सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

Bhamati of Vachaspati Mishra Hindi

वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा

स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)

कॉपीराइट समस्या बताएँ

DevanagariHindipublished639 पृष्ठ

इस ग्रन्थ के बारे में

भामती अद्वैत वेदान्त का एक आधारभूत टीका-ग्रन्थ है। नवीं-दसवीं शताब्दी के मैथिल आचार्य वाचस्पति मिश्र ने इसे बादरायण के ब्रह्मसूत्र पर शंकराचार्य के शारीरक-मीमांसा-भाष्य की व्याख्या के रूप में लिखा। परम्परा के अनुसार इसका नाम उनकी पत्नी भामती के नाम पर पड़ा। इसी टीका से अद्वैत की 'भामती-प्रस्थान' नामक धारा चली, जो अविद्या के आश्रय और विषय जैसे प्रश्नों पर विवरण-प्रस्थान से भिन्न मत रखती है।

यह खण्ड ब्रह्मसूत्र के आरम्भिक भाग पर केन्द्रित है, जिसे चतुःसूत्री कहा जाता है: 'अथातो ब्रह्मजिज्ञासा', 'जन्माद्यस्य यतः', 'शास्त्रयोनित्वात्' और 'तत्तु समन्वयात्'। शंकर का अध्यास-भाष्य और इन चार सूत्रों का भाष्य पूरे अद्वैत दर्शन की नींव माने जाते हैं, इसलिए वेदान्त के अध्येता सबसे अधिक परिश्रम इन्हीं पर करते हैं।

इस संस्करण में सूत्र, शाङ्करभाष्य, भामती और स्वामी ऋषिराम के शिष्य उदासीन संन्यासी स्वामी योगीन्द्रानन्द की विस्तृत हिन्दी 'भामती-व्याख्या' एक साथ हैं। यह चौखम्बा विद्याभवन, वाराणसी की विद्याभवन प्राच्यविद्या ग्रन्थमाला (क्रमांक १२) का प्रथम भाग है, जिसका यह स्कैन 2005 के संस्करण का है और 639 पृष्ठों का है।

पृष्ठ 383 स्कैन

दहराकाशस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३६५

भामती

सोऽयं य एष स्वप्ने महीयमानो वनितादिभिरनेकधा स्वप्नोपभोगान् भुञ्जानो विहरतीति । अस्मिन्नपि देवेन्द्रो भयं ददर्श । यद्यप्ययं छायापुरुषवन्न शरीरधर्माननुपतति, तथापि शोकभयादिविविधबाधानुभवान्न तत्राप्यस्ति स्वस्तिप्राप्तिरित्युक्तवति मघवति पुनरपराणि चर द्वात्रिंशतं वर्षाणि स्वच्छं ब्रह्मचर्यमिदानीमप्यक्षीणकल्मषोऽसीत्यूचे प्रजापतिः । अथास्मिन्नेवङ्कारमुपसन्ने मघवति प्रजापतिरुवाच—य एष आत्माऽपहतपाप्मादिगुणो दर्शितोऽक्षिणि च स्वप्ने च स एष यो विषयेन्द्रियसंप्रयोगविरहात्प्रसन्नः सुषुप्तावस्थायामिति । अत्रापि नेन्द्रो निर्ववार । यथा हि जाग्रद्वा स्वप्नगतो वाऽयमहमस्मीति इमानि भूतानि चेति विजानाति नैवं सुषुप्तः

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 384 स्कैन

३६६ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. ३ सू. १९

प्मत्वादि दर्शयति—‘एतदमृतमभयमेतद् ब्रह्म’ इति। नाह खल्वयमेवं संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि’ ( छा० ८।११।१, २) इति च सुषुप्तावस्थायां दोषमुपलभ्य ‘एतं त्वेव ते भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्मात्’ इति चोपक्रम्य, शरीरसम्बन्धनिन्दापूर्वकं ‘एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः’ इति जीवमेव शरीरात्समुत्थितमुत्तमपुरुषं दर्शयति। तस्मादस्ति संभवो जीवे पारमेश्वराणां धर्माणां। अतः ‘दहरोऽस्मिन्नन्तराकाशः’ इति जीव एवोक्त इति चेत्कश्चिद् ब्रूयात्। तं प्रति ब्रूयात् ‘आविर्भूतस्वरूपस्तु’ इति।

