हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)
Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary
by महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री
About this granth
The Harshacharita (हर्षचरितम्) is the seventh-century Sanskrit prose work of Banabhatta on the life and lineage of the emperor Harshavardhana, often called the first historical narrative (akhyayika) in Sanskrit. The introduction to this edition sets Bana's prose beside Kalidasa's verse and describes the Harshacharita as his first work, a prelude to the style he perfected in the Kadambari.
The work has eight chapters (ucchvasas). They begin with Sarasvati's descent under Durvasa's curse, Bana's Vatsyayana family and his visit to Harsha's court, then turn to Sthanvishvara and King Prabhakaravardhana, the births of his children, Rajyashri's marriage, the Huna campaign, the king's death and Queen Yashomati's self-immolation, Rajyavardhana's murder and Harsha's vow of conquest, and the search for Rajyashri in the Vindhya forest, where Harsha meets the monk Divakaramitra.
This is No. 36 of the Vidyabhawan Sanskrit Granthamala from Chowkhamba Vidya Bhawan, Varanasi, with Shankara's Sanskrit commentary Sanketa and a Hindi commentary by Pt. Jagannath Pathak of the Vaidyanath Dham Gurukul, Bihar. The scan of 506 pages contains the whole work.
६६ हर्षचरितम्
काल इति पूर्वोक्ते। अन्यथैतत्पुनरुक्तं स्यात्। पक्षपातो अक्षिर्यस्यास्ति सः,
पक्षैश्च यो याति सः। द्विजो विप्रः, विधुः, पक्षी च। युगारम्भा अपि चत्वारः।
अङ्गा वेदादि, जटा च मङ्गा। सचक्रस्य साधुवृन्दस्य नन्दकास्तोषयितारः। चक्रं
सुदर्शनं च। नन्दकः खङ्गश्च। बाहवोऽपि चत्वारः। अचलकुलस्थितिरभिन्नवर्षम-
र्यादः। अचलानां गिरीणां कुलैर्वृन्दैः स्थितिर्यस्य। चतुरुदधिवत्सैश्च गम्भीरः। अग्र-
जन्मानो द्विजाः। सोमस्तृणभेदः,
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inवाकिका, जाङ्गुलिको मयूरकः, ताम्बूलदायकश्चण्डकः, भिषक्पुत्रो मन्दा-
रकः, पुस्तकवाचकः सुदृष्टिः, कलादश्चामीकरः, हैरिकः सिन्धुषेणः,
लेखको गोविन्दकः, चित्रकृद्वीरवर्मा, पुस्तककृत्कुमारदत्तः, मार्दङ्गिको
जीमूतः, गायनौ सोमिलग्रहादित्यौ, सैरन्ध्री कुरङ्गिका, वांशिकौ मधुकर-
पारावतौ, गान्धर्वोपाध्यायो दर्दुरकः, संवाहिका केरलिका, लासकयुवा
ताण्डविकः, आक्षिक आखण्डलः, कितवो भीमकः, शैलालियुवा शिख-
ण्डकः, नर्तकी हरिणिका,
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in६८ हर्षचरितम्
बाण के उपनयन आदि संस्कार ब्राह्मण जाति की प्रथा के उचित और श्रुति.स्मृति के
विधानों के अनुसार हुए और उसका समावर्त्तन-संस्कार भी हो चुका। बाण की आयु
चौदह वर्ष की भी पूरी नहीं होने पाई थी कि उसके पिता भी बिना वृद्धावस्था को प्राप्त
हुए गत हो गए। पिता के मरने से उसे महान् शोक के कारण कष्ट हुआ और दिन-रात
