Skip to content
SarvaKosh
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

Kathasaritsagara Part 1 (Lambaka 1–5)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 565 of 876

Read in context
Page 565

५१८ कथासरित्सगर

सत्राथार्योऽस्ति मम भ्राता ज्येष्ठो दीर्घतपा इति।
तत्पार्श्वं व्रज जानीयात्स वृद्धो जातु तां पुरीम् ॥२४॥
एतच्छ्रुत्वा सधृत्युक्त्वा जातास्त्यस्तत्र तां निशाम्।
नीत्वा प्रतस्थे स प्रातः शक्तिदेवो द्रुतं सतः ॥२५॥
कृशातिक्रान्तकान्तारशतश्वासाद्य तं चिरात्।
कामिल्यविषयं तस्मिन्नाहरोहोत्तरे गिरौ ॥२६॥
तत्र तं दीर्घतपसं मुनिमाध्यमवर्त्तिनम्।
दृष्ट्वा प्रणम्य च प्रीतः कृतातिथ्यमुपाययौ ॥२७॥
व्यजिज्ञपच्च कनकपुरीं राजसुतोदिताम्।
प्रस्थितोऽहं न जानामि भगवन्क्वास्ति सा पुरी ॥२८॥
सा च मेऽवश्यं गन्तव्या सतस्तुवुपलब्धये।
ऋषिणा सूयतपसा प्रेषितोऽस्मि तवान्तिकम् ॥२९॥
इत्युक्तवन्तं तं शक्तिदेवं सोऽप्यब्रवीन्मुनिः।
इयता वयसा पुत्र ! पुरी साद्य श्रुता मया ॥३०॥
देशान्तरागते के नैर्जाति परिचयो न मे।
न च तां श्रुतवानस्मि दूरे तद्दर्शनं पुनः ॥३१॥
जामाम्यहं च नियतं दवीयसि तया क्वचित्।
भाव्यं द्वीपान्तरे वत्स तत्रोपायं च वच्मि ते ॥३२॥
अस्ति वारिनिधेर्मध्ये द्वीपमुत्स्थलसंज्ञकम्।
तत्र सत्यव्रताख्योऽस्ति निषादाधिपतिर्धनी ॥३३॥
तस्य द्वीपान्तरेष्वस्ति सर्वेष्वपि गतागतम्।
तेन सा नगरी जातु भवेद्दृष्टा श्रुतापि वा ॥३४॥
तस्मात्प्रयाहि जलधेरुपकण्ठप्रतिष्ठितम्।
नगरं प्रथमं तावद् विटङ्कपुरसंज्ञकम् ॥३५॥
तत केनापि वणिजा समं प्रवहणेन तत्।
निषादस्यास्पदं गच्छ द्वीप तस्येष्टसिद्धये ॥३६॥
इत्युक्तस्तेन मुनिना शक्तिदेवः स तत्क्षणम्।
तथेत्युक्त्वा तमामन्त्र्य प्रयाति स्म तदाश्रमात् ॥३७॥
काञ्चन प्राप्य चोत्लङ्घ्य दशान् कौशाम्बकूहस्ततः।
वारिधेस्तीरतिलकं तद्विटङ्कपुरं परम् ॥३८॥