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 385 स्कैन

दहराकाशस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३६७

तुशब्दः पूर्वपक्षव्यावृत्त्यर्थः। नोत्तरस्मादपि वाक्यादिह जीवस्याशङ्का संभवतीत्यर्थः। कस्मात्? यतस्तत्राप्याविर्भूतस्वरूपो जीवो विवक्ष्यते। आविर्भूतं स्वरूपमस्येत्याविर्भूत-स्वरूपः। भूतपूर्वगत्या जीववचनम्। एतदुक्तं भवति - 'य एषोऽक्षिणि' इत्यक्षिलक्षितं द्रष्टारं निर्दिश्योदशरावब्राह्मणेनैनं शरीरात्मताया व्युत्थाप्य 'एतं त्वेव ते' इति पुनःपुनः तमेव व्याख्येयत्वेनाकृष्य स्वप्नसुषुप्तोपन्यासक्रमेण 'परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते' इति यदस्य पारमार्थिकं स्वरूपं परं ब्रह्म तद्रूपतयैनं जीवं व्याचष्टे, न जैवेन रूपेण। यत्तत्परं ज्योतिरुपसंपत्तव्यं श्रुतं तत्परं ब्रह्म। तच्चापहतपाप्मत्वादि-धर्मकं,

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 386 स्कैन

३६८ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. ३ सू. १९

मानात्समुत्थितःन्स एव कूटस्थनित्यदृक्स्वरूप आत्मा भवति, 'स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति' (मुण्ड० ३।२।९) इत्यादिश्रुतिभ्यः । तदेव चास्य पारमार्थिकं स्वरूपं येन शरीरात्समुत्थाय स्वेन रूपेणाभिनिष्पद्यते । कथं पुनः स्वं च रूपं स्वेनैव च निष्पद्यत इति संभवति कूटस्थनित्यस्य ? सुवर्णादीनां तु द्रव्यान्तरसंपर्कादभिभूतस्वरूपाणामनभिव्यक्तासाधारणविशेषाणां क्षारप्रक्षेपादिभिः शोध्यमानानां स्वरूपेणाभिनिष्पत्तिः स्यात् । तथा नक्षत्रादीनामह्न्यभिभूतप्रकाशानामभिभावकवियोगे रात्रौ स्वरूपेणाभिनिष्पत्तिः स्यात् । न तु तथात्मचैतन्यज्योतिषो नित्यस्य केनचिदभिभवः संभवत्यसंसर्गित्वाद्

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 387 स्कैन

दहराकाशस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३६९

प्रमाणजनितविवेकग्रहणात्तु पराचीनः स्फटिकः स्वाच्छ्येन शौक्ल्येन च स्वेन रूपे-
णाभिनिष्पद्यत इत्युच्यते प्रागपि तथैव सन् । तथा देहाद्युपाध्यविविक्तस्यैव सतो

भामती

मिव वृष्ट्यादिरूपमद्य प्रथते । तथा च देहेन्द्रियादिगतैस्तापादिविभिस्तापादिमदिव भवतीति । उपपादित-
ञ्चैतद्विस्तरेणाध्यासभाष्य इति नेहोपपाद्यते । यद्यपि स्फटिकादयो जपाकुसुमादिसन्निहिताः, सन्निधानञ्च
संयुक्तसंयोगात्मकम् , तथा च संयुक्ताः, तथापि न साक्षाज्जपादिकुसुमसंयोगिनः इत्येतावता दृष्टान्तता
इति । ॐ वेदनाः ॐ हर्षभयशोकादयः । दार्ष्टान्तिके योजयति ॐ तथा देहादि इति ॐ । सम्प्रसादोऽस्मा-
च्छरीरात्समुत्थाय परं

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 388 स्कैन
३७०ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. ३ सू. १९

