हर्षचरितम् (महाकवि बाणभट्ट - संकेत एवं जगन्नाथ पाठक सान्वय हिन्दी व्याख्या सटीक)
Harshacharitam of Mahakavi Banabhatta with Sanket and Hindi Commentary
by महाकवि बाणभट्ट
About this granth
Banabhatta's Harshacharita is a high point of Sanskrit prose, with long compounds, double meanings and richly pictorial description, so students usually read it with a commentary. It is also a contemporary source for the Pushyabhuti dynasty of Thanesar and the early life of King Harsha.
This scan is a separate copy of the Chowkhamba Vidya Bhawan edition (Vidyabhawan Sanskrit Granthamala No. 36) with Shankara's Sanketa commentary and the Hindi commentary of Pt. Jagannath Pathak, Sahityacharya. It is from the fourth edition of 1982, which was also sold in parts: chapters 1 to 2, chapters 1 to 4, and the complete text.
The 184 pages here hold the opening chapters. The sections marked in this reader cover the Vatsyayana lineage, Bana's own story and his visit to Harsha's court, the land of Shrikantha and the life of Prabhakaravardhana, the births of Rajyavardhana and Harsha, and events around the campaign against the Hunas. The copy belongs to the Panini Kanya Mahavidyalaya collection, digitised by the Arya Samaj Foundation, Chennai, and eGangotri, and suits students whose syllabus prescribes the early ucchvasas.
८ हर्षचरितम्
१अविनाशिनमग्राम्यमकरोत्सातवाहनः ।
विशुद्धजातिभिः कोशं रत्नैरिब सुभाषितैः ॥ १३ ॥
कीर्तिः प्रवरसेनस्य प्रयाता कुमुदोज्ज्वला ।
सागरस्य परं पारं कपिसेनेव सेतुना ॥ १४ ॥
सूत्रधारकृतारम्भैर्नाटकैर्बहुभूमिकैः ।
सपताकैर्यशो लेभे ३भासो देवकुलैरिव ॥ १५ ॥
४निर्गतासु न वा कस्य कालिदासस्य सूक्तिषु ।
अविनाशिनमित्यादि । अविनाशिनं प्रसिद्धम्, अनश्वरं । च अग्राम्यं वैदग्ध्य-
युक्तम्,
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inप्रथम उच्छ्वासः ९
प्रीतिर्मधुरसान्द्रासु मञ्जरीष्विव जायते ॥ १६ ॥
समुद्दीपितकन्दर्पा कृतगौरीप्रसाधना ।
हरलीलेव नो कस्य विस्मयाय बृहत्कथा ॥ १७ ॥
गीतध्वनिवत्किमपि श्रोत्रहारिणः । यदुक्तम्—'अपर्यालोचितेऽप्यर्थे बन्धसौन्दर्य-
संपदा । गीतवद्धृदयाह्लादं तद्विदां विदधाति यत् ॥ तत्काव्यम्' इत्यादि । तथा
निर्गताः सर्वदेशप्रतीताः, अन्यत्र—निर्गता अभिनवोद्भिन्नाः न वा
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१० | हर्षचरितम्
'आढ्यराजकृतोत्साहैर्हृदयस्थैः स्मृतैरपि ।
जिह्वान्तःकृष्यमाणेव न कवित्वे प्रवर्तते ॥ १८ ॥
तथापि नृपतेर्भक्त्या भीतो निर्वहणाकुलः ।
करोम्याख्यायिकाम्भोदौ जिह्वाप्लवनचापलम् ॥ १९ ॥
सुखप्रबोधललिता सुवर्णघटनोज्ज्वलैः ।
शब्दैराख्यायिका भाति शय्येव प्रतिपादकैः ॥ २० ॥
आढ्येति । आढ्यराजः कश्चित्कविः । उत्साहो नृत्ते तालविशेषः । उदीर्यमाणऽ-
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inजयति¹ ज्वलत्प्रतापज्वलनप्राकारकृतजगद्रक्षः² ।
सकलप्रणयिमनोरथसिद्धिश्रीपर्वतो हर्षः ॥ २१ ॥
