Skip to content
SarvaKosh
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

Kathasaritsagara Part 1 (Lambaka 1–5)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 381 of 876

Read in context
Page 381

प्रातश्च ददृशे राज्ञा देवसेनेन तत्र सः।
स्वसुतान्तःपुरद्वारि स्थितश्छिन्नच्युतो भुजः ॥२८५॥
इतः प्रभृति नेहायं प्रवेष्टव्यो नरैरिति।
दत्तो विदूषकेणैव सुवीर्यं परिमार्गकः ॥२८६॥
ततो दिव्यप्रभावाय तस्मै प्रीतः स पार्थिवः।
विदूषकाय तनयां तां ददौ विभवोत्तरम् ॥२८७॥
ततस्तया समं तत्र कान्तया स विदूषकः।
तस्थौ दिनानि कतिचिद्रूपवत्येव सम्मदः ॥२८८॥
एकस्मिंश्च दिने सुप्तां राजपुत्रीं विहाय ताम्।
स ततः प्रययौ रात्रौ तां भद्रां प्रति सत्वरः ॥२८९॥
राजपुत्री च सा प्रातस्तदवेक्षणदुःखिता।
आसीदाश्वासिता पित्रा तत्प्रत्यावर्तनाशया ॥२९०॥
सोऽपि गच्छन्नहर्गच्छं क्रमात् प्राप विदूषकः।
पूर्वाम्बुधेस्तटस्थां नगरीं ताम्रलिप्तिकाम् ॥२९१॥
तत्र चक्रे स केनापि वणिजा सह सङ्गतिम्।
स्कन्ददासाभिधानेन पारमभ्ययियासता ॥२९२॥
तेनैव सह सोऽनल्पतदीयधनसम्भृतम्।
यानपात्रं समारुह्य प्रतस्थेऽम्बुधिमर्थिना ॥२९३॥
ततः समुद्रमध्यं तद्यानपात्रमुपागतम्।
अकस्मादभवद्रुद्धं व्यासक्तमिव केनचित् ॥२९४॥
उच्छ्रितेऽनिलवेगेन प्रयत्नैर्वा न विचचाल तत्।
तदा स वणिगार्त्तः सन् स्कन्ददासोऽब्रवीदिदम् ॥२९५॥
यो मोक्षयति ससद्यमिव प्रवहणं मम।
तस्मै निजधनार्धं च स्वसुतां च ददाम्यहम् ॥२९६॥
तच्छ्रुत्वैव जगादेदं धीरचेता विदूषकः।
अहमत्रावतीर्यान्तर्विचिनोम्यम्बुधज्जलम् ॥२९७॥
क्षणाच्च मोक्षयाम्येतदद्य प्रवहणं तव।
यूयं गाढमवलम्बध्वं बद्ध्वा मां पादरज्जुभिः ॥२९८॥
विमुक्ते च प्रवहणे तत्क्षणं वारिमध्यतः।
उद्धर्त्तव्योऽस्मि युष्माभिरवलम्बन-रज्जुभिः ॥२९९॥