जीवस्य श्रुतिकृतं विवेकविज्ञानं शरीरात्समुत्थानम्, विवेकविज्ञानफलं स्वरूपेणाभिनिष्पत्तिः केवलात्मस्वरूपावगतिः । तथा विवेकाविवेकमात्रेणैवात्मनोऽशरीरत्वं सशरीरत्वं च, मन्त्रवर्णात् 'अशरीरं शरीरेषु' (का० १।२।२२) इति, 'शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते' (गी० १३।३१) इति च सशरीरत्वाशरीरत्वविशेषाभावस्मरणात् । तस्माद्विवेकविज्ञानाभावादनाविर्भूतस्वरूपः सन् विवेकविज्ञानादाविर्भूतस्वरूप इत्युच्यते, नत्वन्यादृशावाविर्भावानाविर्भावौ स्वरूपस्य संभवतः स्वरूपत्वादेव । एवं मिथ्याज्ञानकृत एव जीवपरमेश्वरयोर्भेदो न वस्तुतः, व्योमवदसङ्गत्वविशेषात् । कुतश्चैतदेवं

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 389 स्कैन

दहराकाशस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३७१

येऽपि पर्याये 'य एष स्वप्ने महीयमानश्चरति' इति न प्रथमपर्यायनिर्दिष्टादक्षिपुरुषाद्
द्रष्टुरन्यो निर्दिष्टः, एतं त्वेव ते भूयोऽनुव्याख्यास्यामि' इत्युपक्रमात्। किञ्चाहमद्य
स्वप्ने हस्तिनमद्राक्षं, नेदानीं तं पश्यामीति दृष्टमेव प्रतिबुद्धः प्रत्याचष्टे, द्रष्टारं तु तमेव
प्रत्यभिजानाति 'य एवाहं स्वप्नमद्राक्षं स एवाहं जागरितं पश्यामि' इति। तथा
तृतीयेऽपि पर्याये 'नाह खल्वयमेवं संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि
भूतानि इति सुषुप्तावस्थायां विशेषविज्ञानाभावमेव दर्शयति, न विज्ञातारं प्रतिषेधति।

भामती

न छायात्मा। तस्मादसिद्धो दृष्टान्त इत्यर्थः। किञ्च द्वितीयादिष्वपि पर्यायेष्वेतं त्वेव ते

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 390 स्कैन
३७२ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. ३ सू. १९

यत्तु तत्र ‘विनाशमेवापीतो भवति’ इति तदपि विशेषविज्ञानविनाशाभिप्रायमेव न विज्ञातृविनाशाभिप्रायम्, ‘नहि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वात्’ (बृ० ४।३।३०) इति श्रुत्यन्तरात् । तथा चतुर्थेऽपि पर्याये ‘एतं त्वेव ते भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्मात्’ इत्युपक्रम्य ‘मघवन् मर्त्यं वा इदं शरीरम्’ इत्यादिना प्रपञ्चेन शरीराद्युपाधिसंबन्धप्रत्याख्यानेन संप्रसादशब्दोदितं जीवं ‘स्वेन रूपेणाभिनिष्पद्यते’ इति ब्रह्मस्वरूपापन्नं दर्शयन्न परस्माद् ब्रह्मणोऽमृताभयस्वरूपादन्यं जीवं दर्शयति ।

केचित्तु – परमात्मविवक्षायां ‘एतं त्वेव

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 391 स्कैन

दहराकाशस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३७३

कमेव चैवं रूपमिति मन्यन्तेऽस्मदीयाश्च केचित् । तेषां सर्वेषामात्मैकत्वसम्यग्दर्श-
नप्रतिपक्षभूतानां प्रतिबोधायेदं शारीरकमारब्धम् । एक एव परमेश्वरः कूटस्थनित्यो
विज्ञानधातुरविद्यया मायया मायाविवदनेकधा विभाव्यते नान्यो विज्ञानधातुरस्तीति ।
यच्चेदं परमेश्वरवाक्ये जीवमाशङ्क्य प्रतिषेधति सूत्रकारः - नासंभवात् ( ब्र० १।३।१८)
इत्यादिना । तत्रायमभिप्रायः - नित्यशुद्धबुद्धमुक्तस्वभावे कूटस्थनित्ये एकस्मिन्नसङ्गे
परमात्मनि तद्विपरीतं जैवं रूपं व्योम्नीव तलमलादि परिकल्पितम् । तदात्मैकत्व-
प्रतिपादनपरैर्वाक्यैर्न्यायोपेतैर्द्वैतवादप्रतिषेधैश्चापनेष्यामीति परमात्मनो जीवादन्यत्वं