वत्काव्यमविद्याव्याधिभेषजम् । आह्लाद्यमृतवत्काव्यमविवेकगदापहम् ॥' इति ।
सुवर्णघटना शोभनाक्षररचना । प्रतिपादकैर्विवक्षिताभिधायकैः । शय्यापक्षे-सुखं यः
प्रबोधः स्वापादुरुत्थानम् । सुवर्णघटना हेमयोजना । प्रतिपादकैः खट्वाया उत्थापकैः ।
तदा पादानां प्रतिच्छन्दाः प्रतिपादकाः पुरुषयत्नोत्थापिताः पादमुद्रास्तैः । अत्र च
शोभनो
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१२ हर्षचरितम्
एवमनुश्रूयते—पुरा किल भगवान्स्वलोकमधितिष्ठन्परमेष्ठी विका-
सिनि पद्मविष्टरे समुपविष्टः ^१सुनासीरप्रमुखैर्गीर्वाणैः^२ परिवृतो
^३ब्रह्मोद्याः कथाः कुर्वन्नन्याश्च निरवद्या विद्यागोष्ठीर्भावयन्कदाचिदा-
साञ्चक्रे। तथासीनं च तं त्रिभुवनप्रतीक्ष्यं मनुदक्षचाक्षुषप्रभृतयः
प्रजापतयः सर्वे च सप्तर्षिपुरःसरा ^४महर्षयः सिषेविरे। केचिदृचः
स्तुतिचतुराः समुदचारयन्। ^५केचिदपचितिभाञ्जि यजूंष्यपठन्।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inDigitized by Arya Samaj Dayanand Ashram Chennai and eGangotri १३
न्मन्त्रान्व्याचचक्षिरे । विद्याविसंवादकृताश्च तत्र तेषामन्योन्यस्य १विवादाः
प्रादुरभवन् ।
अथातिरोषणः प्रकृत्या महातपा मुनिरत्रेस्तनयस्तारापतेर्भ्राता
नाम्ना दुर्वासा द्वितीयेन मन्दपालनाम्ना मुनिना सह कलहायमानः
२सामगायन्क्रोधान्धो विस्वरमकरोत् । सर्वेषु च तेषु ३शापभयप्रति-
पन्नमौनेषु मुनिष्वन्यालापलीलया चावधीरयति४ कमलसम्भवे,
भगवती
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१४ हर्षचरितम्
वर्तमाना, गृहीतचामरप्रचलद्भुजलता पितामहमुपवीजयन्ती,
निर्भर्त्सनताडनजातरागाभ्यामिव १स्वभावारुणाभ्यां पादपल्लवाभ्यां
समुद्भासमाना, शिष्यद्वयेनेव पदक्रममुखरेण नूपुरयुगलेन वाचालित-
चरणयुगला, धर्मनगरतोरणस्तम्भविभ्रमं बिभ्राणा जङ्घाद्वितयम्२,
सलीलमुत्कलहंस३कुलकलालापप्रलापिनि मेखलादाम्नि४ विन्यस्त-
वामहस्तकिसलया, विद्वन्मानसनिवासलग्नेन गुणकलापेनेवांसाव५-
लम्बिना ६ब्रह्मसूत्रेण पवित्रीकृतकाया,
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inरसेनेव पाटलेन१ स्फुरता दशनच्छदेन विराजमाना, संक्रान्तकमला-
सनकृष्णाजिनप्रतिमां २मधुरगीताकर्णनावतीर्णशशिहरिणामिव कपोल-
स्थलीं दधाना, तिर्यक्सौवज्ञनुन्नमितैकभ्रूलता, श्रोत्रमेकं विस्वरश्रवण-
कलुषितं प्रक्षालयन्तीवा४पाङ्गनिर्गतेन लोचनाश्रुजलप्रवाहेणेतरश्रवणेन
च विकसितसितसिन्धु५वारमञ्जरीजुषा हसतेव प्रकटितविद्यामदा,
श्रुतिप्रणयिभिः प्रणवैरिव कर्णवतंस६कुसुममधुकरकुलैरूपास्यमाना,
सूक्ष्मविमलेन प्रज्ञाप्रतानेनेवांशुकैनाच्छादितशरीरा,७ वाङ्मयमिव
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१६ हर्षचरितम्
निर्मलं दिक्षु दशनज्योत्स्नालोकं विकिरन्ती १ देवी सरस्वती श्रुत्वा
जहास ।
दृष्ट्वा तु तां तथा हसन्तीं स मुनिः 'आः पापकारिणि, दुर्गृहीत-
विद्यालवावलेपदुर्विदग्धे, मामुपहससि' इत्युक्त्वा शिरःकम्पशीर्य-
माणबन्धविशरारोरुन्मिषत्पिङ्गलिम्नो जटाकलापस्य २ रोचिषा ३ सिञ्च-
न्निव रोषदहनद्रवेण दश दिशः, कृतकालसन्निधानामित्रांन्धकारित-
४
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inDigitized by Arya Samaj Foundation Chennai and eGangotri
