Skip to content
SarvaKosh
Back to the archive

बार्हस्पत्य सूत्र / अर्थशास्त्र (महर्षि बृहस्पति - प्राचीन दण्डनीति, राजधर्म एवं कूटनीति सटीक)

Brihaspati Sutra or Barhaspatya Rajanitishastra with Commentary

by महर्षि बृहस्पति (सम्पादक: डॉ. एफ. डब्ल्यू. थॉमस)

DevanagariHindipublished100 pages

२. तृतीयाध्याय एवं चतुर्थाध्याय: षाड्गुण्य नीति, साम-दाम-भेद-दण्ड एवं दुर्ग-व्यवस्था

Page 46Permalink

१४ बार्हस्पत्यसूत्रम् ।
दुर्जनमध्ये सूर्यवत् प्रकाशते सुजनः ३६ ॥६७॥
अधर्मव्यवस्थितान् ३७ न्यायवृत्तेन वारयेत् ॥६८॥
अधर्मं नार्जयेत् ॥६९॥
अकीर्तिं नार्जयेत् ॥७०॥
न मारयेत् ॥७१॥
लोला निवार्यतां ३८ धर्मपाठाङ्कुशेन गज इव ॥७२॥
गुरुवचनमलङ्घनीयं नयानुगतं चेत् ३९ ॥७३॥
गुरुमपि नीतिवियुक्तं निरासयेत् ॥७४॥
गुरुराहेति ॥७५॥
इति बार्हस्पत्यसूत्रे द्विती[१०क]योऽध्यायः ॥
36. W सुधर्मः । 37. M ०स्थिता । 38. M ०तामधर्० ।
39. W गतश्चे ।

Page 47Permalink

[ तृतीयोऽध्यायः । ]
जितक्लेशस्य पौरुषम् ॥१॥
देशान्तरवासेन जितक्लेशो भवति ॥२॥
सर्वबलकालदेशसामप्रकृतिसहायामयवसां ज्ञानं कार्यम् ॥३॥
उपवासादि‍सहिष्णुत्वं च ॥४॥
सुगन्धवासान् कोशान् कुर्यात् ॥५।
बहुवादं मधुरमेव कुर्यात् ॥६॥
१शमबुद्धीन् मणीन् सर्वान् सदाराधयेत् ॥७॥
नवानि मन्त्राणि विद्यात् ॥८॥
त्रिविधानि शाक्ता वैष्णवा २ शैवानि तत[१०ख]प्रभिन्नानि ३ ॥९॥
मोक्षपुर्या ४ द्वारं त्रयम् ॥१०॥
शाक्ता वैष्णवाः शैवाः ॥११॥
पोतयानमार्गवच्छाक्तम् ५ ॥१२॥
महापथवद्वैष्णवम् ॥१३॥
केवलप्रथानिकमश्वरथयानवत् ॥१४॥

  1. W ०द्धिः; W read समबुद्धीन् । 2. Sic M W. 3. W here
    inserts च । 4. M ०पूर्वान् । 5. W om. शाक्तं and sûtras
    13-15.
Page 48Permalink

१६ बार्हस्पत्यसूत्रम् ।
लौकायतिकक्षपणकबौद्धादि बहुशार्दूलदुष्टमृगाकीर्णशून्या-
टवीगुहामार्गवत् ॥१५॥
एतन् निरूप्यैकमाश्रयेत्^६ ॥१६॥
ज्योतिर्नाथस्थितं सदा निरूपयेत् ॥१७॥
चातुर्वर्ण्यं रक्षेच्च ॥१८॥
औषधानि सेवेत च ॥१९॥
बलवर्णतेजोमदबुद्धिशौर्यदयावर्धनानि दोषधातुशमानि^७ ॥२०॥
दानमानालङ्कारविद्याभिः सिद्धिं लभेत ॥२१॥
अष्टादश तीर्थानि निरूपयेत् ॥२२॥
षट् प्रकृतयस्तीर्थं^८ शत्रुमित्रोदासीना[११क]श्च^९ ॥२३॥
अन्तः शत्रुरन्तर्मित्रोऽन्तरुदासीन^१० इति^११ तेऽप्यनुजीविसखि-
सुहृदश्च ॥२४॥
भार्यापुत्रबान्धवाश्च ॥२५॥
अन्येऽपि देवालयनृत्तयागभूम

