Skip to content
SarvaKosh
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

Kathasaritsagara Part 1 (Lambaka 1–5)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 525 of 876

Read in context
Page 525

४८२ कथासरित्सागर

प्रणतं कल्पितातिथ्यं क्रमाद् वत्सेश्वरोऽथ तम्।
कस्त्वं किमिह ते कार्यमित्यपृच्छत् सकौतुकम् ॥११०॥
सोऽप्यवादीदहं मर्त्यो भूत्वा विद्याधराधिपः।
सम्पन्नः शक्तिवेगाख्यः प्रभूताश्च ममारयः ॥१११॥
सोऽहं प्रभावाद् विज्ञाय भाव्यस्मच्चक्रवर्तिनम्।
भवतस्तनयं द्रष्टुमागतोऽस्म्यवनीपते ॥११२॥
इत्युक्तवन्तं तं दृष्ट्वा भाव्यञ्चक्रवर्तिनम्।
प्रीतः वत्सेश्वरो हृष्टः पुनः पप्रच्छ विस्मयात् ॥११३॥
विद्याधरत्वं प्राप्येत कथं कीदृग्विधं च तत्।
त्वया च सत्कथं प्राप्तमेतत् कथय नः सखे ! ॥११४॥
तच्छ्रुत्वा वचनं राज्ञः स तदा विनयानतः।
विद्याधरः शक्तिवेगस्तमेवं प्रत्यबोधत ॥११५॥
राजन्निहैव पूर्वे वा जन्मन्याराध्य शङ्करम्।
विद्याधरपदं धीरा लभन्ते तदनुग्रहात् ॥११६॥
तच्चानेकविधं विद्याखड्गमालादिसाधनम्।
मया च तद्यथा प्राप्तं वक्ष्यामि तथा शृणु ॥११७॥
एवमुक्त्वा स्वसम्बद्धां शक्तिवेगः स सन्निधौ।
देव्या वासवदत्तायाः कथामाख्यातवानिमाम् ॥११८॥

कनकपुरी शक्तिवेगयोः कथा

अभवद् वर्धमानाख्यं पुरं भूचक्रभूषणम्।
नाम्ना परोपकारीति पुरा राजा परन्तपः ॥११९॥
तस्याप्रतिमरूपाभून्महिषी कनकप्रभा।
त्रिदिवादागतेवेव सा तु निर्मुक्तशापना ॥१२०॥
तस्यां तस्य च कालेन श्यामाजायत कन्यका।
रूपेणोपेक्ष्यान्येव या रूप्या धातृव निर्मिता ॥१२१॥
अवर्धत शनैः सा च शारदाभ्रगता यथा।
पित्रा कनकलेखेति यथार्थाख्या कृतात्मजा ॥१२२॥
अथ सा यौवनं प्राप्ता दृष्ट्वा राजा स विस्मितः।
विस्मेरो रागिणां देव्या जगाद कनकप्रभाम् ॥१२३॥