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 392 स्कैन

३७४ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. ३ सू. २२

विशेषोपदेश इत्यनर्थकत्वं प्राप्नोतीति, अत आह—अन्यार्थोऽयं जीवपरामर्शो न जीवस्वरूपपर्यवसायी । किं तर्हि ? परमेश्वरस्वरूपपर्यवसायी । कथम् ? संप्रसादशब्दोदितो जीवो जागरितव्यवहारे देहेन्द्रियपञ्जराध्यक्षो भूत्वा तद्वासनानिर्मितांश्च स्वप्नान्नाडीचरोऽनुभूय श्रान्तः शरणं प्रेप्सुरुभयरूपादपि शरीराभिमानात्समुत्थाय सुषुप्तावस्थायां परं ज्योतिराकाशशब्दितं परं ब्रह्मोपसंपद्य विशेषविज्ञानत्वं च परित्यज्य स्वेन रूपेणाभिनिष्पद्यते । यदस्योपसंपत्तव्यं परं ज्योतिर्येन स्वेन

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 393 स्कैन

दहराकाशस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३७५

द्रुत प्राज्ञ आत्मेति विचिकित्सायां तेजोधातुरिति तावत्प्राप्तम् । कुतः ? तेजोधातूनामेव सूर्यादीनां भानप्रतिषेधात् । तेजःस्वभावकं हि चन्द्रतारकादि तेजःस्वभावक एव सूर्ये भासमानेऽहनि न भासत इति प्रसिद्धम् । तथा सह सूर्येण सर्वमिदं चन्द्रतारकादि यस्मिन्न भासते, सोऽपि तेजःस्वभाव एव कश्चिदित्यवगम्यते । अनुभानमपि तेजःस्वभावक एवोपपद्यते, समानस्वभावकेष्वनुकारदर्शनात्, गच्छन्तमनुगच्छतीतिवत् । तस्मात्तेजोधातुः कश्चित् ।

भामती

अभानं तेजसो दृष्टं सति तेजोऽन्तरे यतः ।
तेजो धात्वन्तरं तस्मादनुकाराच्च

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 394 स्कैन

३७६ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. ३ सू. २२

इत्येवं प्राप्ते ब्रूमः—प्राज्ञ एवात्मा भवितुमर्हति। कस्मात्? अनुकृतेः। अनुकरणमनुकृतिः। यदेतत् 'तमेव भान्तमनुभाति सर्वम्' इत्यनुभानं, तत्प्राज्ञपरिग्रहेऽवकल्पते। 'भारूपः सत्यसंकल्पः' (छा० ३।१४।२) इति हि प्राज्ञमात्मानमामनन्ति। न तु तेजोधातुं कांचत्सूर्यादयोऽनुभान्तीति प्रसिद्धम्। समत्वाच्च तेजोधातूनां सूर्यादीनां न तेजोधातुमम्यं प्रत्यपेक्षास्ति, यं भान्तमनुभायुः। नहि प्रदीपः प्रदीपान्तरमनुभाति।

यदप्युक्तं—समानस्वभावकेष्वनुकारो दृश्यत इति। नायमेकान्तो नियमः,


भामती

इति प्राप्ते। उच्यते —

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 395 स्कैन

सर्वभासकस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३७७

भिन्नस्वभावकेष्वपि ह्यनुकारो दृश्यते । यथा सुतप्तोऽयःपिण्डोऽग्न्यनुकृतिरग्निं दहन्त-
मनुदहति, भौमं वा रजो वायुं वहन्तमनुवहतीति । 'अनुकृतेः' इत्यनुभानमसूसूचत् ।
'तस्य च' इति चतुर्थं पादमस्य श्लोकस्य सूचयति । 'तस्य भासा सर्वमिदं विभाति'
इति, तद्धेतुकं भानं सूर्यादेरुच्यमानं प्राज्ञमात्मानं गमयति । 'तद्देवा ज्योतिषां ज्योति-
रायुर्होपासतेऽमृतम्' (बृ० ४।४।१६) इति हि प्राज्ञमात्मानमामनन्ति, तेजोऽन्तरेण
सूर्यादितेजो विभातीत्यप्रसिद्धं विरुद्धं च, तेजोऽन्तरेण तेजोऽन्तरस्य प्रतिघातात् ।
अथवा—न सूर्यादीनामेव श्लोकपरिपठितानामिदं तद्धेतुकं विभानमुच्यते । किं तर्हि ?
'सर्वमिदम्' इत्यविशेषश्रुतेः