प्रथम उच्छ्वासः १७
निर्दयदष्टदशनच्छदभयपलायमानामिव वाचं रुन्धन्दन्तांशुच्छलेन, ¹अंसा-
वस्रंसिनः शापशासनपट्टस्येव ग्रथ्नन्ग्रन्थिमन्यथा कृष्णाजिनस्य, ²स्वेद-
कणप्रतिबिम्बितैः ³शापशङ्काशरणागतैरिव सुरासुरमुनिभिः प्रतिपन्न-
सर्वावयवः, कोपकम्पतरलिताङ्गुलिना करेण ⁴प्रसादनलग्नामक्षरमा-
लामिवाक्षमालामाक्षिप्य कामण्डलवेन वारिणा ⁵समुपस्पृश्याचम्य शापजलं
जग्राह ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१८ हर्षचरितम्
पटलपाण्डुरं कल्पद्रुमदुकूलवल्कलं १ वसाना, २बिसतन्तुमयेनांशुके-
नोन्नतस्तनमध्यबद्धगात्रिकाग्रन्थिः, ३तपोबलनिर्जितत्रिभुवनजयपताका-
भिरिव तिसृभिर्भस्मपुण्ड्रकराजिभिर्विराजितललाटाजिरा, स्कन्धावल-
म्बिना ४सुधाफेनधवलेन तपःप्रभावकुण्डलीकृतेन गङ्गास्रोतसेव ५ योग-
पट्टकेन विरचितवैकक्ष्यका, ६ सव्येन ब्रह्मोत्पत्तिपुण्डरीकमुकुलमिव
७स्फटिककमण्डलुं करेण कलयन्ती, दक्षिणमक्षमालाकृतपरिक्षेपं
कम्बुनिर्मितोर्मिकादन्तुरितं ८
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२. उच्छ्वास ३-४: श्रीकण्ठ जनपद-वर्णन, प्रभाकरवर्धन चरित एवं राज्यवर्धन-हर्ष जन्म
Digitized by Arya San... प्रथम उच्छ्वासः Chennai and eGangotri १९
'मनुजवृन्दवन्दनीयां त्रिभुवनमातरं भगवतीं सरस्वतीं शप्तुमभिलषसि'
इत्यभिदधाना, रोषविमुक्तवेत्रासनैरोङ्कारमुखरित२मुखैरुत्क्षेप३दोलायमान-
जटाभारभरितदिग्भिः४ परिकरबन्धभ्रमित५कृष्णाजिनाटोपच्छायाश्यामाय-
मानदिवसैरमर्षनिःश्वासदोलाप्रेङ्खोलितब्रह्मलोकैः सोमरसमिव स्वेदविसर-
व्याजेन स्रवद्भीरग्निहोत्रपवित्रभस्मस्मेरललाटैः ६कुशतन्तुचामरचीरचीव-
रिभिराषाढिभिः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inविबुधैः, ‘उपाध्याय ! स्खलितमेकं क्षमस्व’ इति बद्धाञ्जलिपुटैः प्रसाद्य-
मानोऽपि स्वशिष्यैः, ‘पुत्र, मा कृथास्तपसः प्रत्यूहम्’ इति निवार्यमा-
णोऽप्यत्रिणा, रोषावेशविवशो दुर्वासाः ‘दुर्विनीते ! व्यपनयामि ते विद्या-
जनितामुन्नतिमिमाम्, अधस्ताद्गच्छ मर्त्यलोकम्’ इत्युक्त्वा तच्छा-
पोदकं विससर्ज ।¹ प्रतिशापदानोद्यतां सावित्रीम् ‘सखि, संहर रोषम्²,
असंस्कृतमतयोऽपि जात्यैव द्विजन्मानो
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inप्रथम उच्छ्वासः २१
णेव दक्षिणेन करेण निवार्य शापकलकलम्, अतिविमलदीर्घर्भाविष्कृत-
युगारम्भसूत्रपातमिव दिक्षु पातयन् दशनकिरणैः सरस्वतीप्रस्थानमङ्गल-
पटहेनेव पूरयन्नाशाः, स्वरेण सुधीरमुवाच—'ब्रह्मन्, न खलु साधु-
सेवितोऽयं पन्थाः येनासि प्रवृत्तः । निहन्त्येष परस्तात् । उद्दाम-
प्रसृतेन्द्रियाश्वसमुत्थापितं हि रजः कलुषयति दृष्टिमक्षजिताम् ।
कियद्दूरं वा चक्षुरीक्षते । विशुद्धया हि धिया पश्यन्ति कृतबुद्धयः
सर्वानर्थानसतः सतो वा ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२२ Digitized by Arya Samaj Foundation, Chennai and eGangotri
हर्षचरितम्
भागित्वम् ? अतिरोषणश्चक्षुष्मानन्ध एव जनः । नहि कोपकलुषिता
विमृशति मतिः कर्तव्यमकर्तव्यं वा । कुपितस्य प्रथममन्धकारीभवति
विद्या, ततो भ्रुकुटिः । आदाविन्द्रियाणि रागः समास्कन्दति, चरमं