Page 49Permalink

तृतीयोऽध्यायः । १७
शृङ्गारवेषं कुर्यात् ॥२८॥
पुरद्वारे १८सर्वानिरोधनं कार्यम् ॥२९॥
सर्वान्न निशेष[११ख]येच्च ॥३०॥
इतिहासपुराणानि मानयेत् ॥३१॥
तत् पाकांश्च ॥३२॥
शाक्तागमांश्च ॥३३॥
१९वैखानसागमांश्च ॥३४॥
सांख्यांश्च ॥३५॥
शैवांश्च ॥३६॥
सर्वानपि स्वाध्यायं कुर्यात् कारयेच्च ॥३७॥
ब्राह्मणं न हन्यादोषदुष्टमपि ॥३८॥
निर्द्दयस्य २०दया कर्तव्या ॥३९॥
ग्रामणीन् सम्भावयेत् ॥४०॥
नगेन्द्रांश्च २१॥४१॥
दुर्बलमपि २२साम कुर्यात् ॥४२॥
दानेन बहु ॥४३॥
न स्वल्पञ्च ॥४४॥
नोत्तमेषु गुणबाहुल्यक्रमेण ॥४५॥


  1. W सर्वान् । 19. W omits न । 20. W ऽस्या ।
  2. W नृं । (for न्द्रां) । 22. W अपि स कु ।
Page 50Permalink

१८ बार्हस्पत्यसूत्रम् ।
अक्षैर्दी²³व्येत् ॥४६॥
नैव²⁴ दीव्याच्च ॥४७॥
सर्पादीन् हन्यात् ॥४८॥
उत्तमान्नानामन्त्र²५सिद्धान् [१२क] विद्याबहुलान् द्विजान् मान-
येत् ॥४९॥
अन्यराष्ट्रजान् द्विजान् क्षत्रबन्धून् कुमारसामन्तादीनात्मवत्
सम्भावयेद्भो²⁶जनाच्छादनादिभिः ॥५०॥
शरणागतं सर्वपातकयुक्तमपि²⁷ रक्षेत् ॥५१॥
दुष्टनिग्रहं कुर्यात् ॥५२॥
शिष्टपरिपालनञ्च ॥५३॥
ग्रामं न बाधेत ॥५४॥
नगरञ्च ॥५५॥
देवालयानि च ॥५६॥
आसवानि²⁸ सेवयेत् ॥५७॥
अति न ॥५८॥
मांसानि च ॥५९॥
घृणा कार्या ॥६०॥

  1. W डि० । 24. Sic M W. 25. W नमन्त्र० । 26. M
    interpunctuates here and not after ०नादिभिः । 27. W
    सर्वपट्टत० । 28. Sic W M (for ०वान् ?)
Page 51Permalink

तृतीयोऽध्यायः । १८
बौद्धादयो न ॥६१॥
अग्राया न ॥६२॥
मत्तकाशिन्यः सेव्याः ॥६३॥
पञ्चाशत्कोटियोजना पृथिवी ॥६४॥
सप्तद्वीपवती च ॥६५॥
सप्तसमुद्रावृता च ॥६६॥
कर्मभोगाति²⁹[१२ख]भोगदिव्यशृङ्गारसिद्धकैवल्या इति द्वीपा-
भिधानाः ॥६७॥
मध्यः कर्मभूमिः ॥६८॥
तन्मध्ये गेरोराजम्बूः³⁰ ॥६९॥
तत्रोत्तरे हिमवान् ॥७०॥
तस्य दक्षिणे नवसाहस्री भूः ॥७१॥
तत्र दाक्षिणासो³¹ भारतः खण्डः ॥७२॥
तत्र साक्षाद्धर्माधर्मफलाः सिध्यन्ति ॥७३॥
तत्र दण्डनीतिः ॥७४॥
पूर्वभारतीयैःपठितव्यः भविष्यैर्वर्तमानैश्च चातुर्वर्णिकैश्च ॥७५॥
दण्डनीत्या भगवान् भानुर्नृपतिः³² ॥७६॥
29. W omits गा । 30. Corrupt, reading doubtful.
31. W ०न्त्यो । 32. W ०तिं ।

