Skip to content
SarvaKosh
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

Kathasaritsagara Part 1 (Lambaka 1–5)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 557 of 876

Read in context
Page 557

५१ कथासरित्सागर
उत्तमस्य विशेषेण कलङ्कोत्पादको जनः।
हरस्वामिकथामत्र शृण्वेतौ कथयामि ते ॥२५॥
हरस्वामिनः कथा
गङ्गोपकण्ठे कुसुमपुर नामास्ति यत्पुरम्।
हरस्वामीति कोऽप्यासीत्तीर्थार्थी तत्र तापसः ॥२६॥
स भैक्षवृत्तिर्विप्रोऽत्र गङ्गातीरे कृतोटजः।
सप्रकर्षाल्लोकस्य गौरवास्पदतां ययौ ॥२७॥
कदाचिच्चात्र तं दृष्ट्वा दूराद् भिक्षाविनिर्गमम्।
जनमध्ये जगादैदस्तद्गुणासहनः खलः ॥२८॥
अपि जानीथ ज्ञातोऽयं कीदृक्कपटतापसः।
अनेनैवार्मकाः सर्वे नगरेऽमुत्र भक्षिताः ॥२९॥
तच्छ्रुत्वा च द्वितीयोऽत्र तमायोधत तादृशः।
सत्यं श्रुतं मयाप्येतदुच्यमानं जनैरिति ॥३०॥
एवमेतदिति स्माह तृतीयोऽपि समर्थयन्।
वञ्चनात्यार्यपरीवादं खलस्वभावशृङ्खला ॥३१॥
तेनैव च क्रमेणैषा गता कर्णपरम्पराम्।
प्रवादा बहुलीभावं सर्वत्राऽत्र पुरे ययौ ॥३२॥
पौराश्च सर्वे गेहेभ्यो बलाद् बालान सारयन्।
हरस्वामी शिशून् नीत्वा भक्षयत्यखिलानिति ॥३३॥
ततश्च ब्राह्मणास्तत्र सन्ततिक्षयभीरवः।
सम्भूय मन्त्रयामासुः पुरातस्य प्रवासनम् ॥३४॥
ग्रसेत कुपितः सोऽस्मानिति साक्षाद् भयान्न ते।
यदा तस्याशकन् वक्तुं दूतान् विससृजुस्तदा ॥३५॥
स च गत्वा सदा धूता दूरादेव समब्रुवन्।
नगराद् गम्यतामस्मादिरापाङ्कस्त्वं द्विजातम ॥३६॥
किं निमित्तमिति प्रोक्ता विस्मितमाथ सन तः।
पुनरुचुस्त्वमश्नासि बालकांमिहति तम् ॥३७॥
तच्छ्रुत्वा स हरस्वामी स्वय प्रत्ययानयच्छया।
विप्राणां निकटं तेषां भीतिनदयग्रनो ययौ ॥३८॥