हर्षचरितम् (महाकवि बाणभट्ट - संकेत एवं जगन्नाथ पाठक सान्वय हिन्दी व्याख्या सटीक)
Harshacharitam of Mahakavi Banabhatta with Sanket and Hindi Commentary
by महाकवि बाणभट्ट
About this granth
Banabhatta's Harshacharita is a high point of Sanskrit prose, with long compounds, double meanings and richly pictorial description, so students usually read it with a commentary. It is also a contemporary source for the Pushyabhuti dynasty of Thanesar and the early life of King Harsha.
This scan is a separate copy of the Chowkhamba Vidya Bhawan edition (Vidyabhawan Sanskrit Granthamala No. 36) with Shankara's Sanketa commentary and the Hindi commentary of Pt. Jagannath Pathak, Sahityacharya. It is from the fourth edition of 1982, which was also sold in parts: chapters 1 to 2, chapters 1 to 4, and the complete text.
The 184 pages here hold the opening chapters. The sections marked in this reader cover the Vatsyayana lineage, Bana's own story and his visit to Harsha's court, the land of Shrikantha and the life of Prabhakaravardhana, the births of Rajyavardhana and Harsha, and events around the campaign against the Hunas. The copy belongs to the Panini Kanya Mahavidyalaya collection, digitised by the Arya Samaj Foundation, Chennai, and eGangotri, and suits students whose syllabus prescribes the early ucchvasas.
लम्बिनः पादद्वयस्य दोलायमानैर्नखमयूखैरश्वमण्डनचामरमालामिव
रचयन्तम्, अभिमुखमुच्चैरुद्ध्वद्भिरतिचिरमुपरिविश्राम्यद्भिरिव
वलितविकटं पतद्भिः खुरैः खण्डितभुवि प्रतिक्षणदशनविमुक्तखण-
खणायितखरखलीने दीर्घघ्राणलीनलालिके ललाटलुलितचारुचामीकर-
चक्रमे शिञ्जानशातकौम्भायानशोभिनि मनोरंहसि गोलाङ्गूलकपोलकाल-
कायलोम्नि नीलसिन्धुवारवर्णे वाजिनि महति समारूढम्, उभयतः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in४२ हर्षचरितम्
प्रायमिव जीवलोकं जनयन्तम्, अनुरागमयमिव सर्गान्तरमारभ-
यन्तम्, शृङ्गारमयमिव दिवसमापादयन्तम्, रागराज्यमिव प्रवर्त-
यन्तम्, आकर्षणाञ्जनमिव चक्षुषोः, वशीकरणमन्त्रमिव मनसः,
स्वस्थावेशचूर्णमिवेन्द्रियाणाम्, असंतोषमिव कौतुकस्य, सिद्धयोग-
मिव सौभाग्यस्य, पुनर्जन्मदिवसमिव मन्मथस्य, रसायनमिव यौव-
'नस्य, एकाराज्यमिव रामणीयकस्य, कीर्तिस्तम्भमिव रूपस्य, मूल-
कोशमिव
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in[Header]