हृदय में खोलते हुए उसने अपने घर पर कुछ दिन बिताए। धीरे धीरे जब उसका शोक
कम हुआ तब उसे वह स्वतंत्रता मिल गई जिससे अविनय या अनुशासनहीनता बढ़ती
गई। लड़कपन में स्वभाव
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inप्रथम उच्छ्वासः ६५
अथ शनैः शनैरत्युदारव्यवहृतिमनोहृन्ति बृहन्ति राजकुलानि वीक्ष-
माणः, निरवद्यविद्याविद्योतितानि गुरुकुलानि च सेवमानः, महार्हालाप-
गम्भीरगुणवद्गोष्ठीश्चोपनिष्ठमानः, स्वभावगम्भीरधीर्धनानि विदग्धमण्ड-
लानि च गाहमानः, पुनरपि तामेव वैपश्चितीमात्मवंशोचितां प्रकृतिम्-
भजत् । महतश्च कालात्तमेव भूयो
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inबहुमूल्य और गम्भीर आलाप करते थे। बाण स्वयं स्वभाव से गम्भीर था। उसने
राजकुलों से भी और विद्वानों के बीच रह कर
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inद्वितीय उच्छ्वासः
अतिगम्भीरे भूपे कूप इव जनस्य निरवतारस्य ।
दधति समीहितसिद्धिं गुणवन्तः पार्थिवा घटकाः ॥ १ ॥
रागिणि नलिने लक्ष्मीं दिवसो निदधाति दिनकरप्रभवाम् ।
अनपेक्षितगुणदोषः परोपकारः सतां व्यसनम् ॥ २ ॥
अथ तत्रानवरताध्ययनध्वनिमुखराणि, भस्मपुण्ड्रकपाण्डुरललाटैः
कपिलशिखाजालजटिलैः कृशानुभिरिव ऋतुलोभागतैर्बटुभिरभ्यास्यमा-
अतीत्यादि । यस्य क्रोधादिभाववर्गो
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in७२ हर्षचरितम्
नानि, सेकसुकुमारसोमके दारिकाहरितायमानप्रघनानि, कृष्णाजिनवि-
कीर्णशुष्यत्पुरोडाशीय श्यामाकतण्डुलानि, बालिकाविकीर्यमाणनीवारब-
लीनि, शुचिशिष्यशतानीयमानहरितकुशपूली पलाशसमिन्धि, इन्धनगो-
मयपिण्डकूटसंकटानि, आमिक्षोयक्षीरक्षारिणीनामग्निहोत्रधेनूनां खुरवल-
यैर्विलिखिताजिरवितर्दिकानि, कमण्डलव्यमृत्पिण्डमर्दनव्यग्रयतिजनानि,
वैतानवेदीशङ्कव्यानामौदुम्बरीणां शाखानां राशिभिः पवित्रितपर्यन्तानि
वैश्वदेवपिण्डपाण्डुरितप्रदेशानि,
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inद्वितीय उच्छ्वासः ७३
कटितपशुबन्धप्रबन्धनानि, शुकसारिकारुद्धाध्ययनदीयमानोपाध्यायविश्रा-
न्तिसुखानि, साक्षात्त्रयीतपोवनानीव चिरदृष्टानां बान्धवानां प्रीयमाणो
भ्रमन्भवनानि, बाणः सुखमतिष्ठत् ।
तत्रस्थस्य चास्य कदाचित्कुसुमसमययुगमुपसंहरञ्जृम्भत ग्रीष्मा-
भिधानः संफुल्लमल्लिकाधवलाट्टहासो महाकालः । प्रत्यग्रनिर्जितस्यास्तमु-
पगतवतो वसन्तसामन्तस्य बालापत्येष्विव पयःपायिषु नवोद्यानेषु दर्शि-
तस्नेहो मृदुरभूत् । अभिनवोदितश्च सर्वस्यां
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in७४ | हर्षचरितम्
नमोक्षमकरोत्प्रतपन्नुष्णसमयः। स्वयमृतुराजस्याभिषेकार्द्राश्चामरकलापा
इवागृह्यन्त कामिनीचिकुरचयाः कुसुमायुधेन, हिमदग्धसकलकमलिनी-
कोपेनेव हिमालयाभिमुखीं यात्रामदादंशुमाली।
अथ ललाटंतपे तपति तपने चन्दनलिखितललाटिकापुण्ड्रकैरलकची-
रचीवरसंवीतैः स्वेदोदबिन्दुमुक्ताक्षवलयवाहिभिर्दिनकराराधननियमा
इवागृह्यन्त ललनाललाटेन्दुद्युतिभिः। चन्दनधूसराभिरसूर्यंपश्याभिः कुमु-
दिनीभिरिव दिवसमसुप्यत सुन्दरीभिः। निद्रालसा रत्नालोकमपि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inभिनन्दिताः सरित इव तनिमानमानीयन्त सोडुपाः शर्वर्यः। अभिनव-
