Skip to content
SarvaKosh
Back to the archive

हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)

Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary

by महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री

Report a copyright issue

DevanagariSanskritpublished506 pages

About this granth

The Harshacharita (हर्षचरितम्) is the seventh-century Sanskrit prose work of Banabhatta on the life and lineage of the emperor Harshavardhana, often called the first historical narrative (akhyayika) in Sanskrit. The introduction to this edition sets Bana's prose beside Kalidasa's verse and describes the Harshacharita as his first work, a prelude to the style he perfected in the Kadambari.

The work has eight chapters (ucchvasas). They begin with Sarasvati's descent under Durvasa's curse, Bana's Vatsyayana family and his visit to Harsha's court, then turn to Sthanvishvara and King Prabhakaravardhana, the births of his children, Rajyashri's marriage, the Huna campaign, the king's death and Queen Yashomati's self-immolation, Rajyavardhana's murder and Harsha's vow of conquest, and the search for Rajyashri in the Vindhya forest, where Harsha meets the monk Divakaramitra.

This is No. 36 of the Vidyabhawan Sanskrit Granthamala from Chowkhamba Vidya Bhawan, Varanasi, with Shankara's Sanskrit commentary Sanketa and a Hindi commentary by Pt. Jagannath Pathak of the Vaidyanath Dham Gurukul, Bihar. The scan of 506 pages contains the whole work.

Page 131
Page 131 scan

८६ हर्षचरितम्
चादृष्टपरमेश्वरो बन्धुमध्यमधिवसन्नपि न मे बहुमतः । न च सेवावैषम्य-
विषादिना परमेश्वरोपसर्पणभीरुणा वा भवता भवितव्यम् । यतो यद्यपि-
स्वेच्छोपजातविषयोऽपि न याति वक्तुं
देहीति मार्गणशतैश्च ददाति दुःखम् ।
मोहात्समाक्षिपति जीवनमप्यकाण्डे
कष्टं मनोभव इवेश्वरदुर्विदग्धः ॥
तथाप्यन्ये ते भूपतयः, अन्य एवायम् । न्यक्कृतनृगनलनलनिषधनहुषा-
म्बरीषदशरथदिलीपनाभागभरतभगीरथययातिरमृतमयः स्वामी । नास्या-

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 132
Page 132 scan

वेगविक्षुब्धा विकाराः, नाभिमानमहासन्निपातनिर्मिताङ्गभङ्गानि गतानि,
न मदार्दितवक्रोकृतौष्ठनिष्ठ्यूतनिष्ठुराक्षराणि जल्पितानि । तथा च—अस्य
विमलेषु साधुषु रत्नबुद्धिः, न शिलाशकलेषु । मुक्ताधवलेषु गुणेषु प्रसा-
धनधीः, नाभरणभारेषु । दानवत्सु कर्मसु साधनश्रद्धा, न करिकीटेषु ।
सर्वमग्रेसरे यशसि महाप्रोतिः, न जीवितजरत्तृणे । गृहीतकरास्वाशासु
प्रसाधनाभियोगः, न निजकलत्रधर्मपुत्रिकासु । गुणवति धनुषि सहाय-
बुद्धिः, न पिण्डोपजीविनि सेवकजने । अपि च,—अस्य

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 133
Page 133 scan

८८ हर्षचरितम्
करणं लक्ष्मीः, कृपणोपकरणमैश्वर्यम्, द्विजोपकरणं सर्वस्वम्, सुकृतसं-
स्मरणोपकरणं हृदयम्, धर्मोपकरणमायुः, साहोपकरणं शरीरम्,
असिलतोपकरणं पृथिवी, विनोदोपकरणं राजकम्, प्रतापोपकरणं प्रति-
पक्षः । नास्याल्पपुण्यैरवाप्यते सर्वातिशायिसुखरसप्रसूतिः पादपल्लव-
च्छाया' इति । श्रुत्वा च तमेव चन्द्रसेनं समादिशत्—'कृतकशिपुं विश्रा-
न्तसुखिनमेनं कारय' इति ।
अथ गते तस्मिन्, पर्यस्ते च वासरे, संघट्टमानरक्तपङ्कजसंपुटपीय-
मान इव क्षयिणि