प्रथम उच्छ्वासः । ४३
पार्श्वे च तस्य द्वितीयमपरसंश्लिष्टतुरङ्गम्, प्रांशुमुत्तप्ततपनीयस्तम्भा-
कारम्, परिणतवयसमपि व्यायामकठिनकायम्, नीचनखश्मश्रुकेशम्,
शुक्तिखलतिम्, ईषत्तुन्दिलम्, रोमशोरःस्थलम्, अनुल्बणोदारवेषतया
जरामपि विनयमिव शिक्षयन्तम्, गुणानपि गरिमाणमिवानयन्तम्,
महानुभावतामपि शिष्यतामिवानयन्तम्, आचारस्याप्याचार्यमिव
कुर्वाणम्, वलक्षवारबाणधारिणम्, धौतदुकूलपट्टिकापरिवेष्टित-
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inDigitized by Arya Samaj Foundation Chennai and eGangotri
४४ हर्षचरितम्
च तुरगादवततार। निवारितपरिजनश्च तेन द्वितीयेन साधुना सह
चरणाभ्यामेव सविनयमुपससर्प । कृतोपसंग्रहणौ तौ सावित्री
समं सरस्वत्या किसलयासनदानादिना सकुसुमफलार्घ्यावसानेन
वनवासोचितेनातिथ्येन यथाक्रममुपजग्राह । आसीनयाश्च तयोरासीन
नातिचिरमिव स्थित्वा तं द्वितीयं प्रवयसमुद्दिश्यावादीत्—'आर्य,
सहजलज्जाधनस्य प्रमदाजनस्य प्रथमाभिभाषणमशालीनता, विशेषतो
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inDigitized by Arya Samaj Foundation Chennai and eGangotri ४५
प्रथम उच्छ्वासः
शयाः । यतस्त्रिभुवनाभिभावि रूपमिदमस्य महानुभावस्य । सौजन्य-
परतन्त्रा चेयं देवानांप्रियस्यातिभद्रता कारयति कथां न तु युवति-
जनसहोत्था तरलता । वत्कथयागमनेनापुण्यभाक्कतम्रो विजृम्भित-
विरहव्यथः शून्यतां नीतो देशः ? क्व वा गन्तव्यम् ? को वायमपहृतहर-
हुंकाराहंकारोऽपर इवानन्यजो युवा ? किंनाम्नो वा समृद्धतपसः पितुर-
यममृतवर्षी कौस्तुभमणिरिव हतेर्हृदयमाह्लादयति ? का
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in४६ ॥हर्षचरितम्॥
प्रतिव्याजहार—'आयुष्मति, सतां हि प्रियंवदता कुलविद्या । न केवल-
माननं हृदयमपि च ते चन्द्रमयमिव सुधाशीकरशीतलैराह्लादयति
वचोभिः । सौजन्यजन्मभूमयो भूयसा शुभेन सज्जननिर्माणशिल्पकला
इव भावदृशो दृश्यन्ते । दूरे तावदन्योन्यस्याभिलपनमभिजातः सह
दृशोऽपि मिश्रीभूता महतीं भूमिमारोपयन्ति । श्रूयताम्—अयं खलु
भूषणं भार्गववंशस्य भगवतो भूर्भुवःस्वस्त्रितयतिलकस्य, अदभ्रप्रभाव-
स्तम्भितजम्भारिभुजस्तम्भस्य, सुरासुरमुकुटमणिशिलाशयनदुर्ल-
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inपत्युः पार्श्वात्स्वगृहमानाययत् । असूत च सा तत्र देवी दीर्घायुष-
मेनम् । अवर्धतानेहसा च तत्रैवायमानन्दितज्ञातिवर्गो बालस्तारक-
राज इव राजीवलोचनो राजगृहे । भर्तृभवनमागच्छन्त्यामपि दुहि-
तरि नासेचनकदर्शनमिममुञ्चन्मातामहो मनोविनोदनं नप्तारम् ।