Page 52Permalink

२० बार्हस्पत्यसूत्रम् ।
वायुश्च सर्वे^३३ देवाश्च ॥७७॥
जन्तवश्च ॥७८॥
सहस्रयोजना बदारिकासेत्वन्ता ॥७९॥
द्वारकादिपुरुषोत्तम[१३क]सालग्रामान्ता सप्तशतयोजना^३४ ॥८०॥
तत्रापि रैवतक^३५ विन्ध्यसह्यकुमारमलयश्रीपर्वतपारियात्राः सप्त-
कुलाचलाः^३६ ॥८१॥
गङ्गासरस्वतीकालिन्दीगोदावरीकावेरीताम्रपर्णीघृतमाला[:]
कुलनद्यश्च ॥८२॥
अष्टादश विषयाश्च ॥८३॥
अष्टादश सागरा नृपाः ॥८४॥
अष्टादश पार्वतीयाः ॥८५॥
रामसृष्टिश्चत्वारिंशच्छतं दक्षिणोत्तरे आसह्यं^३७ द्वादश विश्वा-
मित्रसृष्टिरेकादश ॥८६॥
नेपालं^३८ चतुःशतम् ॥८७॥
पूर्वसमुद्रतीरे वरुणातःसमुद्रान्तमष्टयोज[१३ख]ना ॥८८॥
पञ्चशतद्वितयमुत्तरलाटं पूर्वलाटञ्च ॥८९॥
काशीपाञ्चालद्वितयमशीतिः ॥९०॥


  1. W सर्व । 34. W ०नां । 35. W omits क । 36. W ०लां । 37. ०ह्या । 38. M omits ल; W has ०लक्ष्ण ।
Page 53Permalink

तृतीयोऽध्यायः । २१
केकयस्रञ्जयं<sup>३९</sup> षष्टिः ॥६१॥
मात्स्य<sup>४०</sup>मागधं<sup>४१</sup> शतम् ॥६२॥
मालवशकुन्तमशीतिः ॥६३॥
कोसलावान्तिः षष्टिः ॥६४॥
सैन्ध<sup>४२</sup> वैदर्भद्वितयं शतद्वितयम् ॥६५॥
वैदेह<sup>४३</sup>कौरवं शतम् ॥६६॥
काम्बोजदशार्णमशीतिः ॥६७॥
एते महाविषयाः ॥६८।
एते खलु चतुरश्राः ॥६९॥
आरट्टबाह्लीकौ<sup>४४</sup> दक्षिणोत्तरतः<sup>४५</sup> शतमात्रौ पूर्वपश्चाद्<sup>४६</sup> द्वा-
दशौ ॥१००॥
शाकसौराष्ट्रौ चतुरश्रौ चत्वारिंशत् ॥१०१॥
अङ्गवङ्गकलिङ्गा[१.४क]ः शटमात्राश्चतुरश्राश्च<sup>४७</sup> ॥१०२॥
काश्मीरहूणाम्बष्ठसिन्धवः<sup>४८</sup> शतमात्राश्चतुरश्राश्च ॥१०३॥
किरातसौवीरचोलपाण्ड्या<sup>४९</sup> उत्तरे दक्षिणे स्थिताः शतात्
परं षष्टिमात्राः<sup>५०</sup> ॥१०४॥

  1. W ०य । 40. W माद्य० । 41. W ०तः । 42. Sic.
  2. W श्व । 44. W ०ल्हि० । 45. W ०त्तरः । 46. W ०पश्वा ।
  3. W ०त्रं । 48. W काइमीहूणाम्बषुसिन० । 49. W किरामत० ।
  4. W ०त्रा ।
Page 54Permalink