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 134
Page 134 scan

द्वितीय उच्छ्वासः ८६
कमलिनीकण्टकक्षतपादपल्लवे पतङ्गे, पुरः परापतति प्रेङ्खदन्धकारलेशल-
म्बालके शशिविरहशोकश्याम इव श्यामामुखे, कृतसंध्योपासनः शयनी-
यमगात् । अचिन्तयच्चैकाकी—‘किं करोमि । अन्यथा संभावितोऽस्मि
राज्ञा । निनिमित्तबन्धुना च संदिष्टमेवं कृष्णेन । कष्टा च सेवा । विषमं
भृत्यत्वम् । अतिगम्भीरं महद्राजकुलम् । न च मे तत्र पूर्वजपुरुषप्रवर्तिता
प्रीतिः, न कुलक्रमागत गतिः, नोपकारस्मरणानुरोधः, न बालसेवास्नेहः,
न गोत्रगौरवम् , न

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 135
Page 135 scan

६० हर्षचरितम्
अवश्यं गन्तव्यञ्च । सर्वथा भगवान्भवानीपतिर्भुवनपतिर्गतस्य मे शर-
णम्, सर्वं सांप्रतमाचरिष्यति, इत्यवधार्य गमनाय मतिमकरोत् ।
अथान्यस्मिन्नहन्युत्थाय, प्रातरेव स्नात्वा, धृतधवलदुकूलवासाः,
गृहीताक्षमालः, प्रास्थानिकानि सूक्तानि मन्त्रपदानि च बहुशः समावर्त्य
देवदेवस्य विरूपाक्षस्य क्षीरस्नपनपुरःसरं सुरभिकुसुमधूपगन्धध्वजबलि-
विलेपनप्रदीपकबहुलां विधाय परमया भक्त्या पूजाम्, प्रथमहुततरलति-

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

तृतीय उच्छ्वास: प्रभाकरवर्धन व स्थाण्वीश्वर राज्य वर्णन

Page 136
Page 136 scan

द्वितीय उच्छ्वासः ६१
दिब भगवत्या महाश्वेतया मालत्याख्यया कृतसकलगमनमङ्गलः, दत्ता-
शीर्वांदो बान्धववृद्धाभिः, अभिनन्दितः परिजनजरतीभिः, वन्दितचर-
णैरभ्यनुज्ञातो गुरुभिः, अभिवादितैराघ्रातः शिरसि कुलवृद्धैः, वर्धित-
गमनोत्साहः शकुनैः, मौहूतिकमतेन कृतनक्षत्रदोहदः, शोभने मुहूर्ते
हरितगोमयोपलिप्ताजिरस्थण्डिलस्थापितमसितेतरकुसुममालापरिक्षिप्तक-
ण्ठं दत्तपिष्टपञ्चाङ्गुलपाण्डुरं मुखनिहितनवचूतपल्लवं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 137
Page 137 scan

५२ हर्षचरितम्
ल्लगोलाङ्गूललिह्यमानमधुगोलचलितसरघासंघातै रोमाञ्चितमिव दग्ध-
स्थलीरूढस्थूलाभीरुकन्दलशतैः शनैश्चण्डिकायतनकाननमतिक्रम्य मल्ल-
कूटनामानं ग्राममगात् । तत्र च हृदयनिर्विशेषेण भ्रात्रा सुहृदा च जग-
त्पतिनाम्ना संपादितसपर्यः सुखमवसत् । अथापरेद्युरुत्तीर्य भगवतीं
भागीरथीं यष्टिगृहकनाम्नि वनग्रामके निशामनयत् । अन्यस्मिन्दिवसे
स्कन्धावारमुपमणिपुरमन्वजिरवति कृतसन्निवेशं समाससाद । अतिष्ठच्च
नातिदूरे