अशिक्षतायं तत्रैव, सर्पा विद्याः सकलाश्च कलाः । कालेन चोपारूढ-
यौवनमिममालोक्याहमिवासावप्यनुभवतु मुखकमलावलोकनानन्द-
मस्येति मातामहः कथंकथमप्येनं पितुरन्तिकमधुना व्यसर्जयत् ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inपारेशोणं तस्य भगवतश्च्यवनस्य स्वनाम्ना निर्मितव्यपदेशं च्यावनं
नाम चैत्ररथकल्पं काननं निवासः । तदवधिरेवेयं नौ यात्रा । यदि
च वो गृहीतक्षणं दाक्षिण्यमनवहेलं वा हृदयमस्माकमुपरि भूमिर्वा
प्रसादानामयं जनः श्रवणार्हो वा, ततो न विमाननीयोऽयं नः प्रथमः
प्रणयः कुतूहलस्य । वयमपि शुश्रूषवो वृत्तान्तमायुष्मत्योः । नेयमा-
कृतिर्दिव्यतां व्यभिचरति । गोत्रनामनी तु श्रोतुमभिलषति नौ हृद-
यम् । तत्कथय कतमो वंशः स्पृहणीयतां
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inकरभोरुर्विलम्बितगमना च, अमुक्तकुमारभावा स्निग्धतारका च' इति ।
सा त्वावादीत्—'आर्य, श्रोष्यसि कालेन । भूयसो दिवसानत्र
स्थातुमभिलषति नौ हृदयम् । अल्पीयांश्चायमध्वा । परिचय एव
प्रकटीकरिष्यति । आर्येण न विस्मरणीयोऽयमनुषङ्गदृष्टो जनः' इत्य-
भिधाय तूष्णीमभूत् । दधीचस्तु नवाम्भोभरगभीराम्भोधरध्वाननिभया
भारत्या नर्तयन्वनलताभवनभाजो भुजंगभुजः सुधीरमुवाच—'आर्य,
कनिष्ठं करस्य करभो बहिः' करभश्चोष्ट्रः ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inकरिष्यति प्रसादमार्णाराध्यमाना । पश्यामस्तावत्तातम् । उत्तिष्ठ
व्रजामः' इति । तथेति च तेनाभ्यनुज्ञातः शनकैरूथाय कृतनमस्कृति-
रुच्चचाल । तुरगारूढं च तं प्रयान्तं सरस्वती सुचिरमुत्तम्भितपक्ष्मणा
निश्चलतारकेण लिखितेनेव चक्षुषा व्यलोकयत् । उत्तीर्य च शोणञ्च
चिरेणैव कालेन दधीचः पितुराश्रमपदं जगाम । गत च तस्मिन्स
तामेव दिशमालोकयन्ती सुचिरमतिष्ठत् । कृच्छ्रादिव च संजहार
दृशम् ।
अथ
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inत्विषि कमलिनीकामुके कठोरसारसशिरःशोणशोचिषि सावित्रे
त्रयीमये तेजसि, तरुणतरतमालश्या मले च मलिनयति व्योम व्योम-
व्यापिनि तिमिरसंचये, संचरत्सिद्धसुन्दरीनूपुररवानुसारिणि च
मन्दं मन्दं मन्दाकिनीहंस इव समुत्सर्पति शशिनि गगनतलम् कृत-
संध्याप्रणामा निशामुख एव निपत्य विमुक्ताङ्गी पल्लवशयने तस्थौ ।
सावित्र्यपि कृत्वा यथाक्रियमाणं सायंतनं क्रियाकलापमुचिते शयन-
काले किसलयशयनमभजत जातनिद्रा च सुष्याप ।
इतरा तु
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in५२ हर्षचरितम्
लोकानामुपरि, यस्मिन्नेवंविधानि भवन्ति त्रिभुवनभूषणानि सकलगुण-
ग्रामगुरूणि रत्नानि । तथा हि—तस्य मुखलावण्यप्रवाहस्य निष्यन्द-