२२ बार्हस्पत्यसूत्रम् ।
यादवकाञ्चीविषयं चत्वारिंशच्छतमात्रम् ॥१०५॥
एते उपविषयाः ॥१०६॥
सप्तकोङ्कणाश्चतुःशतमात्रा द्वादश †षट्राष्ट्रौ† च ॥१०७॥
एते अनूपाः ॥१०८॥
सह्याद्रौ चत्वारो गिरिविषयाः ॥१०९॥
श्रीपर्वते द्वयम् ॥११०॥
रैवतक एकः ॥१११॥
विन्ध्ये पञ्च ॥११२।
कुमारे एकम् ॥११३।
[१४ ख] महेन्द्रे त्रयम् ॥११४॥
पारियात्रे त्रयम् ॥११५॥
सर्वे दक्षिणोत्तरतः पञ्चाशन्मात्राः पूर्वतःपश्चात् पञ्च-
योजनाः समाः ॥११६॥
म्लेच्छे यवनविषयाः पार्वतीयाः ॥११७॥
ग्रामनगरोद्यानादिभिरलंकृताः पुण्यक्षेत्रादिभिश्च ॥११८॥
अष्ट वैष्णवक्षेत्राः ॥११९॥

  1. W omits श्री । 52. W व्य । 53. W स्त० । 54. W च
    षटष्टौ च । 55. W आनु० । 56. W एकाः, M एका । 57. W
    पञ्चश्० । 58. W ग्रामौह रो० । 59. Sic (Masc.) here and in
    the sûtras 122, 125. 60. W ० नन्तं सिं० ।
Page 55Permalink

तृतीयाऽध्यायः । २३
बदरिकासालग्रामपुरुषोत्तमद्वारकाबिलवाचलानन्तसिंह्⁶⁰ श्री-
रङ्गाः ॥१२०॥
—
अष्टौ शैवाः ॥१२१॥
⁶¹अविमुक्त[ क ]गङ्गाद्वारशिवक्षेत्ररामेयमुनाशिवसरस्वतीमध्य-
⁶²शार्दूलगजक्षेत्राः ॥१२२॥
शाक्ता अ[१५ क]ष्टौ च ॥१२३॥
⁶³†ओध्रीण† जालपूर्णकामकोष्ठश्रीशैलकाञ्चीमहेन्द्राः ॥१२४॥
⁶⁴एते महाक्षेत्राः ॥१२५॥
सर्वसिद्धिकराश्च ॥१२६॥
⁶⁵वन्ध्याश्च ॥१२७॥
⁶⁶विन्ध्ये निसं वसति दुर्गा भद्रकाली च ॥१२८॥
कुमारे कुमारो वसति निसं ॥१२९॥
सह्ये गणपतिः ॥१३०॥
⁶⁷रैवतके शास्ता ॥१३१।
महेन्द्रे गरुडः ॥१३२॥
पारियात्रे क्षेत्रपालः ॥१३३॥
कर्मभूमौ भारते मनुष्यैर्बहवो देवाः ॥१३४॥
61. W अविमुक्तत्तगङ्गा० । 62. W ०त्रा (masc. as in
119). 63. W दण्डी० । 64. Sic (masc.) 65. Sic (for वन्द्याश् ?)
66. M वसतिर् । 67. W रैवते ।

Page 56Permalink

२४ बार्हस्पत्यसूत्रम् ।
सुरासुरयक्षराक्षसभूतप्रेतविनायककूश्माण्डा विकृताननाः
॥१३५॥
निरुद्धा भारवेषाः ॥१३६॥
सौम्यभैरवा योगिन्यश्च नागाश्च[१५ ख]मानवैः सह रूपरमा
असंख्याताः संचरन्ति ॥१३७॥
मानवैः कृतपालनाश्च ॥१३८॥
तस्मिन्नमृतमया ओषधाः सन्ति ॥१३९॥
अत्र युगसंख्या कृतत्रेताद्वापरतिष्याश्च ॥१४०॥
कृते ज्ञानिनः ॥१४१॥
दण्डनीतिकोविदाः ॥१४२॥
त्रेतायां कर्मिणः नीतिविशारदाः ॥१४३॥
द्वापरे तान्त्रिकानुसारा घनारसाश्च ॥१४४॥
नीतिकोविदाश्च ॥१४५॥
तिष्ये पादे ज्ञानकर्म घना दण्डनीतिकोविदा नराः ॥१४६॥
तदुत्तरं विरुद्धधर्मवर्णवेषा दण्डनीतिवर्जिताः ॥१४७॥
पश्यन्ति प्रजा अनृतवादतत्पराश्चेत्याह[ १६क ]आचार्यः
॥१४८॥
इति बार्हस्पत्यसूत्रे तृतीयोऽध्यायः ॥
68. Sic ( masc. ) 69. W ०द्वापरि० । 70. W here inserts
नराः । 71. Sic ( read ०न ? ) 72. Sic ( read ०म ? ) 73. ०र्याः ।

