हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)
Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary
by महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री
About this granth
The Harshacharita (हर्षचरितम्) is the seventh-century Sanskrit prose work of Banabhatta on the life and lineage of the emperor Harshavardhana, often called the first historical narrative (akhyayika) in Sanskrit. The introduction to this edition sets Bana's prose beside Kalidasa's verse and describes the Harshacharita as his first work, a prelude to the style he perfected in the Kadambari.
The work has eight chapters (ucchvasas). They begin with Sarasvati's descent under Durvasa's curse, Bana's Vatsyayana family and his visit to Harsha's court, then turn to Sthanvishvara and King Prabhakaravardhana, the births of his children, Rajyashri's marriage, the Huna campaign, the king's death and Queen Yashomati's self-immolation, Rajyavardhana's murder and Harsha's vow of conquest, and the search for Rajyashri in the Vindhya forest, where Harsha meets the monk Divakaramitra.
This is No. 36 of the Vidyabhawan Sanskrit Granthamala from Chowkhamba Vidya Bhawan, Varanasi, with Shankara's Sanskrit commentary Sanketa and a Hindi commentary by Pt. Jagannath Pathak of the Vaidyanath Dham Gurukul, Bihar. The scan of 506 pages contains the whole work.
षष्ठ उच्छ्वासः ३१३
अत्रान्तरे पूर्वादिष्टेनेव रुदता वस्त्रकर्मान्तिकेन समुपस्थापितेषु वल्क-
लेषु, निर्दयकरतलताडनभियेव कापि गते हृदये, रटति राजस्त्रैणे, तारम-
ब्रह्मह्ययमूर्ध्वदोषिण विरुदति विप्रजने, पादप्रणतिपरे फूत्कुर्वति पौरवृन्दे,
विद्राति विद्रुतचेतसि चिरंतने परिजने, परिजनाव लम्बिते, गते वर्षीयसि,
वेपमानवपुषि, पर्याकुलवाससि, शोकगद्गदवचसि, विगलितनयनपयसि,
निवारणोद्यतमनसि, विशति बन्धुवर्गे, निराशेषु
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३१४ हर्षचरितम्
मतिः, अद्युतिकरमपरमधिकतरमितो दुःखातिशयं समुपनेति विधिः'
इति । स कथं कथमप्यकथयत्—'देव ! पिशाचानामिव नीचात्मनां
चरितानि छिद्रप्रहारीणि प्रायशो भवन्ति । यतो यस्मिन्नहन्यवनिपति-
रुपरत इत्यभूद्वार्त्ता तस्मिन्नेव देवो ग्रहवर्मा दुरात्मना मालवराजेन जीव-
लोकमात्मनः सुकृतेन सह त्याजितः । भर्तृदारिकापि राज्यश्रीः कालायस-
निगडयुगलचुम्बितचरणा चोराङ्गनेव संयता कान्यकुब्जे कारायां निक्षिप्ता ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inषष्ठ उच्छ्वासः ३१५
स्वस्रेव प्रथीयसी ललाटपट्टे भीषणा भ्रुकुटिरुदभिद्यत । दर्पात्परामृशन्नख-
किरणसलिलनिर्झरैः समरभारसंभावनामभिषेकमिव चकार दिक्नागकुम्भ-
कूटविकटस्य बाहुशिखरकोशस्य वामः पाणिरुल्लवः । संगलत्स्वेदसलिल-
पूरितोदरो निर्मूलं मालवोन्मूलनाय गृहीतकेश इव दुर्मदश्रीकचग्रहोत्क-
ण्ठयेव च कम्पमानः पुनरपि समुत्ससर्प भीषणं कृपाणं पाणिरपरः शस्र-
ग्रहणमुदितराजलक्ष्मीक्रियमाणदिष्टवृद्धिविधुतसिन्दूरधूलिरिव कपिलः कपो-
लयोरदृश्यत रोषरागः । समाासन्नसकलमहीपालचूडामणिचक्राक्रमणजाता-
हंकार
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३१६ हर्षचरितम्
क्षुब्धकर्षणनिष्ठ्यूतधूमलेखो निर्वीरोर्वीकरणाय विमुक्तशिख इव लिलेख
मणिकुट्टिममितरः पादपद्मः । दर्पस्फुटितसरसव्रणोच्छलितरुधिरच्छटाव-
सेकैः शोकविषप्रसुप्तं प्रबोधयन्निव पराक्रममनुजमवादीत्—'आयुष्मन् !
