Skip to content
SarvaKosh
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

by महाकवि दण्डी

Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)

DevanagariHindipublished474 pages

Page 346 of 474

Read in context
Page 346

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
३४६ दशकुमारचरितम् । [ उत्तरपीठिकायां
कारिणीकृता श्वभ्यः पाचिका। कृतश्च धन्यकः प्रसादभूमिः। तद्ब्रवीमि—
'स्त्रीहृदयं क्रूरम्' इति।
(२६) पुनरनुयुक्तो गोमिनीवृत्तान्तमाख्यातवान् - 'अस्ति द्रविडेषु
काञ्ची नाम नगरी। तस्यामनेककोटिसारः श्रेष्ठिपुत्रः शक्तिकुमारो नामा-
सीत्। सोऽष्टादशवर्षदेशीयाश्चिन्तामापेदे—'नास्त्यदाराणामननुगुणदा-
राणां वा सुखं नाम। तत्कथं नु गुणवद्विन्देयं कलत्रम्' इति। अथ परप्र-
त्ययाहृतेषु दारेषु यादृच्छिकीं संपत्तिमभिसमीक्ष्य कार्तान्तिको नाम
मुखं यस्याः सा। सा धूमिनी। दुष्कृतकारिणी-असदाचारा। श्वभ्यः कुक्कुरे-
भ्यः। पाचिका पाककर्त्री। हीनकर्मणि नियुक्तेत्यर्थः। प्रसादभूमिः अनुग्रहपात्रम्।
(२६) अनुयुक्तः पृष्टः। आख्यातवान् वर्णितवान् मित्रगुप्त इति शेषः।
द्रविडेषु मद्रमण्डलान्तर्गतदेशविशेषेषु। तस्यां-काञ्चीनगर्याम्। अनेककोटिसारो
बहुकोटिसंख्यकमूलधनवान्। श्रेष्ठिपुत्रः वणिक्तनयः। अष्टादशवर्षदेशीयः
अष्टादशवर्षवयस्कः। आपेदे-प्राप्तवान्। अदाराणामपत्नीकानाम्। अननुगु-
णेति—अननुगुणाः प्रतिकूला दारा येषां तथाभूतानाम्। सुखं नाम नास्ति—
'न गृहं गृहमित्याहुर्गृहिणीगृहमुच्यते' 'भार्या चाप्रियवादिनी' इत्याद्युक्तेः-
गृहस्थानां भार्याभावे तत्सत्त्वेऽपि तस्याः प्रतिकूलत्वे च गृहसौख्यस्यासम्भव इति
प्रसिद्धमिति भावः। तत् तस्मात्। कथं केन प्रकारेण। गुणवत्-गुणवतीम्।
विन्देयं लभेय। कलत्रं भार्याम्। परेति-परस्यान्यस्य प्रत्ययेन विश्वासेन आहृतेषु
संगृहीतेषु परिणीतेषु इति यावत्। दारशब्दस्य पुंलिङ्गत्वात् बहुवचनान्तत्वाच्चात्र
पुंलिङ्गत्वं बहुवचनञ्च। यादृच्छिकीं स्वेच्छानुरूपां सम्पत्तिं प्रीतिम्। अनभि-
धूमिनीको कुत्सितांगी करके कुत्तोंकी पाचिका (भोजन बनानेवाली) नियुक्त
किया। धन्यकको अपना कृपापात्र बनाया। अतएव कहता हूँ कि 'स्त्रीका चित्त
निष्ठुर होता है'।
(२६) तत्पश्चात् उस ब्रह्मराक्षसद्वारा पूछे जानेपर मैने (मित्रगुप्तने) गोमिनीवृत्त-
वर्णन करना आरम्भ किया। 'द्रविड़ प्रदेशमें एक कांची नामकी नगरी है उस कांची
नगरीमें कोई करोड़ोंकी सम्पत्तिवाला शक्तिकुमार नामक एक वैश्यपुत्र रहता था। वह
जब अठारह वर्षका हुआ तब विचारने लगा कि बिना स्त्रीके भी सुख नहीं होता तथा
बिना गुणवती स्त्रीके भी सुख नहीं होता है। इसलिये कैसे गुणवती स्त्री प्राप्त की जाय?
दूसरे पर विश्वास करूं तो उसके द्वारा गुणवती आत्मानुकूल मिले या न मिले—विवाहके
पश्चात् कुछ नहीं कर सकता। अतः हस्तरेखाविद् (लक्षणज्ञ) का वेष बनाकर वह
Nepal Sanskrit University, Balmeeki Campus, Kathmandu