कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
Kathasaritsagara Part 1 (Lambaka 1–5)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)
Page 379 of 876
Read in context३३८ कथासरित्सागरे
तस्य वारोऽद्य सम्प्राप्तस्तत्र गन्तु विपत्तय।
तदभावे मया कार्य प्रातरग्निप्रवेशनम् ॥२७०॥
तज्जीवन्ती स्वहस्तेन तुभ्यं गुणवते गृहम्।
ददामि सर्वं यन स्यां न पुनर्दुःखभागिनी ॥२७१॥
एवमुक्तवतीं धीरस्तामवोचद् विदूषकः ।
यद्यवमम्व तर्हि त्व मास्म विह्वलतां कृथा ॥२७२॥
अह सत्राय गच्छामि जीवत्वेकसुतस्तव ।
किमेत घातमामीति कृपा ते मयि मा च भूत् ॥२७३॥
सिद्धियोगाद्धि नास्त्येव भय सत्र गतस्य मे।
एव विदूषकेणोक्ता ब्राह्मणी सा जगाद तम् ॥२७४॥
तर्हि पुण्यंममायातः कोऽपि देवो भवानिह।
तत्त्राणान्देहिन् पुत्र ! कुशलं च तथारमनि ॥२७५॥
एव तया सोऽनुमत साय राजसुतागृहम्।
सेनापतिनियुक्तेन किङ्करेण सम ययौ ॥२७६॥
तत्रापश्यन्नृपसुतां तां यौवनमवोद्धताम् ।
मत्तामनुच्चितस्फीतपुण्यमारानतामिव ॥२७७॥
ततो निशार्था शयने राजपुत्र्या तयाधिते ।
ध्यातोपनतमाग्नय खड्ग बिभ्रत्करेण सः ॥२७८॥
वासवेदमनि तत्रामीज्जाग्रदेव विद्रूपकः ।
पश्यामि तावत्को हन्ति नरानत्रेति धिस्तमन् ॥२७९॥
प्रसुप्ते च जने क्षिप्रावपावृतकपाटकम्।
स द्वारदशादायान्तं घोरं राक्षसमद्रात् ॥२८०॥
स च द्वारिस्थितस्तत्र राक्षसो वासवान्तर ।
भुजं नरनताकाण्डयमदण्ड म्यवदायन् ॥२८१॥
विदूषकश्च चिच्छेद् धावित्वा सस्य तं क्रुधा।
एक खड्गप्रहारेण बाहु सपदि रक्षसः ॥२८२॥
छिन्नबाहु पलाय्याशु जगाम स निशाचरः ।
भूयोऽनागमनायैव तन्मत्त्वोत्कर्षभीतिनः ॥२८३॥
प्रबुद्ध्वा वीक्ष्य पतिनं रक्तोद्वाहं नृपात्मजा।
भीता च जातहर्षा च विस्मिता च बभूव सा ॥२८४॥