इदं राजकुलम्, अमी बान्धवाः, परिजनोऽयम्, इयं भूमिः, भूपतिभुज-
परिघपालिताश्चैताः प्रजाः, गतोऽहमद्यैव मालवराजकुलप्रलयाय । इदमेव
तावद्वल्कलग्रहणमिदमेव तपः शोकापगमोपायश्चायमेव यदत्यन्ताविनीता-
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inषष्ठ उच्छ्वासः ३१७
तं च तथा समादिशन्तमाकर्ण्य जामिजामातृवृत्तान्तविज्ञानप्रकोपा-
धानदूयमाने मनसि निर्वर्तनादेशेन दूरप्ररूढप्रणयपीड इव प्रोवाच देवो
हर्षः—‘कमिव हि दोषं पश्यत्यार्यो ममानुगमनेन ? यदि बाल इति
नितरां तर्हि न परित्याज्योऽस्मि । रक्षणीय इति भवद्भुजपञ्जरो रक्षास्था-
नम्, अशक्त इति क परीक्षितोऽस्मि, संवर्धनोय इति वियोगस्तनूकरोति,
अक्लेशसह इति स्त्रीपक्षे निक्षिप्तोऽस्मि, सुखमनुभवत्विति त्वयैव सह
तत्प्रयाति,
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३१८ हर्षचरितम्
सहशो दोषः । का चेयमात्मंभरिता भुजस्य ते यदेकाकी क्षीरोदफेनपट-
लपाण्डुरममृतमिव यशः पिपासति । अवञ्चितपूर्वोऽस्मि प्रसादेषु ।
तत्प्रसीदत्वार्यो नयतु मामपि' इत्यभिधाय क्षितितलविनिहितमौलिः
पादयोरपतत् ।
तमुत्थाप्य पुनरग्रजो जगाद—'तात ! किमेवमतिमहारम्भपरिग्रहेण
गरिमाणमारोप्यते बलादतिलघीयानप्यहितः । हरिणार्थमतिहेपणः सिंह-
संभारः । तृणानामुपरि कति
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inषष्ठ उच्छ्वासः ३१६
भवान्।' इत्यभिधाय च तस्मिन्नेव वासरे निर्जगामाभ्यमित्रम् ।
अथ तथागते भ्रातरि, उपरते च पितरि, प्रोषितजीविते च जामातरि,
मृतायां च मातरि, संयतायां च स्वसरि, स्वयूथभ्रष्ट इव वन्यः करी देवो
हर्षः कथं कथमप्येकाकी कालं तमनेषीत् । अतिक्रान्तेषु बहुषु वासरेषु
कदाचित्तयैव भ्रातृगमनदुःखासिकाया दत्तप्रजागरस्त्रिभागशेषायां त्रिया-
मायां यामिकेन गीयमानामिमामार्यां शुश्राव—
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३२० हर्षचरितम्
मकल्याणाख्यानविचक्षणमदक्षिणमक्षि। सुदारुणाश्चाक्षुद्रक्षितिपक्षयमाच-
क्षाणाः क्षणमपि न शाम्यन्ति पुनरुत्पाताः। प्रत्यहं राहुरविकलकायबन्ध
इव कबन्धवति ब्रध्नबिम्बे घटमानो विभाव्यते। तपःकरणकालकवलि-
तानिव धूसरितसमग्रग्रहानुद्विरन्ति धूमोद्गारान्सप्तर्षयः। दिने दिने
दारुणा दिशां दाहा दृश्यन्ते। दिग्दाहभस्मकणनिकर इव निपतति
नभस्तलात्तारागणः। तारापातशुचेव
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inषष्ठ उच्छ्वासः ३२१
आस्थानगतश्च सहसैव प्रविशन्तम्, अनुप्रविशता विषण्णवदनेन
लोकेनानुगम्यमानम्, असह्यदुःखोष्णनिःश्वासधूमरक्ततन्तुनेव मलिनेन
पटेन प्रावृतवपुषम्, जीवितधारणलज्जयेवावनतमुखम्, नासावंशस्याग्रे
ग्रथितदृष्टिम्, दुःखदूरप्ररूढरोम्णा मूकेनापि मुखेन स्वामिव्यसनमवि-
च्छिन्नैरश्रुबिन्दुभिर्विज्ञापयन्तं कुन्तलं नाम बृहदश्ववारम्, राज्यवर्धनस्य
प्रसादभूमिमभिज्ञाततमं ददर्श। दृष्ट्वा च जाताशङ्कश्चक्षुषि सलिलेन, मुख-
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३२२ हर्षचरितम्
किताङ्कमिव रोषाग्निमुद्वमन्ननवरतस्फुरितेन पिबन्निव सर्वतेजस्विनामा-
यूंषि, रोषनिर्भुग्नेन दशनच्छदेन लोहितायमानलोचनालोकविक्षेपैर्दिग्दा-