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 396 स्कैन

३७८ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ १ पा. २ सू. २२

प्रकृतं च ब्रह्म 'यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतम्' (मु० २।२।५) इत्यादिना । अनन्तरं च 'हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् । तच्छुभ्रं ज्योतिषां ज्योतिस्तद्य- दात्मविदो विदुः' इति । कथं तज्ज्योतिषां ज्योतिरित्यत इदमुत्थितम्- 'न तत्र सूर्यो भाति' इति । यदप्युक्तं - सूर्यादीनां तेजसां भानप्रतिषेधस्तेजोधातावेवान्यस्मिन्नव- कल्पते सूर्ये इवेतरेषामिति । तन्न तु स एव तेजोधातुरन्यो न संभवतीत्युपपादितम् । ब्रह्मण्यपि चैषां भानप्रतिषेधोऽवकल्पते । यतः यदुपलभ्यते तत्सर्वं ब्रह्मणैव ज्योतिषो-

भामती

इत्यादावपि प्रकृते परस्मिन् प्रत्ययेऽर्थभेदेऽन्वाख्यायमाने प्रातिपदिकप्रकृत्यर्थस्य

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 397 स्कैन

सर्वभासकस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३७९

पलभ्यते, ब्रह्म तु नान्येन ज्योतिषोपलभ्यते, स्वयंज्योतिःस्वरूपत्वाद् ; येन सूर्यादय-
स्तस्मिन्भायुः। ब्रह्म ह्यन्यद्व्यनक्ति, नतु ब्रह्मान्येन व्यज्यते, 'आत्मनैवायं
ज्योतिषाऽऽस्ते' (बृ० ४।३।६), 'अगृह्यो नहि गृह्यते' (बृ० ४।२।४) इत्यादि-
श्रुतिभ्यः ॥ २२ ॥

अपि च स्मर्यते ॥ २३ ॥

अपि चेदृग्रूपत्वं प्राज्ञस्यैवात्मनः स्मर्यते भगवद्गीतासु - **"न तद्भासयते सूर्यो
न शशाङ्को न पावकः। यद्गत्वा न निवर्तन्ते तद्धाम परमं मम॥" (गी०

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 398 स्कैन

३८० ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. ३ सू. २४

'अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति' इति श्रूयते। तथा 'अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः। ईशानो भूतभव्यस्य स एवाद्य स उ श्व एतद्वै तत्' (का० २।४।१३) इति च। तत्र योऽयमङ्गुष्ठमात्रः पुरुषः श्रूयते, स किं विज्ञानात्मा, किंवा परमात्मेति संशयः। तत्र परिमाणोपदेशात्तावद्विज्ञानात्मेति प्राप्तम्। न ह्यनन्तायामविस्तारस्य परमात्मनोऽङ्गुष्ठपरिमाणमुपपद्यते। विज्ञानात्मनस्तूपाधिमत्त्वात्संभवति कयाचित्क-


भामती

किमङ्गुष्ठमात्रश्रुत्यनुग्रहाय जीवोपासनापरमेतद्वाक्यमस्तु, तदनुरोधेन चेशानश्रुतिः कथञ्चिद्व्याख्यायताम्,

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 399 स्कैन
[ अङ्गुष्ठमात्रपुरुषस्य ब्रह्मत्वम् ]हिन्दीसहितभामतीसंवलितम्३८१

ल्पनायाऽङ्गुष्ठमात्रत्वम्। स्मृतेश्च—'अथ सत्यवतः कायात्पाशबद्धं वशं गतम्। अङ्गुष्ठ-
मात्रं पुरुषं निष्ककर्ष यमो बलात्॥' (म० भा० ३।२९७।१७) इति। नहि परमेश्वरो
बलाद्यमेन निष्क्रष्टुं शक्यः। तेन तत्र संसार्यङ्गुष्ठमात्रो निश्चितः, स एवेहापीत्येवं

