कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
Kathasaritsagara Part 1 (Lambaka 1–5)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 479, कुल 876 में से
संदर्भ में पढ़ें४३६ कथासरित्सागर
मयापि पुत्र गन्तव्यं का हि वृद्धस्य मे स्पृहा।
राज्ये तृण इव त्यक्ते यूनापि कृपया त्वया॥४४॥
एवमुक्तवता सार्धं सभार्येण तथेति सः।
पित्रा जगाम जीमूतवाहनो मलयाचलम्॥४५॥
तत्राधिवासे सिद्धानां चन्दनच्छन्ननिर्झरे।
स तस्याश्रमपदं परिचर्यापरः पितुः॥४६॥
अथ सिद्धाधिराजस्य बली विश्वावसोः सुतः।
मित्रं मित्रावसुर्नाम तस्यात्र समपद्यत॥४७॥
तत्स्वसारं च सोऽपश्यदेकान्ते जातु कन्यकाम्।
जन्मान्तरप्रियतमां ज्ञानी जीमूतवाहनः॥४८॥
तस्याश्च स वयोगुर्व्या यूनोरन्योन्यवीक्षणम्।
अभून्मनोमृगामन्दाऽनुरागवल्लमाश्रितम् ॥४९॥
ततोऽभ्यागममभ्येत्य त्रिजगत्पूज्यमब्रवीत्।
जीमूतवाहनं प्रीतः स मित्रावसुरात्मवान्॥५०॥
मम्या मलयवत्याख्या स्वसा मद्रसिके स्थीयताम्।
तामहं ते प्रयच्छामि ममेच्छा मान्यतां कृपा॥५१॥
समाश्रित्य स जीमूतवाहनोऽपि जगाद तम्।
यथैषात्र ममाभूत्सा भार्या पूर्वैरपि जन्मनि॥५२॥
इदं च तत्रैव मे ज्ञाता स्थितिं पूर्वं गृहम्।
जातिस्मरोऽस्म्यहं सर्वं पूर्ववृत्तं स्मरामि तत्॥५३॥
इत्युक्तेन तदाऽमित्रावसुनाऽथ तम्।
वृत्तान्तोऽथया साऽप्युक्ता श्रोतुं हि मे॥५४॥
तज्जिज्ञासया गत्वा तस्मै जीमूतवाहनः।
श्रीजीमूतवाहनस्य पूर्वजन्मकथा
गृहस्थोऽहमतुष्टोऽस्य पूर्वजन्मनिवासिनाम्॥५५॥
अर्थिनां पूर्तिकृत् सोऽहमायुर्विद्वत्त्वयोगवान्।
स्थितस्त्वनुकम्पावान् लोकेऽर्थं फलवान्॥५६॥
ततश्चैव पिताऽदात् श्रीमत्यो नैव इव।
समन्ताद्बहुदेशेषु रत्नानीव जगौ मम॥५७॥