हानिव दर्शयन्, रोषानलेनाप्यसह्यसहजशौर्योष्मदहनदह्यमानेनेव वित-
न्यमानस्वेदसलिलशीकरासारदुर्दिनः, स्वावयवैरप्यदृष्टपूर्वप्रकोपभीतैरिव
कम्पमानैरुपेतः, हर इव कृतभैरवाकारः, हरिरिव प्रकटितनरसिंहरूपः,
सूर्यकान्तशैल इवापरतेजःप्रसरदर्शनप्रज्वलितः, क्षयदिवस इवोदितद्वादश-
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inषष्ठ उच्छ्वासः ३२३
पारीक्षित इव सर्वभोगिदहनोद्यतः, वृकोदर इव रिपुरुधिरतृषितः, सुरगज
इव प्रतिपक्षवारणप्रधावितः, पूर्वागम इव पौरुषस्य, उन्माद इव मदस्य,
आवेग इत्रावलेपस्य, तारुण्यावतार इव तेजसः, सर्वोद्योग इव दर्पस्य,
युगागम इव यौवनोष्मणः, राज्याभिषेक इव रणरसस्य, नीराजनदिवस
इवासहिष्णुतायाः परां भीषणतामयासीत् ।
अवादीच्च गौडाधिपाधममपहाय कस्तादृशं महापुरुषं तत्क्षण एव
निर्व्याजभुजवीर्येनिर्जितसमस्तराजकं मुक्तशस्त्रं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३२४ हर्षचरितम्
नपेक्षितप्रीतयः प्रसृताः कराः । कां तु गतिं गमिष्यति, कां वा योनिं प्रवे-
द्यति, कस्मिन्वा नरके निपत्तिष्यति । श्वपाकोऽपि क इदमाचरेत् ।
नामापि च गृह्णतोऽस्य पापकारिणः पापमलेन लिप्यत इव मे जिह्वा ।
किं वाङ्गीकृत्य कार्यमार्यस्तेन क्षुद्रेणानुप्रविश्य विगतघृणेन घुणेनेव सक-
लभुवनाह्लादनचतुरश्चन्दनस्तम्भः क्षयमुपनीतः । नूनं नानेन मूढेन मधु-
रसास्वादलुब्धेन मध्विवार्यजीवितमाकर्षता भावी दृष्टः शिलीमुखसंपातो-
पद्व्रवः ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inषष्ठ उच्छ्वासः ३२५
त्तरः केसरिनखरः । तादृशाः कुवैकटिका इव तेजस्विरत्नविनाशकाः कस्य
न वध्याः । केदानीं यास्यति दुर्बुद्धिः ?' इत्येवमभिदधत एवास्य पितुरपि
मित्रं सेनापतिः समग्रविग्रहप्राग्रहरो हरितालशैलावदातदेहः परिणतप्रगु-
णसालप्रकाण्डप्रकाशः प्रांशुः, अतिशौर्योष्मणेव परिपाकमागतो गतभूयिष्ठे
वयसि वर्तमानः, बहुशरशयनसुप्रोत्थितोऽपि हसन्निव शान्तनवमतिदी-
र्घेणायुषा, दुरभिभवशरीरतया जरयापि भीतभीतयेव प्रकटितप्रकम्पया
परामृष्टः कथमपि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inकाननविशदं शरदारम्भं भीमेन मुखेन, मृतमपि हृदयस्थितं स्वामिनमिव
सितचामरेण वीजयन्नाभिलम्बेन कूर्चकलापेन, परिणामेऽपि धौतासिधा-
राजलपानतृषितैरिव विवृतवदनैर्बृहद्भिर्व्रणविदारैर्विषमितविशालवक्षाः, नि-
शितशस्त्रटङ्ककोटिकुट्टितबहुबृहद्वर्णाक्षरपङ्क्तिनिरन्तरतया च सकलसमर-
विजयपर्वगणनाभिव कुर्वन्पूर्वपर्वत इव पादचारी, विविधवीररसवृत्तान्त-
रामणीयेकन महाभारतर्माप लघयन्निव, प्रतिपक्षक्षपणातिनिबन्धेन पर-
शुराममपि शिक्षयन्निव,
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inषष्ठ उच्छ्वासः ३२७
भमपि हसन्निव, अरणिरमर्षाग्नेः, ऐश्वर्यं शौर्यस्य, मदो मदस्य, विसर्पो
दर्पस्य, हृदयं हठस्य, जीवितं जिगीषुतायाः, समुच्छ्वसितमुत्साहस्य, अङ्कुशो
दुर्मदानाम्, नागदमनो दुष्टभोगिनाम्, विरामो वरमनुष्यतायाः, कुल-
गुरुर्वीरगोष्ठीनाम्, तुला शौर्यशालिनाम्, सीमान्तदृश्वा शास्त्रग्रामस्य,
निर्वोढा प्रौढवादानाम्, संस्तम्भयिता भग्नानाम्, पारगः प्रतिज्ञायाः,