Page 57Permalink

[ चतुर्थोऽध्यायः । ]
ब्राह्मे मुहूर्ते उत्थानम् ॥१॥
धर्ममर्थञ्च चिन्तयेत् ॥२॥
कुक्कुटशब्दं¹ शुभम् ॥३॥
गजादिदर्शनञ्च ॥४॥
गजशब्दमङ्गलस्तुतिवेदपाठनञ्च ॥५॥
देवतापुण्यकथा च ॥६॥
राजन्यस्मरणञ्च ॥७॥
नेत्राञ्जनञ्च ॥८॥
आदर्शदर्शनञ्च ॥९॥
अलङ्कारयेत् ॥१०॥
ताम्बूलचर्वणं च ॥११॥
कर्पूरचन्दनागुरुधूपञ्च ॥१२॥
शाङ्खकाहलविषाणा²ञ्छिन्नवेणुवीणातन्त्री³ मृदङ्गपणवाः ॥१३॥
तूर्यघोषाश्च⁴ ॥१४॥
दिव्यप्रमदादर्शनं च ॥१५॥
[१६ ख] मागधभिन्नषड्जं च ॥१६॥

  1. W कुक्कुटे शब्दम् (Sic neut.) 2. M ०निषाण० ।
  2. M W ०तण्डी० । 4. W ०ष्यश् ।
Page 58Permalink

२६ बार्हस्पत्यसूत्रम्
जातिस्वरं च ॥१७॥
सर्पिषि सितपुष्पाणि ॥१८॥
मन्त्रतृप्तो वह्निः शतार्चिर्विस्फुलिङ्गधूमयुक्तो भवति ॥१९॥
तदशुभं गवां संदर्शनम् ५ ॥२०॥
गृध्रसंदर्शनं च ॥२१॥
सन्ध्याज्वलनं च ॥२२॥
विरुद्धशिवारुतं च ॥२३॥
क्रव्यादमृगाणां शब्दो ग्रामपुरद्वारे वा श्रूयते ॥२४॥
देवताप्रतिमास्वेदश्च ६ यस्मिन्दृश्यते तत्र प्रायश्चित्तमन्यत्र
यानमेव प्रतिकारो नास्ति ७ ॥२५॥
८ अवश्यनिरूपणीयान्येतानि कर्माणि ॥२६॥
मन्त्रमू[१७ क]लो विजयः ॥२७॥
त्रिविधाः पुरुषाः उत्तमाधममध्यमाः ॥२८॥
मन्त्रेऽपि ९ ॥२९॥
बन्धुभिर्बान्धवैर्हितैर्बहुश्रुतैर्धीरैः सह यत् कर्मारभते तदु-
त्तमम् ॥३०॥
धर्मद्विविधे १० गुरौ भक्तिश्च ॥३१॥
११ अर्थपरैः सह मन्त्रयित्वा य आरभते स उत्तमः ॥३२॥
5. W ०शनश्च । 6. W ०सेदश् । 7. W ०स्ती । 8. W अवश्यन्नि० ।
9. W मन्त्रो । 10. W here inserts देव । 11. W अङ्ग० ।