भामती
सम्भवतीति जीवात्मैवाङ्गुष्ठमात्रः, स खल्वन्तःकरणाद्युपाधिकल्पितो भागः परमात्मनः अन्तःकरणञ्च
प्रायेण हृत्कमलकोशस्थानं, हृत्कमलकोशश्च मनुष्याणामङ्गुष्ठमात्र इति तदवच्छिन्नो जीवात्माप्यङ्गुष्ठ-
मात्रो नभ इव वंशपर्वावच्छिन्नमरत्निमात्रम्। अपि च जीवात्मनः स्पष्टमङ्गुष्ठमात्रत्वं

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 400
स्थायी लिंक
पृष्ठ 400 स्कैन
३८२ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. ३ सू. २५

प्राप्ते ब्रूमः—परमात्मैवायमङ्गुष्ठमात्रपरिमितः पुरुषो भवितुमर्हति। कस्मात्? शब्दात्, ‘ईशानो भूतभव्यस्य’ इति। नह्यन्यः परमेश्वराद् भूतभव्यस्य निरङ्कुशमीशिता। ‘एतद्वै तत्’ इति च प्रकृतं पृष्टमिहानुसंदधाति। एतद्वै तद्यत्पृष्टं ब्रह्मेत्यर्थः। पृष्टं चेह ब्रह्म ‘अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्। अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद’ (का० १।२।१४) इति। शब्दादेवेति, अभिधानश्रुतेरेवेशान इति परमेश्वरोऽयं गम्यत इत्यर्थः ॥ २४ ॥

कथं पुनः सर्वगतस्य परमात्मनः परिमाणोपदेश इत्यत्र ब्रूमः—

हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ २५ ॥

सर्वगतस्यापि परमात्मनो हृदयेऽवस्थानमपेक्ष्याङ्गुष्ठमात्रत्वमिदमुच्यते।


भामती

प्रश्नोत्तरत्वादीशानश्रवणस्याविशेषतः।
जीवस्य ब्रह्मरूपत्वप्रत्यायनपरं वचः ॥

इह हि भूतभव्यमात्रं प्रति निरङ्कुशमीशानत्वं प्रतीयते। प्राक् पृष्टं चात्र ब्रह्म, अन्यत्र धर्मादन्यत्राधर्मादित्यादिना। तदनन्तरस्य सन्दर्भस्य तत्प्रतिवचनतोचितेति एतद्वै तदिति ब्रह्माभिधानं युक्तम्। तथा चाङ्गुष्ठमात्रतया यद्यपि जीवोऽवगम्यते, तथापि न तत्परमेतद्वाक्यं, किन्त्वङ्गुष्ठमात्रस्य जीवस्य ब्रह्मरूपताप्रतिपादनपरम्। एवं निरङ्कुशमीशानत्वं न सङ्कोचयितव्यम्। न च ब्रह्मप्रश्नोत्तरता हातव्या, तेन यथा तत्त्वमसीति विज्ञानात्मनस्त्वम्पदार्थस्य तदिति परमात्मनैकत्वं प्रतिपाद्यते, तथेहाप्यङ्गुष्ठपरिमितस्य विज्ञानात्मन ईशानश्रुत्या ब्रह्मभावः प्रतिपाद्यत इति युक्तम् ॥ २४ ॥

❖ सर्वगतस्यापि परब्रह्मणो हृदयेऽवस्थानमपेक्ष्य इति ❖। जीवाभिप्रायम्। न चान्यः परमात्मन


भामती-व्याख्या

सिद्धान्त—'अंगुष्ठमात्र' शब्द के द्वारा ब्रह्म का ही निर्देश मानना चाहिए, क्योंकि—

