Skip to content
SarvaKosh
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

Kathasaritsagara Part 1 (Lambaka 1–5)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 301 of 876

Read in context
Page 301

२६ कथासरित्सागर
द्वितीयस्तरङ्ग
वत्सराज-पद्मावत्योःपरिणयः
ततः पूर्वोक्तया युक्त्या वत्सराजं सवल्लभम्।
यौगन्धरायणाद्यास्ते निन्युर्लावाणकं प्रति ॥१॥
स राजा प्राप तं देशं स्वयशोपेण मूर्च्छता।
अभिवाञ्छितसंसिद्धिं वदन्तमिव मन्त्रिणाम् ॥२॥
तत्र प्राप्तं विदित्वा च वत्सेशं सपरिच्छदम्।
अवस्कन्दभयाच्छङ्की चकंपे मगधेश्वरः ॥३॥
यौगन्धरायणोपान्तं स्वबुद्धिविससर्ज च।
स दूतं सोऽपि सम्मन्त्र्य कार्यशोऽभिननन्द तम् ॥४॥
वत्सेश्वरोऽपि निवसंस्तस्मिन्देशे दवीयसीम्।
आखेटकार्थमटवीमटति स्म दिने दिने ॥५॥
एकस्मिन् दिवसे तस्मिन् राज्ञ्याखेटकं गते।
कर्तव्यसविदं कृत्वा गोपालकसमन्वितः ॥६॥
यौगन्धरायणो धीमान् सङ्क्रमय्यवसन्तकः।
देव्या वासवदत्ताया विजने निकटं ययौ ॥७॥
तत्र तां राजकार्येऽत्र साहाय्ये तदाद्युक्तिभिः।
प्रह्वामभ्यर्थयामास भ्रात्रा पूर्वं प्रबोधिताम् ॥८॥
सानुमेने च विरह-क्लेश-दायितवात्मनः।
किं नाम न सहन्ते हि भर्तृभक्ताः कुलाङ्गनाः ॥९॥
ततस्तां ब्राह्मणीरूपां देवीं यौगन्धरायणः।
स चकार कृती दत्त्वा योगं रूपविवर्त्तनम् ॥१०॥
वसन्तकं च कृतवान् काणं बटुकरूपिणम्।
आत्मना च तथैवाभूत्स्थविर-ब्राह्मणाकृतिः ॥११॥
तथा रूपां गृहीत्वाथ तां देवीं स महामतिः।
वसन्तकसखः स्वरं प्रतस्थे मगधान् प्रति ॥१२॥
तथा वासवदत्ता सा स्वगृहाद्विर्गता सती।
जगाम्बिपतनं भर्त्तारं पन्थानं वपुषा पुनः ॥१३॥
तन्मन्दिरमथादीप्य दह्यतेन रुमण्वता।
हा हा वसन्तकयुता देवी दग्धेत्यघोषयत् ॥१४॥
तया च बहुमात्रन्दो रुमं तत्रोदतिष्ठताम्।
शमं शशाम वह्नो न पुन' क्रन्दितध्वनिः ॥१५॥