पटुपाटलामोदसुरभिपरिमलं न केवलं जलम् , जनस्य पवनमपि पातु-
मभूदभिलाषो दिवसकरसंतापात् ।
क्रमेण च खरखसमयूखे, खण्डितशैशवे, शुष्यत्सरसि, सीदत्स्रोतसि,
मन्दनिर्झरे, झिल्लिकाझांकारिणि, कातरकपोतकूजितानुबन्धबधिरितविश्वे,
श्वसत्पतत्रिणि, करीषकषमरुति, विरलवीरुधि, रुधिरकुतूहलिकेसरिकि-
शारकलिह्यमानकठोरघातकीस्तबके, ताम्यत्स्तम्बेरमयूथवमथुतिम्यन्महा-
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in७६ हर्षचरितम्
मर्मरितगर्मुति, तप्तपांशुकुकूलकातरविकिरे, विवरशरणश्वाविधे, तटार्जुन-
नकुररकूर्जाज्वरविवर्तमानोत्तानशफरशारपंकशेषपल्वलम्भसि, दावजनित-
जगन्नीराजने, रजनीराजयक्ष्मणि, कठोरीभवति निदाघकाले, प्रतिदिश-
माटीकमाना इवोषरेषु प्रपावाटकूटीपटलप्रकटलुण्ठकाः, प्रपञ्चकपिकच्छू-
न्दूरा इव। लोहितत्वात्। ग्रामस्य ग्रामान्तरेण मर्यादा सीमा। स्यन्दः स्रुतिः। विलि-
ख्यमाना विपाट्यमानाः। मर्मरिताः शुष्कत्वेन शब्दायमानाः। गर्मुतो लताः। कुकूलं
तुषाग्निः। विकिराः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inद्वितीय उच्छ्वासः ७७
गुच्छक्रूच्छूटालोटनचापलैरेकाण्डकण्डूला इव कर्षन्तः शर्करीला कर्कस्थलीः
स्थूलदृषच्चूर्णमुचः, मुचुकुन्दकन्दलदलनदन्तुराः, संततपनतापमुखर-
चीरीगणमुखशीकरशीक्यमानतनवः, तरुणतरतरणितापतरले तरन्त इव
तरङ्गिणि मृगतृष्णिकातरङ्गिणीनामलोकवारिणि, शुष्यच्छमीमर्मरमारब्ध-
मार्गल्लङ्घनलाघवजवजङ्घालाः, रैणवावर्त्तमण्डलीरेचकरासरसरभसारब्ध-
नर्तनाम्भारभटीनटाः, दावदग्धस्थलीमषीमिलनमलिनाः, शिक्षितक्षपण-
कण्डूदायको द्रव्यभेदः। अत एवाह—कर्षन्त इति।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in७८ हर्षचरितम्
कवृत्य इव वनमयूरपिच्छकुचयानुञ्चिन्वन्तः, सप्रयाणगुञ्जा इव शिञ्जान-
जरत्करञ्जमञ्जरीबीजजालकैः, सप्ररोहा इवातपातुरवनमहिषनासानिकुञ्ज-
स्थूलनिःश्वासैः, सापत्या इवोड्डीयमानजवनवातहरिणपरिपाटीपेटकैः,
सभ्रुकुटयइव दह्यमानखलधानबुसकूटकुटिलधूमकोटिभिः, सावीचिबीचय
इव महोष्ममुक्तिभिः, लोमशा इव शीर्यमाणशाल्मलिफलतूलतन्तुभिः,
दद्रुणा इव शुष्कपत्रप्रकराकृष्टितिभिः, शिराला इव तृणवेणीविकरणैः, उच्छ्र-
मश्रव इव धूयमाननवयवशूकशकलशङ्कुभिः, दंष्ट्राला इव
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inद्वितीय उच्छ्वासः ७६
सूचीशखैः, जिह्वाला इव वैश्वानरशिखाभिः, उत्सर्पत्सर्पकञ्चुकैश्चूडाला
इव ब्रह्मस्तम्भरसाभ्यवहरणाय कवलग्रहमिबोष्णैः कमलवनमधुभिरभ्य-
स्यन्तः सकलसलिलोच्छोषणघर्मघोषणाघोरपटहैरिव शुष्कवेणुवनास्फो-
टनपटुरवैस्त्रिभुवनबिभीषिकामुद्भावयन्तः, च्युतचपलचाषपक्षश्रेणीशारि-
तसृतयः, त्विषिन्मन्मयूखलतालातप्लोषकल्माषवपुष इव स्फुटितगुञ्जाफल-
स्फुलिङ्गाङ्गारारङ्गिताङ्गाः, गिरिगुहागम्भीरझांकारभीषणभ्रान्तयः, भुवनभ-
दद्रुयुक्ता भवन्ति । शिरालाः प्रकटस्नायवः । उन्मत्ता
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in८० हर्षचरितम्
स्मीकरणाभिचारचरुपचनचतुराः, रुधिराहुतिभिरिव पारिभद्रद्रुमस्तबक-
वृष्टिभिस्तर्पयन्तस्तारवान्वनविभावसून् , अशिशिरसिकताताराकितरंहसः,
तप्तशैलविलीयमानशिलाजतु रसलबलिप्रदिशः, दावदहनपच्यमानचटका-
