काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 19, कुल 828 में से
संदर्भ में पढ़ें१० ॥ काशिका ॥ १ ॥ १ ॥
तरप्तमपौ घः ॥ २२ ॥
तरप् तमप् इत्येतौ प्रत्ययौ घसंज्ञौ भवतः । कुमारितरा । कुमारितमा ।
ब्राह्मणितरा । ब्राह्मणितमा । घप्रदेशा घद्रूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ह्यो
ऽनेकाचो ह्रस्व इत्येवमादयः ॥
बहुगणवतुडति संख्या ॥ २३ ॥
बहुगणवतुडति इत्येते संख्यासंज्ञा भवन्ति । बहुकृत्वः । बहुधा । बहुकः ।
बहुशः । गणकृत्वः । गणधा । गणकः । गणशः । तावत्कृत्वः । तावद्धा । ताव-
च्छः । कतिकृत्वः । कतिधा । कतिकः । कतिशः । बहुगणशब्दयोर्वेपुल्ये सङ्घे च
वर्तमानयोरिह ग्रहणं नास्ति । संख्यावाचिनोरेव । भूयादीनां निवृत्त्यर्थं संख्या
संज्ञा विधीयते ॥ अर्धपूर्वपदश्च पूरणप्रत्ययान्तः संख्यासंज्ञो भवतीति वक्तव्यं समा-
सकन्विध्यर्थम् ॥ * ॥ अर्धपञ्चमशूर्पः । अर्धः पञ्चमो येषामिति बहुव्रीहौ कृते
ऽर्द्धपञ्चमैः शूर्पैः क्रीतः । तद्धितार्थेति समासः । तत्र दिक्संख्ये संज्ञायामित्यनुवृ-
त्तेस्ततः संख्यापूर्वस्य द्विगुसंज्ञायां शूर्पादण्यतरस्यामित्यत्र ठञ् । अद्ध्यर्द्धपूर्व-
द्विगोरिति लुक् । अर्धपञ्चमकः । संख्याप्रदेशाः । संख्यावंशेनेत्येवमादयः * ॥
ष्णान्ता षट् ॥ २४ ॥
स्त्रीलिङ्गनिर्देशात्संख्येति संबध्यते । षकारान्ता नकारान्ता च या संख्या
सा षट्संज्ञा भवति । षकारान्तास्तावत् । षट् तिष्ठन्ति । षट् पश्य । नका-
रान्ताः । पञ्च । सप्त । नव । दश । अन्तग्रहणमौपदेशिकार्थम् । तेनेह न
भवति । शतानि । सहस्राणि । अष्टानामित्यत्र नुड् भवति । षट्प्रदेशाः षड्भ्यो
लुगित्येवमादयः ॥
डति च ॥ २५ ॥
डत्यन्ता या संख्या सा षट्संज्ञा भवति । कति तिष्ठन्ति । कति पश्य ॥
क्तक्तवतू निष्ठा ॥ २६ ॥
क्तश्च क्तवतुश्च क्तक्तवतू प्रत्ययौ निष्ठासंज्ञौ भवतः । कृतः । कृतवान् ।
भुक्तः । भुक्तवान् । ककारः कित्कार्यार्थः । उकार उगत्कार्यार्थः । निष्ठाप्रदेशाः
श्वीदितो निष्ठायामित्येवमादयः ॥
सर्वादीनि सर्वनामानि ॥ २७ ॥
सर्वशब्द आदिर्येषां तानीमानि सर्वादीनि सर्वनामसंज्ञानि भवन्ति ।
सर्वः । सर्वौ । सर्वे । सर्वस्मै । सर्वस्मात् । सर्वेषाम् । सर्वस्मिन् । सर्वकः ।
- संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुजित्येवमादयः । पा० ।