Page 59Permalink

चतुर्थोऽध्यायः । २७
गुणदोषागमं निश्चित्य मौर्य्याद्बाहुल्याद् य आरभते सो-
ऽधमः ॥३३॥
ऐकमत्येन दण्डनीतिनेत्रेण धीरैर्मन्त्रिभिर्योमन्त्रः स
उत्तमः ॥३४॥
पूर्वं बहुबुद्धयः पश्चादेकमतयो भवन्ति यत्र स मध्यमः ॥३५॥
[१७ख] यत्र कलहम्भर्त्सनं च एकस्य धर्म एकस्यार्थे स्त्रीबाल
वृद्धैः सह एकस्य रुदितमेकस्यक्रोधो यस्मिन् सोऽधमः ॥३६॥
पूर्वं स्वामिना कार्यनिवेदनम् ॥३७॥
पुनर्वचसा कर्मणा मनसाञ्जलिना दण्डप्रणामेन यथागुरुत्वं
स्वामिनमभिवन्दयेत् ॥३८॥
वृद्धो वैश्रवणो वाचस्पतिर्वा यस्यान्नं नाभुआते तं वन्देत् ॥३९॥
यत्पुनर्यथाक्रममेकैकस्य मतं श्रोतव्यम् ॥४०॥
स्वामिनं प्रसाद्य कार्यं कल्पयितव्यम् ॥४१॥
पूर्वं स्वामि[१८क]गुणं संकीर्त्य स्वामिदोषं परदोषं च
मध्यस्थदोषं च मन्त्रयित्वा पुनः स्वामिगुणसंस्थापनं
कुर्यात् ॥४२॥
12. M मौर्यात् बाहुलाद्या; W मौर्या बाहुलाद्या। 13. Sic
(neut.) 14. W भक्ततम् । 15. M ०णामौ; see introduction,
notes at the end. 16. M यस्यानं ना । 17–17. W omits.

Page 60Permalink

२८ बार्हस्पत्यसूत्रम् ।
पुनः कार्याण्युपायानि^१८ निरूप्य स्वामिनं प्रसाद्य कार्यं कल्प-
यितव्यम् ॥४३॥
प्रमत्तेष्वभियुक्तेषु दैवोपहतेषु च न सिध्यन्ति विक्रमाः ॥४४॥
अप्रमत्तं धर्मज्ञं^१९ जितेन्द्रियं विजिगीषु बलिष्ठ जातकोपं दुराधर्षं
प्रति विक्रमो न कार्यः^२० ॥४५॥
शास्त्रवित् कथं कार्यं न प्रजानातीति न वदेत्^२१ ॥४६॥
बलिष्ठान् शत्रून् कामादीन् ये जयन्ति ते सर्वानरीञ्जयन्ति ॥४७॥
[१८ख] पूर्वमुपकारं न कार्येत् ॥४८॥
उपकारं नियतं^२२ कुर्याच्च ॥४९॥
नाभाविव्यसनं पूर्वं ज्ञात्वा व्यसनप्रतीकारं^२३ कार्यमिति गुरु-
राह ॥५०॥
इति बार्हस्पत्यसूत्रे चतुर्थोऽध्यायः।
18. Sic (neut.) M W. 19. W ०ज्ञ । 20. W ०र्याः । 21.
M interpunctuates not here, but after शत्रून् । 22. W omits
त । 23. Sic (neut.)

Page 61Permalink

[पञ्चमोऽध्यायः ।]
चत्वार उपायाः ॥१॥
त्रयश्च ॥२॥
मायोपेत्ता वधश्च ॥३॥
मूरीषु साम ।४।
शङ्कितेषु सामभेदौ ॥५॥
लुब्धेषु सामदानभेदाः॥६॥
कृष्टेषु सामभेददानमायोपेत्तावधाः ॥७॥
साम पूर्वं प्रयोक्तव्यम् ॥८॥
[१.६क] मनसोऽभिप्रायं वाचः प्रीतिकर्म च ॥६॥
ज्ञातीनां ज्ञातयो व्यसने हृष्यन्ति ॥१०॥
ज्ञातिं ज्ञातयः प्रच्छन्नहृदयाः क्रूरा उपद्रवन्ति ॥११॥
सर्वभयेषु ज्ञातिभयं घोरम् ॥१२॥
गोषु पयः ब्राह्मणे कोपश्च ॥१३॥
स्त्रीषु चापलं दूरत्वं ज्ञातिषु सौहृदं पत्रजलविन्दुवत् ॥१४॥
हितं गुरुजनवाक्यं शास्त्रचोदितं च ये न शृण्वन्ति कालचो-
दिताः तस्मात् तान् सुपरिहृत्यान्यत्र वसेत् ॥१५॥

