हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)
Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary
by महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री
About this granth
The Harshacharita (हर्षचरितम्) is the seventh-century Sanskrit prose work of Banabhatta on the life and lineage of the emperor Harshavardhana, often called the first historical narrative (akhyayika) in Sanskrit. The introduction to this edition sets Bana's prose beside Kalidasa's verse and describes the Harshacharita as his first work, a prelude to the style he perfected in the Kadambari.
The work has eight chapters (ucchvasas). They begin with Sarasvati's descent under Durvasa's curse, Bana's Vatsyayana family and his visit to Harsha's court, then turn to Sthanvishvara and King Prabhakaravardhana, the births of his children, Rajyashri's marriage, the Huna campaign, the king's death and Queen Yashomati's self-immolation, Rajyavardhana's murder and Harsha's vow of conquest, and the search for Rajyashri in the Vindhya forest, where Harsha meets the monk Divakaramitra.
This is No. 36 of the Vidyabhawan Sanskrit Granthamala from Chowkhamba Vidya Bhawan, Varanasi, with Shankara's Sanskrit commentary Sanketa and a Hindi commentary by Pt. Jagannath Pathak of the Vaidyanath Dham Gurukul, Bihar. The scan of 506 pages contains the whole work.
धारणायाधुना त्वं शेषः । समाश्वासय अशरणाः प्रजाः । क्ष्मापतीनां
शिरःसु शरत्सवितेव ललाटंतपान्प्रयच्छ पादन्यासान् । अहितानामभिन-
वसेवादीक्षादुःखसंतप्रश्वासधूममण्डलैर्नखंपचैः प्रचलितचूडामणिचक्रवा-
लबालातपैश्चायाहि कल्माषपादताम् । अपि च हृते पितर्यंकाकी तपस्व्रा
मृगैः सह संवर्धितः सहजब्राह्मण्यमार्दवसुकुमारमनाः कृतनिश्चयश्चण्डचा-
पवनाटनिंटंकारनादनिर्मदीकृतदिग्गजं गुञ्जज्ज्याजालजनितजगज्ज्वरं स-
मप्रमुद्यतमेकविंशतिकृत्वः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inनास्वादितमिव रिपुरुधिरामृतममन्दरोपायमपायि पवनात्मजेन। जामद-
ग्न्येन च शाम्यन्मन्युशिखिशिखासंज्वरसुखायमानस्पर्शशीतलेषु क्षत्रिय-
क्षतजह्रदेष्वस्नायि।' इत्युक्त्वा व्यरंसीत्।
देवस्तु हर्षस्तं प्रत्यवादीत्—'करणीयमेवेदमभिहितं मान्येन। इत-
रथा हि मे गृहीतभुवि भोगिनायेऽपि दायाददृष्टिरीर्ष्यालोर्भुजस्य। उपरि
गच्छतीच्छति निग्रहाय ग्रहगणेऽपि भ्रूलता चलितुम्। अनमत्सु शैलेष्वपि
कचग्रहमभिलषति दातुं करः।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inषष्ठ उच्छ्वासः ३३५
मुसल्ये जीवति जाल्मे जगद्विगर्हिते गौडाधिपाधमचण्डाले जिह्रेमि
शुष्काधरपुटः पोटेव प्रतिकारशून्यं शुचा फूत्कर्तुम् । अकृतरिपुबलाबला-
विलोललोचनोदकदुर्द्दिनस्य मे कुतः करयुगलस्य जलाञ्जलिदानम् ।
