कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
Kathasaritsagara Part 1 (Lambaka 1–5)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)
Page 173 of 876
Read in context११४ कथासरित्सागर
महाबलव्याघ्रभटावुपेंद्रबल इत्यपि।
सघा निष्ठुरको नाम सौहार्दं तस्य चक्रिरे ॥२१॥
कदाचिदथ वर्षासु विहर्तुं जाह्नवीतटे।
श्रीदत्त सह तैर्मित्रै राजपुत्रसखी ययौ ॥२२॥
स्वभृत्यास्तत्र तं चक्रुर्निज राजसुतं नृपम्।
क्रीडतोऽपि स तत्काल राजा मित्रैरकल्प्यत ॥२३॥
तावता जातोरोष राजपुत्रेण तेन सः।
विप्रवीरो रणायाशु समाहूतो मदस्पृशा ॥२४॥
स तेन बाहुयुद्धेन श्रीदत्तेनाथ निर्जितः।
चकार हृदि वध्यं तु वर्धमान कलङ्कित ॥२५॥
ज्ञात्वा च तमभिप्रायं राजपुत्रस्य शङ्कितः।
श्रीदत्त सह तैर्मित्रैस्तत्समीपादपासरेत् ॥२६॥
उपसर्पंत्स चापश्यद् गङ्गामध्यगतां स्त्रियम्।
ह्रियमाणां जलौघेन सागरस्यामिव श्रियम् ॥२७॥
सतदक्षावतारैतामुद्धर्तुं जलमध्यतः।
पड्बाहुशालिप्रमुखांस्थापयित्वा तटे सखीन् ॥२८॥
तां च कक्षेष्वापे प्राप्तां निमग्नां दूरमम्भसि।
अनुसर्तुं स्त्रियं सोऽपि वीरस्तत्रैव मग्नवान् ॥२९॥
निमज्ज्य च ददर्शात्र स श्रीदत्त क्षणादिति।
शैव देवकुलं दिव्यं न पुम्वारि न स्त्रियम् ॥३०॥
तद्दृष्ट्वा महदाश्चर्यान्नतो नत्वा वृषध्वजम्।
उद्याने सुन्दर तत्र तां निनाय विभावरीम् ॥३१॥
प्रातश्च देवमीशानं सा पूजयितुमागता।
ददृशे तेन मूर्तेव रूपश्री स्त्रीगुणाश्विता ॥३२॥
ईश्वरं पूजयित्वा च सा ततो निजमन्दिरम्।
ययाविन्दुमुखी सोऽपि श्रीदत्तोऽनुजगाम ताम् ॥३३॥
दन्तं मन्दिरं तच्च तस्या सुरपुरोपमम्।
प्रविवेश च सम्भ्रान्तो सावमानच मानिनी ॥३४॥
माप्यसम्भाष्यमानच तमन्तर्वासवेश्मनि।
तन्वी व्यषीदत्पर्यङ्के स्त्रीमत्स्योपसखिता ॥३५॥