताम् ॥२००॥
क्षणात्तत्र समाश्वस्य सोऽर्भकः पितरं च तम्।
चितान्तर्वृष्यते वृत्तं किमसदिति पृष्टवान् ॥२०१॥
कपालं मानुपम्यतन्चितायां पुत्र दह्यते।
इति तं प्रत्यवादीत्तं सोऽपि पार्श्वस्थितः पिता ॥२०२॥
ततः स्वसाहसेनेव दीप्ताग्रेण निहत्य तम्।
कपालं स्फोटयामास काष्ठेनैकेन सोऽर्भकः ॥२०३॥
ततोऽस्य प्रसुता तस्मान् मुखे तस्यापतद् वसा।
श्मशानबलिभा नक्तञ्चरीसिद्धिरिवापिता ॥२०४॥
तदास्वादन बालश्च सम्पन्नाद्भूत्स राक्षसः ।
ऊर्ध्वकेशः शिखोल्लातसङ्गो दंष्ट्राविशङ्कटः ॥२०५॥
आकृष्य च कपालं तद् वसां पीत्वा लिलेह सः।
अस्थिलग्नाननज्वालालोलया निजजिह्वया ॥२०६॥
ततस्त्यक्तकपालः सन्नितरं निजमेव तम्।
गोविन्दस्वामिनं हन्तुमुद्यतासिरियद्य सः॥२०७॥
कपालस्फोट भो देव न हन्तव्यः पिता तव।
इत एहीति तत्कालं श्मशानादुवभूव वचः ॥२०८॥
तच्छ्रुत्वा नाम लब्ध्वा च कपालस्फोट इत्यदः ।
स वटं पितरं मुक्त्वा रक्षामूखस्तिरोदधे ॥२०९॥
१ वृत्तम्—गोलाकारम्।