अदृष्टगौडाधमचिताधूममण्डलस्य च चक्षुषः स्वल्पमप्यश्रुसलिलम् ।
श्रूयतां मे प्रतिज्ञा - 'शपाम्यार्यस्यैव पादपांसुस्पर्शन, यदि परिगणितैरेव
वासरैः सकलचापचापलदुर्ललितनरपतिचरणरणायमाननिगडां निर्गोडां
गां न करोमि ततस्तनूनपाति पीतसर्पिषि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inहाय गन्धमादनात्, सर्वेषा राज्ञां सज्जीक्रियन्तां कराः करदानाय शस्त्रग्र-
हणाय वा, गृह्यन्तां दिशाश्चामराणि वा, नमन्तु शिरांसि धनूंषि वा,
कर्णपूरीक्रियन्तामाज्ञा मौर्व्यो वा, शेखरीभवन्तु पादरजांसि शिरस्त्राणि
वा, घटन्तामञ्जलयः करिघटाबन्धा वा, मुच्यन्तां भूमय इषवो वा, समा-
लम्ब्यन्तां वेत्रयष्टयः कुन्तयष्टयो वा, सुदृष्टः क्रियतामात्मा मच्चरणनखेषु
कृपाणदर्पणेषु वा। परागतोऽहम्। पङ्गोरिव मे कुतो निवृत्तिस्ताव-
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतेजस्यहिमभासि, तामरसवनेष्वपि निगूढशिलीमुखालापेषु त्रासा-
दिव संकुचत्सु, विहगगणेष्वपि समुपसंहृतनिजपक्षविक्षेपनिश्चलेषु
भियेवाप्रकटीभवत्सु, भुवनव्यापिनीं संध्यां प्रतिज्ञामिव मानयति
नतशिरसि घटिताञ्जलिवने जने सकले, स्वपदच्युतिचकितदिक्पा-
लदीयमानाभ्रंलिहलोहप्राकारवलयकलितास्विव बहलतिमिरमालातिरो-
धीयमानासु दिक्षु प्रदोषस्थाने नातिचिरं तस्थौ । नपन्नृपलो-
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३३८ हर्षचरितम्
बन्धात्तातादचलादिव लोहधातुः कठिनतर आसीदार्यः। कथं चास्य
मे हतहृदयस्यार्यविरहे सकृदपि युक्तं समुच्छ्वसितुम्। इयं सा
प्रीतिर्भक्तिरनुवृत्तिर्वा। बालिशोऽपि कः संभावयेदार्यमरणे मज्जी-
वितम्। तत्तादृशमैक्यमेकपद् एव क्वापि गतम्। अयत्नेनैव हत-
विधिना पृथक्कृतोऽस्मि। दग्धरोषान्तरितशुचा सुचिरं रुदितमपि
न मुक्तकण्ठं गतघृणेन मया। सर्वथा लूतातन्तुच्छटाच्छिदुरास्तु-
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inअथ युगपत्प्रधावितबहुपुरुषपरम्पराहूयमानः, स्वमन्दिरादप्रतिपालित-
करेणुश्चरणाभ्यामेव संभ्रान्तः, ससंभ्रमैर्दण्डिभिरुत्सार्यमाणजनपदः, पदे
पदे प्रणमतः प्रतिदिशमभिषग्वरान्वारणानां विभावरीवार्ताः पृच्छन्नु-
च्छ्रितशिखिपिच्छलाञ्छितवंशलतावनगहनगृहीतदिगायामैर्विन्ध्यवनैरिव
वारणबन्धविमर्दोद्योगागतैः, पुरःप्रधावद्भिरनायत्तमण्डलैराधोरणगणैश्च
मरकतहरितघासमुष्टीश्च दर्शयद्भिर्नवग्रहगजपतींश्च प्रार्थयमानैश्च लब्धाभि-
मतमत्तमातङ्गमुदितमानसैश्च
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३४०
हर्षचरितम्
नवगजसाधनसंचरणवार्तानिवेदनबिसर्जितैश्च नागवनवीथीपालदूतवृन्दैः,
प्रतिक्षणप्रत्यवेक्षितकरिकवलकूटैश्च, कटभङ्गसंग्रहं ग्रामनगरनिगमेषु निवे-
दयमानैः, कटककदम्बकैः क्रियमाणकोलाहलः, स्वामिप्रसादसंभृतेन महा-
धिकाराविष्कारेण स्वाभाविकेन चावष्टम्भाभोगोनोदासीनोऽप्यादिशन्निव,
असंख्यकरिकर्णशङ्खसंपत्संपादनाय समुद्रानाज्ञापयन्निव, शृङ्गारगैरिकप-
ङ्करागसंग्रहाय गिरीन्मुष्णन्निव, दिग्गजाधिकारं ककुभामैरावतमिवाप-
