Skip to content
SarvaKosh
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

Kathasaritsagara Part 1 (Lambaka 1–5)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 123 of 876

Read in context
Page 123

८८ कथासरित्सागर

अयञ्च वर्धितोऽन्यासां सिंहीनां पयसा मया।
अद्य चाहं विमुक्तोऽस्मि शापाद् बाणाहतस्त्वया ॥१०२॥
तद् गृहाण महासत्त्व मया दत्तममुं सुतम्।
अयं ह्यर्थं समादिष्टस्तैरेव मुनिभि पुरा ॥१०३॥
इत्युक्त्वान्तर्हिते तस्मिन्सातनामनि गुह्यके।
स राजा तं समादाय बालं प्रत्याययौ गृहम् ॥१०४॥
सातेन यस्मादूढोऽभूत्तस्मात् सातवाहनम्।
नाम्ना चकार कालेन राज्ये चैनं न्यवेशयत् ॥१०५॥
ततस्तस्मिन्नातदण्ड्ये दीपकणौ क्षितीश्वरे।
संवृत्त सार्वभौमोऽसौ भूपति सातवाहन ॥१०६॥
एवमुक्त्वा कथां मह्यं काणभूत्यनुयोगतः।
गुणाढ्य प्रकृतं धीमाननुस्मृत्याब्रवीत्पुनः ॥१०७॥
सत कदाचिदभ्यागाद् वसन्तसमयोत्सवः।
दर्पीकृत तमुद्यानं स राजा सातवाहनः ॥१०८॥
विहरन् सुचिरं तत्र महेन्द्र इव नन्दने।
वापीजलेऽवतीर्णोऽभूत्क्रीडितुं कामिनीसखः ॥१०९॥
असिञ्चत्तत्र दयिताः सहेलं करवारिभिः।
असिञ्चत स ताभिश्च वशाभिरिव वारणः ॥११०॥
मुक्तधौताञ्जनाताम्रनेत्रजङ्गर्जलाप्लुतैः ।
अङ्गैः सक्ताम्बरव्यक्तविभागैश्च तमाङ्गनाः ॥१११॥
विद्रुतपत्रतिलकाः स चक्र वनमध्यगाः।
च्युताभरणपुष्पास्ताः मत्ता वायुरिव प्रियाः ॥११२॥
अथैका तस्य महिषी राज्ञः स्तनभराल्लसा।
शिरीषसुकुमाराङ्गी क्रीडन्ती क्लममभ्यगात् ॥११३॥
सा जलैरभिषिञ्चन्तं राजानमसहा सती।
अब्रवीन्मोदकैर्देव परिताडय मामिति ॥११४॥
तच्छ्रुत्वा मोदकान् राजा द्रुतमानाययद् बहून्।
ततो विहस्य सा राज्ञी पुनरेवमभाषत ॥११५॥
राजन्नवसरः कोऽत्र मोदकानां जलान्तरे।
उदकैः सिञ्च मा त्वं मामित्युक्तं हि मया तव ॥११६॥