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 138
Page 138 scan

द्वितीय उच्छ्वासः ६३
तूहलोपनीतैश्च नागवीथीपालप्रेषितैश्च पल्लीपरिवृढढौकितैश्च स्वेच्छायुद्ध-
क्रीडाकौतुकाकारितैश्च दूतसंप्रेषणप्रेषितैश्च दीयमानैश्चाच्छिद्यमानैश्च मुच्य-
मानैश्च यामावस्थापितैश्च सर्वद्वीपविजिगीषया गिरिमिरिव सागरसेतुबन्ध-
नार्थमेकीकृतैर्ध्वजपटपटुपटहशङ्खचामराङ्गरागरमणीयैः पुष्याभिषेकदिव-
तैरिव कल्पितैर्वारणैन्द्रैः श्यामायमानम् , अनवरतचलितखुरपुटप्रहतमृद-
ङ्गैश्च नर्तयद्भिरिव राजलक्ष्मीमुपहसद्भिरिव सृक्विपुटप्रसृतफेनाट्टहासेन
जबजडजङ्घां

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 139
Page 139 scan

५४ हर्षचरितम्
सरक्तोत्पलैरिव रक्तशालिशालेयैरनवरतमणभणायमानचारुचामीकरघुरु-
घुरुकमालिकैरर्जत्कारञ्जवनैरिव रणितशुष्कबीजकोशीशतैः श्रवणोपान्तप्रे-
ङ्खत्पञ्चरागवर्णोर्णाचित्रसूत्रजूटजटाजालैः कपिकपोलकपिलैः क्रमेलककुलैः
कपिलायमानम्, अन्यत्र शरज्जलधरैरिव सद्यःस्रुतपयः पटलधवलतनुभिः
कल्पपादपैरिव मुक्ताफलजालकजायमानालोकलुप्तच्छायमण्डलैर्नारायण-
नाभिपुण्डरीकैरिवाश्लिष्टगरुडपक्षैः क्षीरोदोद्देशैरिव द्योतमानविकटविद्रु-
मदण्डैः

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 140
Page 140 scan

द्वितीय उच्छ्वासः ६५

विवस्वतः प्रतापमापिबद्भिरिवातपं चन्द्रलोकमयमिव जीवलोकं जन-
यद्भिः कुमुदमयमिव कालं कुर्वद्भिज्योत्स्नामयमिव वासरं विरचयद्भिः फेन-
मयीमिव दिवं दर्शयद्भिरकालकौमुदीसहस्राणीव सृजद्भिरुपहसद्भिरिव
शातक्रतवीं श्रियं श्वेतायमानैरातपत्रखण्डैः श्वेतद्वीपायमानम्, क्षणदृष्टन-
ष्टाष्टदिङ्मुखं च मुष्णद्भिरिव भुवनमाक्षेपोत्क्षेपदोलायितं दिनं गतागता-
नोव कारयद्भिरुत्सारयद्भिरिव कुनृपतिसम्पर्ककलङ्ककालीं कालेयीं स्थितिं
विकचविशदकाशवनपाण्डुरदशदिशं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 141
Page 141 scan

६६ हर्षचरितम्
क्षैर्दोलयमानम्, अपि च हंसयूथायमानं करिकर्णशङ्खैः, कल्पलता-
वनायमानं कदलिकाभिः, माणिक्यवृक्षकवनायमानं मायूरातपत्रैः,
मन्दाकिनीप्रवाहायमानमंशुकैः, क्षीरोदायमानं क्षौमैः, कदलीवनायमानं
मरकतमयूखैः, जन्यमानान्यदिवसमिव पद्मरागबालातपैः, उत्पद्यमाना-
परम्बरमिवेन्द्रनीलप्रभापटलैः, आरभ्यमाणापूर्वनिशमिव महानीलमयू-
खान्धकारैः, स्यन्दमानानेककालिन्दीसहस्रमिव गारुडमणिप्रभाप्रतानैः,
अङ्गारकितमिव पुष्परागरश्मिभिः,