मर्मज्ञो महाविग्रहाणाम्, आघोषणापटहः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३२८ हर्षचरितम्
न्यन्यं तेजस्विनं जडधियः । किं वा करोतु वराकः येनातिभीरुतया
नित्यपराङ्मुखेन नतु दृष्टान्येव सर्वातिशायिशौर्यातिशयश्वयथुकपिलक-
पोलपुलकपल्लवितकोपानलानि कुपितानां तेजस्विनां मुखानि । नासौ
तपस्वी जानात्येवं यथाभिचारा इव विप्रकृताः सद्यः सकलकुलप्रलयमुपा-
हरन्ति मनस्विन इति । जलेऽपि ज्वलन्ति ताडितास्तेजस्विनः । सकल-
वीरगोष्ठीबाह्यस्य तस्यैवेदमुचितमनुत्तारनिरयनिपातनिपुणं कर्म । मन-
स्विनां हि प्रधनप्रधानधने धनुषि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inसप्तम उच्छ्वास: सेना प्रयाण, विन्ध्य वन गमन व भण्डी मिलन
षष्ठ उच्छ्वासः ३२६
र्वग्रहाभिभवभास्वराणां हि सुभटकराणामग्रतो दिग्ग्रहणे पङ्गवः पतङ्गकराः।
महामहिषशृङ्गतरङ्गभङ्गभङ्गुरभीषणान्तराला लोकप्रवादमात्रेण च दक्षिणाशा
परमार्थतो भटभ्रुकुटिरधिवासो यमस्य। चित्रं च यदुन्मुक्तसिंहनादानां
सहसा साहसरभसरसरोमाञ्चकण्टकनिकरेण सह न निर्यान्ति सटाः
शूराणां रणेषु। द्वयमेव च चतुःसागरसंभृतस्य भूतिसंभारस्य भाजनं
प्रतिपक्षदाहि दारुणं वडवामुखं वा महापुरुषहृदयं वा। तेजस्विनः सक-
लाननवाप्य पयोराशिसहजस्य कुतो
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inयशःप्रकरवर्षी विकासी वीररसः। पुरःप्रवृत्तप्रतापप्रहृताः पन्थानः
पौरुषस्य। शब्दविद्रुतविद्विषन्ति भवन्ति द्वाराणि दर्पस्य। शस्त्रालोक-
प्रकाशिताः शून्या दिशः शौर्यस्य। रिपुरुधिरशीकरासारेण भूरिव श्रीर-
प्यनुरज्यते। बहुनरपतिमुकुटमणिशिलाशाणकोणकषणेन चरणनखरा-
जिरिव राजताप्युज्ज्वलीभवति। अनवरतशस्त्राभ्यासेन करतलानीव रिपु-
मुखान्यपि श्यामीभवन्ति। विविधरणबद्धपट्टकशतैः शरीरमिव यशोऽपि
धवलीभवति। कवचिशु रिपूरुःकवाटेषु पात्यमानाः पावकशिखामिव
श्रियमपि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inषष्ठ उच्छ्वासः ३३१
ताचक्षुषा ददाति जलं स श्रेयान्नेतरः । नच स्वप्नदृष्टनष्टेष्विव क्षणिकेषु
शरीरेषु निबध्नन्ति बन्धुबुद्धिं प्रबुद्धाः । स्थायिनि यशसीव शरीरधीर्वी-
राणाम् । अनवरतप्रज्वलिततेजःप्रसरभास्वरस्वभावं च मणिप्रदीपमिव
कलुषः कज्जलमलो न स्पृशत्येवातितेजस्विनं शोकः । स त्वं सत्त्ववता-
मग्रणीः प्राग्रहरः प्राज्ञानां प्रथमः समर्थानां प्रष्ठोऽभिजातानामग्रेसरस्ते-
जस्विनामादिरसहिष्णूनाम् । एताश्च सततसंनिहितधूमायमानकोपाग्नयः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३३२ हर्षचरितम्
लोहनिगडापीडमालामलमहौषधैः पादपीठदोहददुर्ललितपादपटुमान्द्यानि।
क्षपय तीक्ष्णाज्ञाक्षरक्षारपातैर्जयशब्दश्रवणकर्णकण्डूः । अपनय चरणनख-
मरीचिचन्दनचर्चाललाटलेपैरनमितस्तिमितमस्तकस्तम्भविकारान् । उद्धर
करदानसंदेशसंदंशैर्द्रविणदर्पोष्मायमाणदुःशीललीलाशल्यानि । भिन्धि
मणिपादपीठदीधितिप्रदीपिकाभिः शुष्कसुभटाटोपभ्रुकुटिबन्धान्धका-
रान् । जय चरणलङ्घनलाघवगलितशिरोगौरवारोग्यैर्मिथ्याभिमानमहास्रं-
निपातान् । म्रदय
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in