प्रश्नोत्तरत्वाद् ईशानश्रवणस्याविशेषतः।
जीवस्य ब्रह्मरूपत्वप्रत्यायनपरं वचः॥

“अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात् कृताकृताद्। अन्यत्र भूताच्च भव्याच्च यत्तत् पश्यसि तद् वद” (कठो० १।२।१४) इस प्रश्न के उत्तर में कहा गया है—“अंगुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः। ईशानो भूतभव्यस्य स एवाद्य स उ श्व एतद्वै तत्॥” (कठो० २।४।१३)। अर्थात् जिस अतीतानादि समस्त प्रपञ्च के नियन्ता परमेश्वर के विषय में प्रश्न किया गया है, वह निर्धूम ज्योति के समान देदीप्यमान अंगुष्ठमात्र हृदय में उपलब्ध होनेवाला यह पर ब्रह्म ही है—इस प्रकार प्रश्नोत्तररूप में प्रतिपादित ब्रह्म ही अंगुष्ठमात्र पुरुष है, क्योंकि उसमें ही निखिल प्रपञ्च का निरंकुश शासकत्व है और ब्रह्मविषयक प्रश्न के उत्तर वाक्य के द्वारा प्रतिपादित है। ब्रह्मविषयक प्रश्न के उत्तर में ब्रह्म का ही प्रतिपादन उचिततर है। यद्यपि 'अंगुष्ठमात्र' शब्द के द्वारा सहजत: जीव प्रतीत होता है, तथापि यहाँ 'अंगुष्ठमात्र' शब्द जीवपरक नहीं, किन्तु अंगुष्ठमात्रक जीव की ब्रह्मरूपता के प्रतिपादन में उसका तात्पर्य निश्चित होता है। इस प्रकार न तो निरंकुश ईशानता का संकोच करने की आवश्यकता रह जाती है और न प्रश्न और उत्तर वाक्यों की ब्रह्मपरता का परित्याग करना पड़ता है। अतः जैसे 'तत्त्वमसि'—इस वाक्य के द्वारा त्वं पदार्थभूत जीव और तत्पदार्थरूप ब्रह्म की एकता का प्रतिपादन किया जाता है, वैसे ही यहाँ भी अंगुष्ठ परिमाण के जीव की ब्रह्मरूपता का प्रतिपादन “ईशानो भूतभव्यस्य”—इस वाक्य के द्वारा किया जाना युक्ति-युक्त है॥ २४॥

“सर्वगतस्यापि परब्रह्मणो हृदयेऽवस्थानमपेक्ष्य”—इस भाष्य में सर्वगत ब्रह्म का

पृष्ठ 401
स्थायी लिंक
पृष्ठ 401 स्कैन

अङ्गुष्ठमात्रपुरुषस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३८३

आकाशस्येव 'वंशपर्वापेक्षमरत्निमात्रत्वम्। नह्यञ्जसाऽतिमात्रस्य परमात्मनोऽङ्गुष्ठ-
मात्रत्वमुपपद्यते। न चान्यः परमात्मन इह ग्रहणमर्हतीशानशब्दादिभ्य इत्युक्तम्। ननु
प्रतिप्राणिभेदं हृदयानामनवस्थितत्वात्तदपेक्षमप्यङ्गुष्ठमात्रत्वं नोपपद्यत इत्यत उत्तर-
मुच्यते—मनुष्याधिकारत्वादिति। शास्त्रं ह्यविशेषप्रवृत्तमपि मनुष्यानेवाधिकरोति,
शक्तत्वादर्थित्वादपर्युदस्तत्वादुपनयनादिशास्त्राच्चेति वर्णितमेतदधिकारलक्षणे (जै०
६।१)। मनुष्याणां च नियतपरिमाणः कायः। औचित्येन नियतपरिमाणमेव चैषा-
मङ्गुष्ठमात्रं हृदयम्। अतो मनुष्याधिकारत्वाच्छास्त्रस्य मनुष्यहृदयावस्थानापेक्षमङ्गुष्ठ-
मात्रत्वमुपपन्नं परमात्मनः। यदप्युक्तं—परिमाणोपदेशात्स्मृतेश्च संसार्येवायमङ्गुष्ठमात्रः
प्रत्येतव्य इति, तत्प्रत्युच्यते—'स आत्मा तत्त्वमसि' इत्यादिवत्संसारिण एव सतोऽ-