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 142
Page 142 scan

द्वितीय उच्छ्वासः ६७
राणीबार्पयद्भिः कैश्चिदुरःस्थलदोलायमानेन्द्रनीलतरलप्रभापट्टैः स्वामि-
कोपप्रशमनाय कण्ठबद्धकृपाणपट्टैरिव कैश्चिदुच्छ्वाससौरभभ्राम्यद्भ्रम-
रपटलान्धकारितमुखैरपहृतलक्ष्मीशोकधृतलम्बश्मश्रुभिरिवान्यैः शेखरोड्डी-
यमानमधुपमण्डलैम्रैः प्रणामविडम्बनाभयपलायमानमौलिभिरिव निर्जितै-
रपि सुसंमानितैरिवानन्यशरणैरन्तरान्तरा निष्पततां प्रविशतां चान्तर-
प्रतीहाराणामनुमार्गप्रधावितानेकार्थिजनसहस्राणामनुयायिनः पुरुषानश्रा-
न्तैः पुनः पुनः

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 143
Page 143 scan

६८ हर्षचरितम्
च्छ्रजातिभिः सर्वदेशान्तरागतैश्च दूतमण्डलैरूपास्यमानम् , सर्वप्रजानि-
र्माणभूमिमिव प्रजापतीनां लोकत्रयसारोच्चयरचितं चतुर्थमिव लोकम् ,
महाभारतशतैरप्यकथनीयसमृद्धिसंभारम् , कृतयुगसहस्रैरिव कल्पितसन्नि-
वेशम् , स्वर्गाबुर्दैरिव विहितरामणीयकम् , राजलक्ष्मीकोटिभिरिव कृत-
परिग्रहं राजद्वारमगमत् ।
अभवच्चास्य जातविस्मयस्य मनसि—'कथमिवेदमियतप्रमाणं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 144
Page 144 scan

अथ स मुहूर्तादिव प्रांशुना, कर्णिकारगौरेण, वीध्रकञ्चुकच्छन्नवपुषा,
समुन्मिषन्माणिक्यपदकबन्धबन्धुरवस्तबन्धकृशावलग्नेन, हिमशैलशि-
लाविशालवक्षसा, हरवृषककुद्कूटविकटांसतटेन, उरसः चपलहृषीकह-
रिणकुलमंयमनपाशमिव हारं बिभ्रता, 'कथयतं यदि सोमवंशसंभवः
सूर्यवंशसंभवो वा भूपतिरभूदेवंविधः' इति प्रष्टुमानीयताभ्यां सोमसूर्याभ्या-
मिव श्रवणगताभ्यां मणिकुण्डलाभ्यां समुद्भासमानेन, वहद्वदनलावण्य-
विसरवेणिकाक्षिप्यमाणैरधिकारगौरवाह्नीयमानमार्गेणेव दिनकृतः

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 145
Page 145 scan

१०० हर्षचरितम्
पाण्डुरमुष्णीषमुद्वहता, वामेन स्थूलमुक्ताफलच्छुरणदन्तुरत्सरुं करकिस-
लयेन कलयता कृपाणम्, इतरेणापनीततरलतां ताडनीमिव लतां शात-
कौम्भीं वेत्रयष्टिमुन्मृष्टां धारयता पुरुषेणानुगम्यमानो निर्गत्यावोचत्—
‘एष खलु महाप्रतीहाराणामनन्तरश्चक्षुष्यो देवस्य पारियात्रनामा दौवा-
रिकः। समनुगृह्णात्वेनमनुरूपया प्रतिपत्त्या कल्याणभिनिवेशी’ इति।
दौवारिकस्तु समुपसृत्य कृतप्रणामो मधुरया गिरा सविनयमभाषत—
‘आगच्छत। प्रविशत

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 146
Page 146 scan

द्वितीय उच्छ्वासः १०१
सीकैश्च, शोणैश्च, श्यामैश्च, श्वेतैश्च, पिङ्गरैश्च, हरिद्भिश्च, तित्तिरिकल्माषैश्च,
पञ्चभद्रैश्च, मल्लिकाक्षैश्च, कृत्तिकापिञ्जरैश्च, आयतनिर्मासमुखैः, अनुत्क-
टकर्णकोशैः, सुवृत्तश्लक्ष्णसुघटितघण्टिकाबन्धैः, यूपानुपूर्वीवक्रायतोदग्र-
ग्रीवैः, उपचयश्वसत्स्कन्धसंधिभिः, निर्भुग्नोरःस्थलैः, अस्थूलप्रगुणप्रसृ-
वर्णविशेषवर्णनम् । 'शोणः पद्मार्जुनः स्मृतः' । पिञ्जरैरीषत्कपिलैः । हरिच्छुकनिभो
वर्णः । तित्तिरिः पक्षिविशेषस्तद्वच्चित्रैः । 'सिताक्ष यस्य वाजिनः