हरन्हरेर्हरपदभरनमितकैलासगिरिगुरुभिः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inषष्ठ उच्छ्वासः ३४१
नामृतरसस्वादुना नवपल्लवकोमलेन कवलेनेव श्रीकरेणुकां विलोभयन्नि-
जनृपवंशदीर्घं नासावंशं दधानः, अतिस्निग्धमधुरधवलविशालतया पीत-
क्षीरोदेनेव पिबन्नेक्षणयुग्मायामेन दिशामयामं मेरुतटादपि विकटवि-
पुलालिकः, सततमविच्छिन्नच्छत्रच्छायाप्ररूढिवशादिव नितान्तायतनी-
लकोमलच्छविसुभगेन स्वभावभङ्गुरण कुन्तलबालवल्लरीवेष्टितविलासिना
लुनन्निव, लुप्तालोकानर्ककरान्बर्बरकेणारिपक्षपरिक्षयपरित्यक्तकार्मुकक-
र्मोपि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३४२ हर्षचरितम्
धनोऽप्यस्पृष्टो मदेन भूतिमानपि स्नेहमयः पार्थिवोऽपि गुणमयः करिणा-
मिव दानवतामुपरि स्थितः, स्वामितामिव स्पृहणीयां भृत्यतामप्यपरिभू-
तामुद्वहन्नेकभर्तृभक्तिनिश्चलां कुलाङ्गनामिवानन्यगम्यां प्रभुप्रसादभूमिमा-
रूढः, निष्कारणबान्धवो विदग्धानाम् , अभृतभृत्यो भजताम् , अक्रीत-
दासो विदुषाम् , स्कन्दगुप्तो विवेश राजकुलम् । दूरादेव चोभयकरकम-
लावलम्बितं स्पृशन्मौलिना महीतलं नमस्कारमकरोत् ।
उपविष्टं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inषष्ठ उच्छ्वासः ३४३
दिक्करिकरप्रलम्बस्य बाहुयुगलस्यासाधारणस्य च सोदरस्नेहस्य सर्वं सह-
शमुपक्रान्तम्। काकोदराभिधानाः कृपणाः कृमयोऽपि न मृष्यन्ति निकारं
किमुत भवादृशास्तेजसां राशयः। केवलं देवराज्यवर्धनोदन्तेन कियदपि
दृष्टमेव देवेन दुर्जनदौरात्म्यम्। ईदृशाः खलु लोकस्वभावाः प्रतिग्रामं
प्रतिनगरं प्रतिदेशं प्रतिद्वीपं प्रतिदिशं च भिन्ना वेशाश्चाकाराश्चाहाराश्च
ठ्याहाराश्च व्यवहाराश्च जनपदानाम्। तदियमात्मदेशाचारोचिता स्वभा-
वसरलहृदयजा त्यज्यतां
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३४४ हर्षचरितम्
ग्राहिणी यमतां ययौ यवनेश्वरस्य । लोभबहुलं च बहुलनिशि निधानमु-
त्खनन्तमुत्खातखङ्गप्रमाथिनी ममन्थ माथुरं बृहद्रथं विदूरथवरूथिनी ।
नागवनविहारशीलं च मायामातङ्गाङ्गान्निर्गता महासेनसैनिका वत्सपतिं
न्ययंसिषुः । अतिदयितलास्यस्य च शैलूषमध्यमध्यास्य मूर्धानमसिलतया
मृणालमिवालुनादग्निमित्रात्मजस्य सुमित्रस्य मित्रदेवः । प्रियतन्त्रीवाद्य-
स्यालाबुवीणाभ्यन्तरसुषिरनिहितनिशिततरवारयो गान्धर्वच्छलात्तच्छद्मानः
कार्यों भृत्य इत्युक्तम् । यवनेश्वरः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inषष्ठ उच्छ्वासः ३४५
चिच्छिदुरश्मकेश्वरस्य शरभस्य शिरो रिपुपुरुषाः । प्रज्ञादुर्बलं च बल-
दर्शनव्यपदेशदर्शिताशेषसैन्यः सेनानीरनार्यो मौर्यं बृहद्रथं पिपेष पुष्प-
मित्रः स्वामिनम् । आश्चर्यकुतूहली च दण्डोपनतयवननिर्मितेन
नभस्तलयायिना यन्त्रयानेनानीयत कापि काकवर्णः शैशुनागिश्च नगरो-
पकण्ठे कण्ठे निचकृते निस्त्रिंशेन । अतिस्त्रीसङ्गरतमङ्गपरवशं शुङ्गम-
मात्यो वसुदेवो देवभूतिदासीदुहित्रा देवीव्यञ्जनया वीतजीवितमकारयत् ।
असुरविवरव्यसनिनं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inNo OCR text.
