दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
by महाकवि दण्डी
Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)
Page 232 of 474
Read in context२३२ दशकुमारचरितम् । [ उत्तरपीठिकायां
दसौ वरवर्णिनी । सा च कदाचिन्मद्विलोड़नासहिष्णुर्मामशपत्—'एहि
मर्त्यत्वम्' इति । अशप्यत मया च—'यथेह बहुभोग्या तथा प्राप्यापि
मानुष्यकमनेकसाधारणी भव' इति । अभ्यर्थितश्चानया 'एकपूर्वा पुन-
स्त्वामेवोपचर्य यावज्जीवं रमय' इति । तदयमर्थो भव्य एव भवता निरा-
शङ्क्यः' इति । प्रतिबुध्य च प्रीतियुक्तस्तदहरपि प्रियासङ्केतव्यतिकरादि-
स्मरणेनाहमनैषम् ।
असौ वरवर्णिनी-कल्पसुन्दरी । सा-सुरसरित् । कदाचिदेकदा । मद्विलोड़नासहि-
ष्णुः-मया यद् विलोडनं क्रीडार्थमालोडनं तत्रासहिष्णुरसहनशीला । मां गजानन-
मित्यर्थः। अशपत्-शापं दत्तवती । एहि प्राप्नुहि । मर्त्यत्वं-नरत्वम् । अशप्यत-
मयापि तस्यै शापो दत्तः । यथा येन रूपेण । इह स्वर्गे । बहुभोग्या-नदीत्वेन
स्नानपानादिभिरनेकजनसेव्या । तथा तेनैवरूपेण । मानुष्यकं नरजन्म ।
अनेकसाधारणी-अनेकभोग्या । अभ्यर्थितः-याचितोऽहमिति शेषः । अनया
गङ्गया । एकपूर्वा-पूर्वमेकेन भुक्ता सती । पुनः-अनन्तरम् । त्वां द्वितीयमित्यर्थः।
उपचर्य-सेवित्वा । यावज्जीवं आयुष्कालं यावत् । रमेय-क्रीडां कुर्याम् । तत्
तस्मात् कारणात् । अयमर्थः विषयः कल्पसुन्दरीग्रहणरूपः । भव्यः क्षेमकरः ।
निराशङ्क्यः-नाशङ्कनीयः । प्रतिबुध्य-जागरित्वा । प्रीतियुक्तः-प्रफुल्लमनाः ।
तदहः तद्दिनम् । प्रियेति-प्रियायाः कल्पसुन्दर्याः सङ्केतव्यतिकरादीनां इङ्गितसम्मे-
लनादीनां स्मरणेन चिन्तनेन अनैषम्-अयापयम् ।
अवताररूपमें प्रकट हुए हो । और यह उत्तमा कल्पसुन्दरी शङ्कर [] भगवान्के जटाजूटमें
सदा रहनेवाली गङ्गा नदी है । उस गङ्गा नदीने किसी समयमें, जब मैं उसके प्रवाहको
अपनी सूँड़से विलोड़ित कर रहा था, मुझे शाप दे दिया था कि '(हे गणेश !) तुम
नरत्वको प्राप्त हो।' मैंने भी उस गङ्गा नदीको शाप दे दिया था कि '(हे गङ्गे !)
जैसे तुम यहाँ स्वर्गमें बहुत जनोंसे उपभोग की जाती हो वैसे ही मृत्युलोकमें भी जा
करके अनेक लोगोंद्वारा स्नानादिसे उपभोगित हो।' तदनन्तर उस गङ्गाने मुझसे प्रार्थना
की कि '(हे गणेश !) मैं पूर्वमें एकसे उपभोगित हो करके पुनः यावदायु तुम्हारे साथ
ही रमण करूँ।' इस कारणसे यह कल्पसुन्दरी रानीका ग्रहणरूप व्यापार कल्याणकारी
है। इसमें शंका मत करो।" मैंने जाग करके वह दिन प्रिया कल्पसुन्दरीके संकेतादि
स्मरण करनेमें बिता दिया ।
[] नोट:—यहां भी अन्य पुस्तकसे पाठभेद है जो संस्कृतमें दर्शा दिया गया है।
हिन्दीमें भी देखिये—
एक समय श्रीगणेशजी अपनी सूँड़से गंगाजीके प्रवाहमें जलक्रीड़ा कर रहे थे । उस समय