  1. W ०शश् । 2. W ०मः। 3. Sic (neut.) 4. W ०न्नयां ।
  2. W स्स । 6. W तपश् । 7. W पद्मपत्र० । 8. M एकं

संक्षिप्त हिन्दी अनुवाद एवं व्याख्या (Commentary)

  • सूत्र १–३: नीतिशास्त्र में मूल रूप से चार उपाय (साम, दान, भेद, दण्ड) कहे गए हैं। कहीं तीन उपाय माने गए हैं, तथा अन्यत्र माया (कूटनीति), उपेक्षा और वध को भी उपायों में गिना गया है।
  • सूत्र ४–७: विभिन्न प्रकृतियों के अनुसार उपाय-प्रयोग:
    • मूर्खों/सरलजनों के प्रति साम (समझाने-बुझाने) का प्रयोग करना चाहिए।
    • शंकित (संदेही) जनों पर साम और भेद नीति अपनानी चाहिए।
    • लोभी व्यक्तियों को वश में करने हेतु साम, दान एवं भेद का प्रयोग किया जाता है।
    • असंतुष्ट/कुपित (कृष्ट/क्रुद्ध) जनों के शमन के लिए साम, भेद, दान, माया, उपेक्षा और वध तक के उपाय विहित हैं।
  • सूत्र ८–१०: सर्वप्रथम 'साम' (शांति/सद्भाव) का ही प्रयोग करना चाहिए। वाणी का प्रीतिकर होना और मन के अनुकूल भाव प्रकट करना सामनीति का मुख्य अंग है।
  • सूत्र ११–१५ (ज्ञाति-स्वभाव एवं नीति):
    • बन्धु-बान्धव (ज्ञाति) अपने ही स्वजनों के संकट या विपत्ति में मन ही मन प्रसन्न होते हैं।
    • कपटी हृदय वाले क्रूर सम्बन्धी विपत्ति के समय घात लगाकर प्रहार (उपद्रव) करते हैं।
    • समस्त भयों में अपने ही बान्धवों से उत्पन्न भय सबसे दारुण एवं घोर होता है।
    • जैसे गायों में दूध और ब्राह्मण में कोप स्वाभाविक है; वैसे ही स्त्रियों में चंचलता एवं सम्बन्धियों में सौहार्द (स्नेह) कमल-पत्र पर पड़ी जल की बूँद के समान क्षणभंगुर व अस्थिर होता है।
    • जो व्यक्ति काल (विनाश) से प्रेरित होकर गुरुजनों के हितकारी वचनों और शास्त्र-सम्मत उपदेशों को नहीं सुनते, उनका पूर्णतः त्याग कर अन्यत्र निवास करना चाहिए।
Page 62Permalink

३० बार्हस्पत्यसूत्रम् ।
लोकविरुद्धं नाचरेत् ॥१६॥
९मन्त्र[१९ख]विद्यागुह्यपदमेषु ग्रहान् बान्धवान् कुशलादन्यत्र
न कार्यं व्यसनानि च१० ॥१७॥
दुर्जनं परिहृत्य वक्तव्यं विद्यायुक्तोऽपि गृहाहिरिव११ ॥१८॥
शत्रुपक्षादागतं न विश्वसेत् ॥१९॥
१२गुणतः संगृह्णीयात् ॥२०॥
भावैः परीक्षयेत् ॥२१॥
१३वरिण१३सारैः सह साम ज्ञायते बुद्धिमविज्ञाते सहसा परीक्ष
[२० क]येत् ॥२२॥
१४इङ्गितैर्ज्ञातुं शक्यते ॥२३॥
प्रसन्नो न ॥२४॥
अशाङ्कितमति[:]स्वस्थः ॥२५॥
अकोपनश्च बालादयोऽपि विवृ१५ण्वन्ति हि तम्१६ ॥२६॥
9. W मन्त्रमवि० । 10. Text corrupt in this Sûtra ?
11. गृहानिर् । 12. W here inserts दोषो न निरूप्य संगृह्णीयात् ।
13-13. W वीरान्न । सारैस्सहसा मा Read वीरोऽसारैः सहसा न ?
For णा and श्रौ ( ओ ) see introduction’s end. 14. ०तै ।
15. W विव्र० । 16. M तत् ।