षष्ठ उच्छ्वासः ३४७
चन्द्रगुप्तः शकपतिमशातयदिति । प्रमत्तानां च प्रमदाकृता अपि प्रमादाः
श्रुतिविषयमागता एव देवस्य । यथा मधुमोचितमधुरकसंलिप्तैर्लाजैः सुप्रभा
पुत्रराज्यार्थं महासेनं काशिराजं जघान । व्याजजनितकंदर्पदर्पा च दर्प-
णेन क्षुरधारापर्यन्तेनायोध्याधिपतिं परंतपं रत्नवती जारूध्यम् , विष-
चूर्णचुम्बितमकरन्देन च कर्णेन्दीवरेण देवकी देवरानुरक्ता देवसेनं
सौह्मथम्, योगपरागविरसवर्षिणा च मणिनूपुरेण वल्लभा सपत्नीरुषा
वैरन्त्या रन्तिदेवम्,
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३४८ हर्षचरितम्
मुदवसितेषु बहुरूपाण्युपलिङ्गानि बितेनिरे । तथा ह्यविप्रकृष्टाः कालदूतदृ-
ष्टय इवेतस्ततश्चेरुश्चटुलाः कृष्णशारश्रेणयः । प्रचलितलक्ष्मीनूपुरप्रणाद-
प्रतिमा मधुसरघासंघातझंकारा जह्लादिरे । चिरं विवृतविकृतवदनविव-
रविनिःसृतवह्नित्रिसरा वासरेऽपि विरसं विरेसुश्चिरमशिवार्यमशिवाः
शिवाः । शवपिशितप्ररूढप्रसरा इव कपिपोतकपोलकपिलपक्षतयः कानन-
कपोताः पेतुः । आमन्त्र्यमाणा इव दधुरकालकुसुमानि सममुपवनतरवः ।
तरलकरतलप्रहारप्रहतपयोधरा
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inषष्ठ उच्छ्वासः ३४६
मकार्णीत्कौलेयकगणः । गणयन्तीव गतायुषस्तर्जनतरलया तर्जन्या दिव-
समाटवाटकेषु कोटवी । कुट्टिमेषु कुटिलहरिणखुरवेणीतरङ्गिण्यश्च शष्प-
राजयोऽजायन्त । जनितवेणीबन्धामि निरञ्जनरोचनारोचींषि चषकमधुनि
मुखकमलप्रतिबिम्बान्यदृश्यन्त भटीनाम् । समासन्नात्मापहारचकिता इव
चकम्पिरे भूमयः । वध्यालंकाररक्तचन्दनरसच्छटा इवालक्ष्यन्त शूराणां
पतिताः शरीरेषु
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inसप्तम उच्छ्वासः
अङ्गनवेदी वसुधा कुल्या जलधिः स्थली च पातालम् ।
वल्मीकश्च सुमेरुः कृतप्रतिज्ञस्य वीरस्य ॥१॥
धृतधनुषि बाहुशालिनि शैला न नमन्ति यत्तदाश्चर्यम् ।
रिपुसंज्ञकेषु गणना कैव वराकेषु काकेषु ॥२॥
अथ व्यतीतेषु च केषुचिद्दिवसेषु मौहूर्तिकमण्डलेन शतशः सुगणिते
सुप्रशस्तेऽहनि दत्ते चतसृणामपि दिशां विजययोग्ये दण्डयात्रालग्ने,
सलिलमोक्षविशारदैः शारदैरिवाम्भोधरैः कालधौतैः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inसप्तम उच्छ्वासः ३५१
राजतानि जातरूपमयानि च सहस्रशस्तिलपात्राणि कनकपत्रलतालंकृत-
शफशृङ्गशिखरा गाश्चार्बुदशः, समुपविश्य विततव्याघ्रचर्मणि भद्रासने
विलिप्य प्रथमविलिप्तायुधो निजयशोधवलेनाचरणनश्चन्दनेन शरीरं,
परिधाय राजहंसमिथुनलक्ष्मणी सदृशे दुकूले, परमेश्वरचिह्नभूतां शशि-
कलामिव कल्पयित्वा सितकुसुममुण्डमालिकां शिरसि नीत्वा, कर्णाभरण-
मरकतमयूखमिव कर्णगोचरतां गोरोचनाच्छुरितमभिनवं दूर्वापल्लवं
विन्यस्य सह शासनवलयेन
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३५२ हर्षचरितम्
दशद्वीपजेतव्याधिकारे दक्षिणं भुजस्तम्भमहमहमिकया सेबकैरिव सनि-
मित्तैरपि समग्रैरग्रतो भवद्भिः प्रमुदितप्रजाजन्यमानजयशब्दकोलाहलो
हिरण्यगर्भ इव ब्रह्माण्डात्कृतयुगकरणाय भवनान्निर्जगाम।
नातिदूरे च नगरादुपसरस्वति निर्मिते महति तृणमये, समुत्तम्भि-
ततुङ्गतोरणे, वेदीविनिहितपल्लवलालामहेमकलशे, बद्धवनमालादाम्नि,
धवलध्वजमालिनी, भ्रमच्छुक्लवाससि, पठद्द्विजन्मनि मन्दिरे प्रस्थानम-
करोत्। तत्रस्थस्य चास्य
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in