कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
Kathasaritsagara Part 1 (Lambaka 1–5)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)
Page 329 of 876
Read in context१८८ कथासरित्सागर
नृपोऽपि प्रीतिमानस्य साहाय्ये नगराधिपम्।
ददौ तेन समं चासौ धर्मगुप्तगृहं ययौ॥८०॥
रुरोध च गृहं तस्य धर्मगुप्तस्य तद्बलैः।
असुभिः कण्ठलग्नैश्च सर्वनाशविशङ्किनः॥८१॥
ततः सोमप्रभा सा तं धर्मगुप्तमभाषत।
देहि मां तात माऽभूत्ते मन्निमित्तमुपद्रवः॥८२॥
आरोपणीया शय्यायां नाहं भर्त्रा कदाचन।
ईदृक्तु वाचा नियमो ग्राह्यः सम्बन्धिनां त्वया॥८३॥
इत्युक्तः स तया पुत्र्या वासु तां प्रत्यपद्यत।
धर्मगुप्तस्तवाभाष्य शय्यारोपणवर्जनम्॥८४॥
गुहसेनोऽनुमेने च सान्तर्हासस्तथैव तत्।
विवाहो मम पुत्रस्य तावदस्त्विति चिन्तयन्॥८५॥
अथादाय कृतोद्वाहां तां स सोमप्रभां वधूम्।
गुहसेनसुतः प्रायाद् गुहचन्द्रो निजं गृहम्॥८६॥
सायं तं पितावादीत् पुत्र! शय्यामिमां वधूम्।
आरोपय स्वभार्या हि कस्याङ्कशय्या भविष्यति॥८७॥
तच्छ्रुत्वा श्वशुरं तं सा वधूः सोमप्रभा रुषा।
विक्षोभ्य भ्रामयामास यमाज्ञामिव तर्जनीम्॥८८॥
तां दृष्ट्वावाङ्मुखिस्तस्याः स्नुषायास्तस्य तत्क्षणम्।
वणिजः प्रययुः प्राणा मन्येषामाययौ भयम्॥८९॥
गुहचन्द्रोऽपि सम्प्राप्ते तस्मिन् पितरि पञ्चताम्।
मारी मम गृहं भार्या प्रविष्टेति व्यचिन्तयत्॥९०॥
अतश्चानुपभुञ्जानो भार्यां तां गृहवर्तिनीम्।
सिषेवे गुहचन्द्रोऽसावासिधारामिव व्रतम्॥९१॥
तद्दुःख दह्यमानोऽन्तर्विरक्तो भोगसम्पदि।
ब्राह्मणान् भोजयामास प्रत्यहं स कृतव्रतः॥९२॥
तद्भार्यापि च सा तेभ्यो विप्रेभ्यो मौनधारिणी।
भुक्तवद्भ्यो ददौ नित्यं दक्षिणां दिव्यरूपधृत्॥९३॥
एकदा ब्राह्मणो वृद्धस्तामेको भोजनागतः।
ददर्श जगदाश्चर्यजननीं रूपसम्पदा॥९४॥
सकामुको द्विजोप्राक्षीद् गुहचन्द्रं रहस्ततः।
का ते भवति बालेयं त्वया मे कथ्यतामिति॥९५॥