बिन्दुरिन्दुः । तस्य च चक्षुषो विक्षेपाः कुमुदकुवलयकमलाकाराः ।
तस्य चाधरमणेर्दीधितयो विकसितबन्धूकवनराजयः । तस्य चाङ्गरूप-
परभागोपकरणमनङ्गः । पुण्यभाञ्जि तानि चक्षूंषि चेतांसि यौवनानि
वा स्त्रैणानि, येषामसावविषयो दर्शनस्य । क्षणं नु दर्शयता
तमन्यजन्मानितेनेव मे फलितमधर्मेण ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inमदनशराहतायाश्च तस्या वार्तामिवोपलब्धुमरतिराजगाम । तथा
हि—ततः प्रभृति कुसुमधूलिधवलाभिर्वनलताभिस्ताडितापि वेदना-
मधत्त । मन्दमन्दमारुतविधुतः कुसुमरजोभिरदूषितलोचनाप्यश्रुजलं
मुमोच । हंसपक्षतालवृन्तवातव्रातविततैः शोणशीकरैरसिक्ताप्यार्द्र-
तामगात् । प्रेङ्खत्कादम्बमिथुनाभिरनूढाप्यघूर्णत वनकमलिनीकल्लोल-
दोलाभिः । विघटमानचक्रवाकयुगलविसृष्टैरस्पृष्टापि श्यामतामाससाद विरह-
निःश्वासधूमैः । पुष्पधूलिधूसरैरदष्टापि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in५४ | हर्षचरितम्
तथैव निवारितपरिजनश्छत्रधारिद्वितीयो विकुक्षिर्दुढौके । सरस्वती तु
तं दूरादेव संमुखमागच्छन्तं प्रीत्या ससंभ्रममुत्थाय वनमृगीवोद-
ग्रीवा विलोकयन्ती मार्गपरिश्रान्तमस्नपयदिव धवलितदशदिशा
दृशा । कृतासनपरिग्रहं तु तं प्रीत्या सावित्री पप्रच्छ—'आर्य, कच्चित्
कुशली कुमारः ?' इति । सोऽब्रवीत्—'आयुष्मति, कुशली । स्मरति
च भवत्योः । केवलममीषु दिवसेषु तनीयसीमिव तनुं बिभर्ति । अविज्ञात-
माननिमित्तां च शून्यतामिवाधत्ते ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inलतासु मानसमस्मासु मुहूर्तमासक्तमासीत् । अशून्यं हि सौजन्यमभि-
जात्येन वः स्वामिसूनोः । अलसः खलु लोको यदेवं सुलभसौहृदानि
येन केनचिन्न क्रीणाति महतां मनांसि । सोऽयमौदार्यातिशयः कोऽपि
महात्मनामितरजनदुर्लभो येनोपकरणीकुर्वन्ति त्रिभुवनम्' इति । विकु-
क्षिस्तूच्चावचैरालापैः सुचिरमिव स्थित्वा यथाभिलषितं देशमयासीत् ।
अपरेद्युरुद्यति भगवति द्युमणावुद्यन्मद्युतावभिद्रुततारके तिरस्कृत-
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inमाननूपुरपट्टरणितस्यातिबहलेन पिण्डालक्तकेन पल्लवितस्य कुङ्कुमपि-
ञ्जरितपृष्ठस्य चरणयुगलस्य प्रसरद्भिरतिलोहितैः प्रभाप्रवाहैरुभयतस्ता-
डनदोहदलोभागतानि किसलयितानि रक्ताशोकवनानीवाकर्षयन्ती,
सकलजीवनलोकहृदयहठहरणाघोषणयेव रशनया शिञ्जानजघनस्थला,
धौतधवलनेत्रनिर्मितेन निर्मोकलघुतरेणाप्रपदीनेन कञ्चुकेन तिरोहित-
तनुलता, छातकञ्चुकान्तरदृश्यमानैराश्यानचन्दनधवलैरवयवैः स्वच्छ-
सलिलाभ्यन्तरविभाव्यमानमृणालकाण्डेव सरसी,
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inप्रथम उच्छ्वासः ५७
