Skip to content
SarvaKosh
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

Kathasaritsagara Part 1 (Lambaka 1–5)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 383 of 876

Read in context
Page 383

१४९ कथासरित्सागर
तथेति तेन वणिजा तद्वचस्त्वभिनन्दित ।
बबन्धुः कर्णधारास्तं रज्जुबन्धेन कटयो ॥३०॥
तद्बढोऽवततारैव वारिधौ स विदूषकः ।
न जात्ववसरे प्राप्ते सत्त्ववानवसीदति ॥३१॥
ध्यातोपस्थितमार्गेण खड्गं कृत्वा च तं करे।
वीरः प्रवहणस्याधो मध्यवारि विवेश सः ॥३२॥
तत्र चक्रे महाकायं सुप्तं पुरुषमैक्षत।
जङ्घायां तस्य बद्धं च यानपात्रं व्यलोकयत् ॥३०३॥
बिच्छेद तां स जङ्घां च तस्य खड्गेन तत्क्षणम्।
पचाल स प्रवहणं रोधमुक्तं तदैव तत् ॥३०४॥
तद्दृष्ट्वैव वणिक्पापश्छेदयामास तस्य तत्।
विदूषकस्य रज्जूस्तां प्रक्षिप्तार्थस्तलोभतः ॥३०५॥
द्रुतमेव च मुक्तेन द्रुतं प्रवहणेन सः।
स्वलोभस्येव महत्पारमम्बुनिधेर्ययौ ॥३६॥
विदूषकोऽपि स च्छिन्नरज्ज्वालम्बोऽम्बुमध्यगः।
उन्मज्ज्य तत्तथा दृष्ट्वा धीरः क्षणमचिन्तयत् ॥३०७॥
किमिदं वणिजा तेन कृतं किमबबोध्यते।
कृतघ्ना धनलोभान्धा मोपकारेष्वमक्षमाः ॥३८॥
तदेष कालः सुतरामधैकस्यास्य साम्प्रतम्।
नहि सत्त्वावसादेन स्वाल्पाप्यापद् विलङ्घ्यते ॥३९॥
इति सञ्चिन्त्य तत्कालं जङ्घां तामारुरोह सः।
या सान्तर्जलसुप्तस्य पुरुषस्य न्यकृन्तत ॥३१०॥
तया ततार नावव हस्तन्यस्ताम्बुरम्बुधिम्।
दैवमेव हि साहाय्यं कुरुते सत्त्वशालिनाम् ॥३११॥
तं मारुतिमिवाम्भोधिपारं रामा१र्थमागतम्।
ससत्त्वमुवाचवमन्तरिक्षात्सरस्वती ॥३१२॥
१ रामार्थ इत्यत्र क्लिष्टम्; मारुतिपक्षे रामस्यार्थः, विदूषक पक्षे च रामा = स्त्री, तस्यानिमित्ति
ज्ञेयम् ।