Skip to content
SarvaKosh
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

Kathasaritsagara Part 1 (Lambaka 1–5)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 367 of 876

Read in context
Page 367

१२६ कथासरित्सागर
इत्याकाशगता वाणी जातहर्षं जगाद तम्।
अनुगृह्णन्ति हि प्रायो देवता अपि साधुवृत्तम् ॥१८०॥
ततो वस्त्राञ्चलात्तस्य स परिव्राजकस्य तान्।
जग्राह सर्षपान्हस्ते तामङ्के च नृपात्मजाम् ॥१८१॥
यावच्च देवी भवनात्स तस्मान्निर्ययौ बहि।
उच्चचार पुनस्तावदन्या नभसि भारती ॥१८२॥
इहैव देवीभवन मासस्यान्ते पुनस्त्वया।
आगन्तव्य महावीर ! विस्मर्त्तव्यमिदं न ते ॥१८३॥
तच्छ्रुत्वा सप्रयुक्तत्वा सद्यो देवीप्रसादतः।
उत्पात नभो बिभ्रद्राजपुत्रीं विदूषकः ॥१८४॥
गत्वा च गगनेनाशु स तामन्तःपुरान्तरम्।
प्रावेशयद्राजसुतां समाश्वस्तामुवाच च ॥१८५॥
न मे भविष्यति प्रातर्गतिर्व्योम्नि ततश्च माम्।
सर्वे द्रक्ष्यन्ति निन्द्यन्ति तत्सम्प्रत्येव याम्यहम् ॥१८६॥
इति तेनोदिता बाला बिभ्यती सा जगाद तम्।
गते त्वयि मम प्राणास्त्रासाक्रान्ता प्रयान्त्यमी ॥१८७॥
तन्महाभाग मा गास्त्वं देहि मे जीवितं पुनः।
प्रतिपन्नार्थनिर्वाहः सहज हि सतां व्रतम् ॥१८८॥
तच्छ्रुत्वा चिन्तयामास स सुसत्त्वो विदूषकः।
यदस्तु मे न गच्छामि मुञ्चेत्प्राणान् भयादियम् ॥१८९॥
ततश्च नृपतेर्भक्तिः का मया विहिता भवेत्।
इत्यालोच्य स तत्रैव तस्थावन्तःपुरे निशि ॥१९०॥
व्यायामजागराच्छ्रान्तो ययौ निद्रां क्षनेनच सः।
राजपुत्री त्वनिद्रैव भीता तामनयन्निशाम् ॥१९१॥
विश्राम्यतु क्षण तावदिति प्रमादमानसा।
सुप्तं प्रबोधयामास सा प्रभातेऽपि नव तम् ॥१९२॥
ततः प्रविष्टा ददृशुस्तमन्तःपुरचारिणः।
ससम्भ्रमाश्च गत्वैव राजानं तं व्यजिज्ञपन् ॥१९३॥
राजाप्यवेक्षितुं तत्त्वं प्रतीहारं व्यसर्जयत्।
प्रतीहारश्च गत्वात्तस्तत्रापश्यद् विदूषकम् ॥१९४॥