रत्नप्रालम्बमालिकामरुणहरितकिरणकिसलयिनीं कस्यापि पुण्यवतो
हृदयप्रवेशनवनमालिकामिव बद्धां धारयन्ती, प्रकोष्ठनिविष्टस्यैकस्य
हाटककटकस्य मरकतमकरवेदिकासनाथस्य हरितीकृतदिगन्ताभिर्मं-
यूखसंततिभिः स्थलकमलिनीभिरिव लक्ष्मीशङ्कयानुगम्यमाना, अति-
बहलताम्बूलकृष्णिकान्धकारितेनाधरसंपुटेन मुखशशिपीतं ससंध्यारागं
तिमिरमिव वमन्ती, विकचनयनकुवलयकुतूहलालीनयालिकुलसंहत्या
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in५८ Digitized by Arya Samaj Foundation, Chennai and eGangotri / हर्षचरितम्
निष्पन्दिना तिलकबन्दुना मुद्रितमिव मनोभवसर्वस्वं वदनमुद्वहन्ती,
ललाटलासकस्य सीमन्तचुम्बिनश्चटुलातिलकमणेरुद्वमता चटुलेनांशु-
जालेनेव रक्तांशुकेनेव कृतशिरावगुण्ठना, पृष्ठप्रेङ्खदनादरसंयमन-
शिथिलजूटिकाबन्धा नीलचामरावकूलिनीव, चूडामणिमकरिका-
सनाथा मकरकेतुपताकेव कुलदेवतेव चन्द्रमसः, पुनःसञ्जीवनौषधिरिव
पुष्पधनुषः, वेलेव रागसागरस्य, ज्योत्स्नेव यौवनचन्द्रोदयस्य, महा-
नदीव रतिसामृतस्य, कुसुमोद्गतिरिव सुरततरोः, बालविद्येव
वैदग्ध्यस्य, कौमुदीव कान्तेः, धृतिरिव धैर्यस्य, गुरुशालेव गौरवस्य,
बीजभूमिरिव विनयस्य, गोष्ठीव गुणानाम्, मनस्वितेव महानुभाव-
कस्तूरिका । तिलकबन्दुः परिवर्तुलस्तिलकः । लासको नर्तकः । 'सुवर्णशृङ्खला-
बद्धो नानारत्नोघमण्डितः । ललाटलम्ब्यलङ्कारश्चटुलातिलको मतः ॥' अवचूलं
चिह्नम् । मकारिका मकाराकारं रूपम् । वेला यथा सागरं क्षोभयति तद्वदेवेयं
रागम् । क्षोभेन यथा सागरो दुरुत्तर एवमेतयापि रागः । यथा ज्योत्स्नया विना
चन्द्रोदयो भवन्नपि क्वापि विलसन्विभाव्यते तथैतया विना यौवनं सविलासमप्यन्यत्र
न दृश्यते । रतिप्रधानो रसः शृङ्गार एव । माधुर्यातिशययोगित्वात्प्रकृष्टत्वाच्च ।
ह्लादनममृतम् । यदुक्तम्-'शृङ्गार एव परमः परः प्रह्लादनो रसः' इति । संप्रयोगो
रतं रहःशयनं मोहनमिति पर्यायाः । बालविद्या न कश्चन मुञ्चति, तद्वदेव वैद-
ग्ध्यम् । कौमुदीति । तथाविधकान्त्यतिशयसम्भवात् । ध्रियते तेन धृतिः । अस्यां
सत्यां धैर्यमपि यद्वा-धृतिः प्रवेशरक्षणम् । यथा प्रविशन्कश्चिद्राजनिकटं ध्रियते
केनचित्तथा धैर्यं तावत्प्रसरति । यावदेषा न दृष्टा एतस्यां दृष्टायां सर्वे धैर्यशून्या
कस्तूरी की गन्ध फैलाने वाला तिलक बिन्दु कामदेव के सर्वस्व उसके मुख पर मुँहर की
भांति लगा था । चटुला-तिलक नाम की मणि सीमन्त से ललाट पर झूल रही थी, उससे
निकलते हुए चंचल किरण-जाल से ऐसा लगता था मानों उसे लाल वस्त्र का सिर का
अवगुण्ठन बना लिया हो । उसके बालों का जूड़ा पीठ पर ठीक से न बाँधने के कारण