चक्षुः । आरम्भे तपो गलति, पश्चात्स्वेदसलिलम् । पूर्वमयशः स्फु-
रति, अनन्तरमधरः । कथं लोकविनाशाय ते विषपादपस्येव जटा-
वल्कलानि जातानि । अनुचिता खल्वस्य मुनिवेषस्य हारयष्टिरिव वृत्त-
मुक्ता चित्तवृत्तिः ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inप्रथम उच्छ्वासः २३
मसि निगृहीतवाननागसां सरस्वतीम् । एतानि तान्यात्मप्रमादस्खलित-
वैलक्ष्याणि, यैर्याप्यतां यात्यविदग्धो जनः' इत्युक्त्वा पुनराह—
'वत्से सरस्वति, विषादं मा गाः । एषा त्वामनुयास्यति सावित्री ।
विनोदयिष्यति चास्मद्विरहदुःखिताम् । आत्मजमुखकमलावलोकनाव-
धिश्च ते शापोऽयं भविष्यति' इति । एतावदभिधाय विसर्जितसुरा-
सुरमुनिमनुजमण्डलः ससंभ्रमोपगतनारदस्कन्धविन्यस्तहस्तः समु-
चिताह्निककरणायोदतिष्ठत् । सरस्वत्यपि शप्ता किञ्चिदधोमुखी
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inनखमयूखजालकेन नूपुरव्याहाराहूतेर्भवनकलहंसकुलैर्ब्रह्मलोकनिवासिहृदयै-
रिवानुगम्यमाना समं सावित्र्या गृहमगात् ।
अत्रान्तरे सरस्वत्यवतरणवार्तामिव कथयितुं मध्यमं लोकमवततारां-
शुमाली । क्रमेण च मन्दायमाने मुकुलितविसिनीविसरव्यसनविषण्ण-
सरसि वासरे, मधुमदमुदितकामिनीकोपकुटिलकटाक्षक्षिप्यमाण
इव क्षेपीयः क्षितिधरशिखरमवतरति तरुणतरकपिलपनलोहिते लोकैक-
चक्षुषि भगवति,
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inप्रथम उच्छ्वासः २५
Digitized by Arya Samaj Foundation Chennai and eGangotri
सारिकासहस्रचरणालक्तकरसानुलिप्त इव प्रकटयति च तारापथे पाट-
लताम्, तारापथप्रस्थितसिद्धदत्तदिनकरास्तमयार्घ्यावर्जिते रञ्जित-
ककुभि, कुसुम्भभासि स्रवति पिनाकिप्रणतिमुदितसंध्यास्वेदसलिल इव
रक्तचन्दनद्रवे, वन्दारुमुनिवृन्दारकवृन्दबध्यमानसंध्याञ्जलिवने, ब्रह्मो-
त्पत्तिकमलसेवागतसकलकमलाकर इव राजति ब्रह्मलोके; समुच्चा-
रिततृतीयसवनब्रह्मणि ब्रह्मणि, ज्वलितवैतानज्वलनज्वालाजटालाजि-
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inजलदेवतातपत्रे पत्ररथकुलकलत्रान्तःपुरसौधे निजमधुमधुरामोदिनि कृतम-
धुप्रमुदि मुमुदिषमाणे कुमुदवने, दिवसावसानताम्यत्तामरसमधुरमधुसपीति-
प्रीते सुषुप्सति मृदुमृणालकाण्डकण्डूयनकुण्डलितकंधरे धुतपत्रराजिवीजित-
राजीवसरसि राजहंसयूथे, तटलताकुसुममधूलिधूसरितसरिति सिद्धपुरपुरंध्रि-
धम्मिल्लमल्लिकागन्धग्राहिणि सायंतने तनीयसि निशानिश्वासनिभे नभ-
स्वति, संकोचोद्बद्ध्युच्चकेसरकोटिसंकटकुशेशयकोशकोटरकुटीशायिनि षट्-
चरणचक्रे, नृत्योद्धूतधूर्जटिजटाटवीकुटजकुङ्मलनिकरनिभे
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inDigitized by Arya Samaj Foundation Chennai and eGangotri प्रथम उच्छ्वासः २७
यति तारागणे, संध्यानुबन्धताम्रे परिणमत्तालफलत्वक्त्विषि कालमेघमे-
दुरे, मेदिनीं मीलयति नववयसि तमसि तरुणतरतिमिरपटल-
पाटनपटीयसि समुन्मिषति यामिनीकामिनीकर्णपूरचम्पककलिकाकद-
म्बके प्रदीपप्रकरे, प्रतनुतुहिनकिरणकिरणलावण्यालोकपाण्डुन्त्याश्यान-
नीलनीरमुक्तकालिन्दीकुलबालपुलिनायमाने शातक्रतवे क्रशयति
तिमिरमाशामुखे, खमुचि मेचकितविकचितकुवलयसरसि शशधरकर-
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in