Page 63Permalink

पञ्चमोऽध्यायः । ३१
स्वकुलस्य विनाशं¹⁷ ज्ञात्वा बुद्धिमाँस्तत्र शत्रुपत्तमपि न युक्त-
¹⁸माश्रयेत् ॥२७॥
हृदये यथावच्छुभाशुभं पूर्वं उदेति¹⁹ न दुष्टाचारः सर्वत्र
कारयेत् ॥२८॥
चपला न बहुमान्याः ॥२९॥
इत्याहाचार्यो बृहस्पतिः ॥३०॥
इति बार्हस्पत्यसूत्रे पञ्चमोऽध्यायः ।


  1. ०लस्यापि न० । 18. Read नययुक्तम् ? 19. w उद्यति ।
Page 64Permalink

[ षष्ठोऽध्यायः । ]
[२०ख] देशकालयोग्यं कर्म नयानयौ च वेद्येत् ॥५.॥
विपरीतं न वेदवीर्यदर्पेण ॥२॥
हितानि निरूपयेत् ॥३॥
नभो मन्त्रिभिर्निरूप्य कार्यते ॥४॥
बुद्धिजीवनैरमात्यैः सह कार्यमकार्यं¹ च निरूपयेत् ॥५॥
अहितं विकारं² यस्य प्रतिभाति स मन्त्रयोग्यः ॥६॥
अर्थमार्जयेत् ॥७॥
यस्यार्थराशिरस्ति तस्य मित्राणि धर्मश्च विद्या च गुणविक्रमो
च बुद्धिश्च ॥८॥
अर्थनेना[२१क]र्थमार्जायितुं न शक्यते गजोऽगजेनेव³ ॥६॥
धनमूलं जगत् ॥१०॥
सर्वाणि तत्र सन्ति ॥११॥
निर्धनो मृतश्चण्डालश्च ॥१२॥
एवं धर्ममूलं च विद्यामार्जयेत् ॥१३॥
विद्यामूलं जगत् ॥१४॥
विद्या पुनः सर्वमित्याह गुरुः ॥१५॥
इति बार्हस्पत्यसूत्रे षष्ठोऽध्यायः ।

  1. W कार्यक्० । 2. Read अहितमपि कार्यम् । 3. M गजं
    ग०, W ०जंग
Page 65Permalink

BRIHASPATI SŪTRA
Now the Brihaspati Sûtra.
Now Brihaspati,* the Preceptor, expounds to Indra
the Whole Substance of Policy :
I (PERSONAL CONDUCT)
1 Self-mastery is the quality of a king.
2 As minister he should appoint one master of
himself.
3 His sole science is the Administration of
Punishment [= Government].
4 Even right he should not practise when
disapproved by the world.
5 Should he practise it, it should be after
recommending it by persons of intelligence.
6 He is to be served by his like.
7 With women, children or the aged, he should
not discuss measures of right and policy.
8 He should not engage in magic shows
[indrajâla];
9 In incantations [mantras], however, and
festivities;
10 Also in counteracting diseases and poisonings.
11 Not smearing with ashes [like an ascetic].

*Concerning Brihaspati as founder of the Science of
Policy see the Introduction.
3 On the question of the king's sciences see
Arthashastra, c. 1.
6 On this question of choice of ministers etc. see
Arthashastra, cc. 4–5; also 80 infra.
10 On poison in the palace see Arthashastra, c. 17.