ढीला होकर लटक रहा था मानों नील चामर लटक रहा हो । चूडामणि मकरिका पहनने
मानों मकरकेतु (कामदेव) की पताका हो । चन्द्रमा की कुलदेवता हो, काम को फिर से
जीवित कर देने वाली संजीवन बूटी हो, प्रेम की समुद्र की तटी हो, यौवनरूपी चन्द्रोदय
की चाँदनी हो, रति रस के अमृत की महानदी हो, सुरत वृक्ष की पुष्पोद्गति हो, वैदग्ध्य
की बाल विद्या हो, कान्ति की कौमुदी हो, धैर्य की धृति हो, गौरव की गुरुशाला हो,
विनय की बीजभूमि हो, गुणों की गोष्ठी हो, महानुभावता की मनस्विता हो, और जवानी की
तायाः, तृप्तिरिव तारुण्यस्य, कुवलयदलापदीर्घलोचनया पाटला-
धरया कुन्दकुङ्मलस्फुटदशनया शिरीषमालासुकुमारभुजयुगलया
कमलकोमलकरया बकुलसुरभिनिःश्वसितया चम्पकावदातदेहया
कुसुममय्येव ताम्बूलकरण्डवाहिन्या महाप्रमाणाश्वतरावूढयानुगम्य-
माना, कतिपयपरिचारकपरिकरा मालती समदृश्यत । दूरादेव च
दधीचप्रेम्णा सरस्वत्या लुष्ठितेव मनोरथैः, आकृष्टेव कुतूहलेन,
प्रत्युद्गतेवोत्कलिकाभिः, आलिङ्गितेवोत्कण्ठया, अन्तःप्रवेशितेव हृद-
येन, स्नपितेवानन्दाश्रुभिः, विलिप्तेव स्मितेन, वीजितेवोच्छ्वसितैः,
आच्छादितेव चक्षुषा, अभ्यर्थितेव वदनपुण्डरीकेण, सखीकृतेवाशया
इति । 'समानविद्यावित्तशील बुद्धिवयसामनुरूपैरालापैरेकत्रासनबन्धो गोष्ठीमन-
स्विना' इत्यनेनैतस्या महानुभावताया व्यभिचारित्वमुच्यते । यस्माच्चत्र मनस्विता
तत्र महाशयत्वमेवावश्यं सम्भावयतीति स्थितमेव । तृप्तिरिवेति । यथा कश्चित्संजात-
तृप्तिर्नान्यत्किचित्पुनरपेक्षते तद्वदासादितमालतीकं तारुण्यम् । एतदाश्रयणेन परि-
पूर्णवैषयिकोपभोगत्राप्तिस्तारुण्यस्येत्यर्थः । कुसुममय्येवेति । कुवलयादिभिर्नयनादीनां
विधानम् । तरुणोऽश्वोऽश्वतराः । 'वत्सोक्षाश्ववर्षभेभ्यश्च तनुत्वम्' इति तनुत्वे तरप् ।
तत्र च व्याख्यातम् - 'तनुत्वं द्वितीयवयः प्राप्तिः' इति । अश्वतरो वा गर्दभेनाश्वायां
जातः । मालतीति । एवं दधीचपरिवारभूतया मालत्या गुणवर्णनद्वारेण सरस्वत्या
एव निःसामान्यगुणातिशययो ध्वन्यते । लुष्ठितेवेति । वक्ष्यमाणं प्रार्थनादि ।
तया मनोरथैरुत्प्रेक्ष्य स्वीकृतमित्यतस्तैर्लुष्ठितेवेत्युक्तम् । लुण्ठनं च पाथेयाभि-
वितरणमेवमन्यत् । उत्कलिका रहुरुहिका । सविधं समीपम् । अपि च
तृप्ति हो । उसके पीछे एक बड़े अश्व पर बैठी हुई ताम्बूलकरंकवाहिना आ रही थी
जिसके अंग-अंग मानों फूल से बने थे, क्योंकि कुवलय की माला-सा बड़ी-बड़ी आँखें,
पाटल पुष्प-सा अधर, कुन्द की कलियों जैसे दांत, शिरीषमाला जैसी सुकुमार दोनों भुजाएँ,
कमल जैसे हाथ, मौलसिरी की गन्ध जैसी सरस और चम्पा के समान दमकती देह थी ।
