दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
by महाकवि दण्डी
Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)
Page 266 of 474
Read in context२६६ दशकुमारचरितम् । [ उत्तरपीठिकायां
श्चाद्य तारावलीत्यभूवम् ।
(८) बालश्च किल शूद्रकावस्थे त्वय्यार्यदासयवस्थायां मय्युदभूत् ।
अवर्धत च विनयवत्या स्नेहवासनया । स तु तस्यां कान्तिमत्यवस्थाया-
मद्योदभूत् । एवमनेकमृत्युमुखपरिभ्रष्टं दैवान्मयोपलब्धं तमेकपिङ्गादेशा-
द्वने तपस्यतो राजहंसस्य देव्यै वसुमत्यै तत्सुतस्य भाविचक्रवर्तिनो राज-
वाहनस्य परिचर्यार्थं समर्प्य गुरुभिरभ्यनुज्ञाता कृतान्तयोगात्कृतान्तमुख-
भ्रष्टस्य ते पादपद्मशुश्रूषार्थमागतास्मि' इति ।
अद्य पुनरिदानीन्तु तारावलीनाम्नाहमभूवम् । आर्यदास्येव जन्मान्तरे तारावल्य-
भवदिति भावः ।
(८) बालः-पूर्ववर्णितः शिशुः शूद्रकावस्थे-शूद्रकरूपधारिणि । त्वयि-
कामपाले इत्यर्थः । आर्यदास्येति-आर्यदासीरूपायाम् । मयि-तारावल्यामित्यर्थः ।
उदभूत्-उत्पन्नः । अवर्धत पोषितोऽभवत् विनयवत्या-शूद्रकस्य प्रथमपत्न्या ।
स्नेहवासनया-वात्सल्यभावेन स तु-स एव बालकः । तस्यां विनयवत्याम् । का-
न्तिमत्यवस्थायां या खलु शूद्रकावस्थायां विनयवती सैवास्मिञ्जन्मनि कामपाला-
वस्थायां कान्तिमती जातेत्यर्थः । एवम्-अनेन प्रकारेण । अनेकेति अनेकाद् बहो-
र्मृत्युमुखात्कृतान्तवदनात्परिभ्रष्टं च्युतम् । तमित्यस्य विशेषणम् । दैवात् दैवसं-
योगात् । मया-तारावल्या । उपलब्धं प्राप्तम् । तं बालम् । एकपिङ्गादेशात्-कुबेरा-
ज्ञया । तपस्यतः तपस्यां कुर्वतः । देव्यै-महिष्यै । गुरुभिः पित्रादिभिः । अभ्यनु-
ज्ञाता-आदिष्टा । कृतान्तयोगाद् दैववशात् । कृतान्तमुखभ्रष्टस्य-यममुखाद्विनिर्ग-
तस्य कृतान्तो यमसिद्धान्तयोरिति कोषः । ते-तव-कामपालस्येति यावत् । इत्य-
न्तं तारावलीवचनम् ।
अग्निकी साक्षी दे करके आपने विवाह किया था वही आर्यदासी हुई और वही इस समय
तारावली नामक मैं हूँ ।
(८) जब मैं आर्यदासी थी और आप शूद्रक थे उस अवस्थामें यह पुत्र मुझसे
उत्पन्न हुआ था । विनयवतीद्वारा यह बालक स्नेहसे पालन-पोषण किया गया । वही
पुत्र इस समय कान्तिमती अवस्थामें उत्पन्न हुआ । इसी रीतिसे अनेक वार मृत्युके
मुखसे बच करके यह बालक भाग्यवश मुझे प्राप्त हुआ है । उस बालकको राजराज कुवेरके
आदेशसे राजहंसके भावी पुत्र चक्रवर्त्ती राजवाहनकी परिचर्याके लिये राजहंसकी देवीको
समर्पण कर दिया है जो राजवाहन इस समय वनमें तपस्या कर रहे हैं। गुरुवर्गकी
आज्ञानुसार दैववश मैं यमराजके मुखसे बच करके आपके चरण-कमलोंकी सेवाके हेतु
यहाँ पर आयी हूँ ।
Nepal Sanskrit University, Balmeeki Campus, Kathmandu