Skip to content
SarvaKosh
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

Kathasaritsagara Part 1 (Lambaka 1–5)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 171 of 876

Read in context
Page 171

११२ कथासरित्सागर
धीदत्तभूतावृत्त्यो कथा
मालवे यज्ञसोमाख्यो द्विजः कश्चिदभूत्पुरा।
तस्य च द्वौ सुतौ साधोर्जायेते स्म जनप्रियौ ॥६॥
एकस्तयोरभून्नाम्ना कालनेमिरिति श्रुतः।
द्वितीयश्चापि विगतभय इत्याख्यायाऽभवत् ॥७॥
पितरि स्वर्गते तौ च भ्रातरौ जीर्णशेषधनौ।
विद्याप्राप्त्यै प्रयततुः पुरं पाटलिपुत्रकम् ॥८॥
तत्रैवोपार्तविद्याभ्यामुपाध्यायो निजे सुते।
देवशर्मा ददौ ताभ्यां मृते विप्रो द्वयापरः ॥९॥
अथायान्वीक्ष्य तानाढ्यानगृहस्थानीयया धियम्।
होमैः स साधयामास कालनेमिः कृतव्रतः ॥१०॥
सा च तुष्टा सती साक्षाद्देवः श्रीस्तमभाषत।
भूरि प्राप्स्यसि वित्तं च पुत्रं च पृथिवीपतिम् ॥११॥
किञ्चन्ते चौरसदृशो वंशस्तव भविष्यति।
हुतमग्नौ त्वया यस्मादनपक्लृप्तात्मना ॥१२॥
इत्युक्त्वाऽन्तर्दधे लक्ष्मीः कालनेमिरपि क्रमात्।
महाधनोऽभूल्लि... भास्य दिनं पुत्रोऽप्यजायत ॥१३॥
श्रीवरादेव सम्प्राप्त इति नाम्ना तमात्मजम्।
श्रीदत्तमकरोत्सोऽपि पिता पूर्णमनोरथः ॥१४॥
क्रमात्स वृद्धिं सम्प्राप्तः धीदत्तो ब्राह्मणोऽपि सन्।
अस्त्रेषु बाहुयुद्धेषु बभूवाप्रतिमो भुवि ॥१५॥
कालनेमेरथ भ्राता तीर्थार्थी सर्पभक्षिताम्।
भार्यामुद्दिश्य विगतभयो देशान्तरं ययौ ॥१६॥
धीदत्तोऽपि गुणज्ञेन राज्ञा बल्लभशक्तिना।
तत्र विक्रमशक्तौ स स्वपुत्रस्य कृतः सखा ॥१७॥
राजपुत्रेण तत्रास्य सहवासाद्भिमानिनः।
यास्य दुर्योधननेव भीमस्यासीत्तरस्विनः ॥१८॥
द्वावेतस्याथ मित्रत्वं विप्रस्यावन्द्विधद्वजो।
क्षत्रियो बाहुशाली च वयमुच्छ्रित्य जग्मतुः ॥१९॥
बाहुयुद्धजिताश्चान्ये दाक्षिणात्या गुणप्रियाः।
स्वयंवरमुहुस्त्वेन मन्त्रिपुत्रास्तमाश्रयन् ॥२०॥