उसके साथ कुछ परिचारक थे। सरस्वता ने दधीच के प्रेम से मालती को दूर से ही मानों
मनोरथ द्वारा लूट लिया, कुतूहल से खींच लिया, मन की तरंगों से अगवानी की,
उत्कण्ठा से आलिङ्गन किया, हृदय के भीतर रख लिया, आनन्द के आंसू से नहला दिया,
स्मित के चन्दन से चर्चित किया, उच्छ्वासितों द्वारा पंखे झलने लगी, आँखों से ढँक दिया,
मुख के कमल से पूजा की और आशा से उसे अपनो सखी बना लिया। तब मालती आई
सविधमुपययौ । अवतीर्य १च दूरादेवानतेन मूर्ध्ना प्रणाममकरोत् ।
आलिङ्गिता च ताभ्यां सविनयमुपाविशत् । सप्रश्रयं ताभ्यां संभाशिता
च पुण्यभाजनमात्मानममन्यत । अकथयच्च दधीचसंदिष्टं शिरसि
निहितेनाञ्जलिना नमस्कारम् । अगृह्णाच्चाकरतः प्रभृत्यग्राम्यतया
तैस्तैरतिपेशलैरालापैः सावित्रीसरस्वत्योर्मनांसि ।
क्रमेण चातीते मध्यंदिनसमये शोणमवतीर्णायां सावित्र्यां स्नातुमु-
त्सारितपरिजना साकूतेव मालती कुसुमस्त्रस्तशायिनीं समुपसृत्य
सरस्वतीमाबभाषे—'देवि, विज्ञाप्यं नः किञ्चिदस्ति रहसि । यतो
मुहूर्तंमवधानदानेन प्रसादं क्रियमाणमिच्छामि' इति । सरस्वती तु
दधीचसंदेशाशङ्किनी किं वक्ष्यतीति स्तननिहितवामकरनखरकिरण-
दन्तुरितमुद्भिद्यमानकुतूहलाङ्कुरनिकरमिव हृदयमुत्तरीयकूलवल्कलेक-
देशेन संछादयन्ती, गलतावतंसपल्लवेन श्रोतुं श्रवणेनेव कुतूहलाद्वाव-
यः स्निग्धो दूरात्सविधमायाति, तस्य लुण्ठनादिसर्वमर्चनावसानं क्रियत इति
ध्वनिः । पेशलैर्हृद्यैः ।
आकूतर्माभिप्रायः । रहस्येकान्ते सरस्वत्यादौ । सरस्वती कुसुमशयनीयाहु-
और उतर कर दूर ही से झुके सिर प्रणाम किया और दोनों से आलिङ्गित हो विनयपूर्वक
बैठी । दोनों ने उससे विनयपूर्वक सम्भाषण किया तो उसने अपने आप को धन्यवाद
समझा । मालती ने दधीच के द्वारा सन्दिष्ट सिर पर अञ्जलि टेक कर नमस्कार निवेदन
किया । सावित्री और सरस्वती के मन को उसने अपने अग्राम्य आकार और अतिमधुर
बात-चीत से हर लिया ।
धीरे धीरे दोपहर बीत गई । तब सावित्री उधर शोण में स्नान करने उतरी ।
इधर अभिप्राय-युक्त-सी मालती परिजनों को वहां से अलग करके फूल के विस्तर पर लेटी
हुई है, सरस्वती के पास आकर बोली—'देवि, एकान्त में कुछ मुझे आपको सूचित करना
है, इसलिए चाहती हूँ कि क्षणभर आप ध्यान देने का प्रसाद करें। दधीच के सन्देश की
आशंका से 'न मालूम क्या ब.हेगी' सरस्वती यह सोचने लगी । छाती पर रखे हुए उसके
बायें हाथ के नख की किरणें ऐसी लग रही थीं मानों कुतूहल का अंकुर हृदय से निकल
रहा हो । वह ऐसे हृदय को दुकूल बल्कल के अँवरे के खूंट से ढँक रही थी। कान में
१- तुरगाद् दूरादेवानतेन ।