ण्डखण्डखचिततरुकोटरकीटपटलपुटपाकगन्धकटवः, प्रावर्त्तन्तोन्मत्ता
मातरिश्वानः ।
सर्वतश्च भूरिभस्त्रासहस्रसंधुक्षणक्षुभिता इव जरठाजगरगम्भीरगल-
गुहावाहिवायवः, क्वचित्स्वच्छन्दतृणचारिणो हरिणाः, क्वचित्तरुतलवि-
पतन्ति ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inद्वितीय उच्छ्वासः ८१
बरविवर्तिनो बभ्रवः, क्वचिज्जटावलम्बिनः कपिलाः, क्वचिच्छकुनिकुल-
कुलायपातिनः श्येनाः, क्वचिद्विलीनलाक्षारसरोहितकछवयोधराः, क्वचि-
दासादितशकुनिपक्षकृतपटुगतयो विशिखाः, क्वचिद्दग्धनिःशेषजन्महेतवो
निर्वाणाः, क्वचित्कुसुमवासिताम्बरसुरभयो रागिणः, क्वचित्सधूमोद्गारा
मन्दरुचयः, क्वचित्सकलजगद्ग्रासघस्मराः सभस्मकाः, क्वचिद्वेणुशिख-
रलग्नमूर्तयोऽत्यन्तवृद्धाः, क्वचिदचलोपयुक्तशिलाजतवः क्षयिणः, क्वचि-
त्सर्वरसभुजः पीवानः, क्वचिद्दग्धगुग्गुलवो रौद्राः,
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in८२ : हर्षचरितम्
नदग्धसकुसुमशरमदनाः कृतस्थाणुस्थितयः, चटुलशिखानर्तनारम्भार-
भटीनाः, क्वचिच्छुष्ककासारसृतिभिः स्फुटन्नीरसनीवारबीजलाजवर्षि-
भिर्ज्वालाञ्जलिभिरर्चयन्त इव घर्मघृणिम् , अघृणा इव हठहूयमानकठोर-
स्थलकमठवसाविस्रगन्धगृध्नवः, स्वमपि धूममम्भोदसमुद्भूतिभियेव
भक्षयन्तः सतिलाहुतय इव स्फुटद्बहलबालकीटपटलाः कच्छेषु, श्वित्रिण
इव प्लोषविचटद्वल्कलधवलशम्बूकशुक्तयः, शुष्केषु सरःसु, स्वेदिन इव
विलीयमानमधुपटलगोलगलितमधूच्छिष्टवृष्टयः काननेषु,
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inद्वितीय उच्छ्वासः ८३
परिशीर्यमाणशिखासंहतयो महोषरेषु, गृहीतशिलाकवला इव ज्वलितसू-
र्यमणिशकलेषु शिलोच्चयेषु, प्रत्यदृश्यन्त दारुणा दावाग्नयः ।
तथाभूते च तस्मिन्नत्युग्रे ग्रीष्मसमये कदाचिदस्य स्वगृहावस्थि-
तस्य भुक्तवतोऽपराह्णसमये भ्राता पारशवश्चन्द्रसेनानामा प्रविश्याकथ-
यत्—'एष खलु देवस्य चतुःसमुद्राधिपतेः सकलराजचक्रचूडामणिश्रेणी-
शाणकोणकषणनिर्मलीकृतचरणनखमणेः सर्वचक्रवर्तिनां धौरेयस्य महा-
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in८४ हर्षचरितम्
ग्रन्थिम्, अतिनिबिडसूत्रबन्धनिनिम्रितान्तरालकृतलेखव्यवच्छेदया लेख-
मालिकया परिकलितमूर्धानम्, प्रविशन्तं लेखहारकमद्राक्षीत्। अप्राक्षीच्च
दूरादेव—'भद्र, भद्रमशेषभुवननिष्कारणबन्धोस्तत्रभवतः कृष्णस्य ?'
इति। स 'भद्रम्' इत्युक्त्वा प्रणम्य नातिदूरे समुपाविशत्। विश्रान्तश्चा-
ब्रवीत्—'एष खलु स्वामिना माननीयस्य लेखः प्रहितः' इति विमुच्या-
र्पयत्। बाणस्तु सादरं गृहीत्वा स्वयमेवावाचयत्—'मेखलकात्संदिष्टम-
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inद्वितीय उच्छ्वासः ८५
त्वयि तु बिना कारणेनादृष्टेऽपि प्रत्यासन्ने बन्ध्वाविव बद्धपक्षपातं किमपि
स्निह्यति मे हृदयं दूरस्थेऽपीन्दोरिव कुमुदाकरे । यतो भवन्तमन्तरेणा-
न्यथा चान्यथा चायं चक्रवर्ती दुर्जनैर्ग्राहित आसीत् । न च तत्तथा ।
न सन्त्येव ते येषां सतामपि सतां न विद्यन्ते मित्रोदासीनशत्रवः ।
शिशुचापलापराचीनचेतोवृत्तितया च भवतः केनचिदसहिष्णुना यत्किं-
चिदसद्दशमुदीरितम् । इतरो लोकस्तथैव तद्गृह्णाति वक्ति च । सलिलानीव
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in