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 147
Page 147 scan

१०२ हर्षचरितम्
तैर्लोहपीठकठिनखुरमण्डलैः, अतिजवतृटनभयादनिर्मितान्त्राणीवोदराणि
वृत्तानि धारयद्भिः, उच्चद्रोणीविभज्यमानपृथुजघनैः, जगतीदोलायमान-
बालपल्लवैः, कथमप्युभयतो निखातदृढभूरिपाशसंयमननियन्त्रितैः, आय-
तैरपि पश्चात्पाशबन्धपरवशप्रसारितैकाङ्घ्रिभिरायततरैरिवोपलक्ष्यमाणैः,
बहुगुणसूत्रग्रथितश्रीबागण्डकैः, आमीलितलोचनैः, दुर्वारसश्याम लफेन-
लवशबलान्दंशनगृहीतमुक्तान्फरफरितत्वचः कण्डूजुषः प्रदेशान्प्रचाल-
यद्भिः, सालसवलितवालधिभिः,

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 148
Page 148 scan

द्वितीय उच्छ्वासः १०३
जनानलरद्यमाणैरिवोपरिविततवितानैः, पुरः पूजिताभिमतदेवतैः, भूपाल-
वल्लभैस्तुरङ्गैरारचितां मन्दुरां विलोकयन् , कुतूहलाक्षिप्तहृदयः किंचिदन्त-
रमतिक्रान्तो हस्तवामेनात्युन्नतया निरवकाशमिवाकाशं कुर्वाणम् , महता
कदलीवनेन परिवृतपर्यन्तं सर्वतो मधुकरमयीभिर्मदस्स्रुतिभिर्नदीभिरिवाप-
तन्तीभिरापूर्यमाणम् , आशामुखविसर्पिणा बकुलवनानामिव विकसतामा-
मोदेन लिम्पन्तं घ्राणेन्द्रियं दूरादव्यक्तमभिधिष्ण्यागारमपश्यत् । अपृच्छच्च-
'अत्र देवः

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 149
Page 149 scan

१०४ हर्षचरितम्
महान्दृश्यते' इति । स तमवादीत्—'भद्र ! श्रूयते दर्पशातः । यद्येवम-
दोषो वा पश्यामि तावद्वारणेन्द्रमेव । अतोऽर्हसि मामत्र प्रापयितुम् ।
अतिपरवानस्मि कुतूहलेन' इति । सोऽभाषत—'भवत्वेवम् । आगच्छतु
भवान् । को दोषः । पश्यतु तावद्वारणेन्द्रम्' इति ।
गत्वा च तं प्रदेशं दूरादेव गम्भीरगलगर्जितैर्वियति चातक-
कदम्बकैर्भुवि च भवननीलकण्ठकुलैः कलकेकाकलकलमुखरमुखैः
क्रियमाणाकालकोलाहलम् ,

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 150
Page 150 scan

द्वितीय उच्छ्वासः १०५
अनवरतमवतंसशङ्खैरामन्द्रकर्णतालदुन्दुभिध्वनिभिः पञ्चमीप्रवेशमङ्गला-
रम्भमिव सूचयन्तम्, अविरतचलनचित्रत्रिपदीललितलास्यलयैर्दोलाय-
मानदीर्घदेहाभोगवत्तया मेदिनीबिदलनभयेन भारमिव लघयन्तम्,
दिग्भित्तितटेषु कायमिव कण्डूयमानम्, आहवायोदस्तहस्ततया दिग्बार-
णानिवाह्वयमानम्, ब्रह्माण्डस्तम्भमिव स्थूलनिशितदन्तेन करपत्रेण
पाटयन्तम्, अमान्तं भुवनाभ्यन्तरे बहिरिव निर्गन्तुमीहमानम्; सर्वतः-

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in