Skip to content
SarvaKosh
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

Kathasaritsagara Part 1 (Lambaka 1–5)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 319 of 876

Read in context
Page 319

२७८ कथासरित्सागर
अथादिदेश सर्वज्ञो हरिः क्षीराम्बुधिस्थितः।
नारदाख्यं मुनिवरं दर्शनायमुपागतम् ॥८॥
देवर्षे ! नन्दनोद्यानवर्ती राजा पुरूरवाः।
उर्वशीहृतचित्तः सन् स्थितो विरहनिःसहः ॥९॥
तद्गत्वा मम वाक्येन बोधयित्वा शतक्रतुम्।
दापय त्वरितं तस्मै राज्ञे तामूर्वशीं मुने ! ॥१०॥
इत्यादिष्टः स हरिणा तथेत्यागत्य नारदः।
प्रबोध्य च तथाभूतं पुरूरवसमब्रवीत् ॥११॥
उत्तिष्ठ त्वत्कृते राजन्प्रहितोऽस्मीह विष्णुना।
स हि निर्व्याजभक्तानां नैवापदमुपेक्षते ॥१२॥
इत्युक्त्वाश्वासितेनाथ स पुरूरवसा सह।
जगाम देवराजस्य निकटं नारदो मुनिः ॥१३॥
हरेरादेशमिन्द्राय निवेद्य प्रणतात्मने।
उर्वशीं दापयामास स पुरूरवसे ततः ॥१४॥
तदभूदूर्वशीदानं निर्जीवकरणं दिवः।
उर्वश्यास्तु शवेवासीन्मृतसञ्जीवनौषधम् ॥१५॥
अथाजगाम भूलोकं समादाय पुरूरवाः।
स्वर्वधू-दर्शनाश्चर्यपर्याप्तमर्त्यचक्षुषाम् ॥१६॥
ततोऽनपायिनौ तौ द्वावूर्वशी च नृपश्च सः।
अन्योन्यदृष्टिपानेन नितृप्ताविव तस्थतुः ॥१७॥
एकदा दानवैः साकं प्राप्तयुद्धेन वज्रिणा।
साहाय्यार्थमाहूतो ययौ नाकं पुरूरवाः ॥१८॥
तत्र तस्मिन् हते मायाधरनाम्न्यसुराधिपे।
प्रनृत्तस्वर्वधूनाट्ये शक्रस्याभवदुत्सवः ॥१९॥
तत्र रम्भां नृत्यन्तीमाचार्ये तुम्बरौ स्थिते।
भ्रष्टाभिनयां दृष्ट्वा जहास स पुरूरवाः ॥२०॥
ज्ञानन्मिथ्यामिदं नृत्तं किं त्वं जानासि मानुष !
इति रम्भापि तत्पार्श्वे मातृपं तमभाषत ॥२१॥