भामती

इह ग्रहणमर्हतीति न जीवपरमेतद्वाक्यमित्यर्थः। ॐ मनुष्यानेव इति ॐ त्रैवर्णिकानेवेति। ॐ अर्थित्वाद्
इति ॐ अन्तःसंज्ञानां मोक्षमाणानां च काम्येषु कर्मस्वधिकारं निषेधति। ॐ शक्तत्वाद् इति ॐ
तिर्यग्देवर्षीणामशक्तानामधिकारं निवर्त्तयति ॐ उपनयनादिशास्त्राच्च इति ॐ शूद्राणामनधिकारितां
दर्शयति ॐ यदप्युक्तं परिमाणोपदेशात् स्मृतेश्च इति ॐ । यद्येतत्परमात्मपरं किमिति तर्हि जीव इहोच्यते।
ननु परमात्मैवोच्यताम् , उच्यते च जीवः, तस्माज्जीवपरमेवेति भावः। परिहरति ॐ तत्प्रत्युच्यते


भामती-व्याख्या

जो हृदय में अवस्थान कहा है, वह जीवभावापन्न ब्रह्म के अभिप्राय से कहा है, अन्यथा
'सर्वगतस्य हृदयेऽवस्थानम्'—ऐसा कहना परस्पर विरुद्ध पड़ जाता है, अतः यहाँ 'सर्वगतं
यद् ब्रह्म जीवभावापन्नस्य तस्य हृदयेऽवस्थानम्'—ऐसी योजना विवक्षित है। “न चान्यः
परमात्मन इह ग्रहणमर्हति”—इस भाष्य का अर्थ है—“अंगुष्ठमात्रः पुरुषः' एतद्वाक्यं जीवपरं
न भवति", अर्थात् उक्त वाक्य के घटकीभूत 'अंगुष्ठमात्र' पद के द्वारा जीव का निर्देश होने
पर भी पूरा वाक्य जीवपरक नहीं हो सकता, क्योंकि 'सर्वेशानत्व का जीव में सामञ्जस्य
नहीं होता। “शास्त्रं मनुष्यानेवाधिकरोति”—इस भाष्य में 'मनुष्य' पद केवल त्रैवर्णिकपरक
है, क्योंकि अपशूद्राधिकरण (जै. सू. ६।१।२५) में निश्चय किया गया है कि “स्वाध्यायोऽ-
ध्येतव्यः”—इत्यादि विधि वाक्यों का ब्राह्मण, क्षत्रिय और वैश्य'—इन तीन वर्णों को ही
अधिकारी माना गया है। श्रौत कर्म के अधिकारी व्यक्ति के (१) अर्थित्व (कामनारूप)
(२) शक्तत्व, (३) अनिषिद्धत्व, (४) उपनयनादि संस्कार-युक्तत्व—ये चार विशेषण
माने गए हैं। उनमें अर्थित्व विशेषण के द्वारा अन्तःसंज्ञक (स्थावरादि एवं निष्काम मुमुक्षु
पुरुषों का काम्य कर्मों में अधिकार निवृत्त (निषिद्ध) किया गया है, शक्तत्व विशेषण के द्वारा
तिर्यक् (पशु-पक्ष्यादि), देवगण एवं ऋषिगणों का कर्म में अधिकार वर्जित किया गया है,
क्योंकि जैसे मनुष्य इन्द्रादि देवों के उद्देश्य से हविरादिगत स्वत्व का त्याग (याग) कर
सकते हैं, वैसे इन्द्रादि देवगण अपने उद्देश्य से स्वत्व का त्याग और परस्वत्वा-पादन नहीं
कर सकते। वसिष्ठादि ऋषिगण भी आर्षेयवरण के अवसर पर अपने से भिन्न वसिष्ठादि का
वरण नहीं कर सकते। उपनयनादि संस्कारों द्वारा शूद्रादि असंस्कृत मनुष्यों का कर्म में
अधिकार समाप्त किया गया है। जैमिनि-सूत्रों के छठे अध्याय में अधिकार की विस्तृत चर्चा
की गई है।

“यदप्युक्तं परिमाणोपदेशात्”—इस भाष्य के द्वारा जो इस शङ्का का अनुवाद किया
गया है कि 'यदि उक्त वाक्य ब्रह्मपरक है, तब उसमें जीव का निर्देश क्यों किया गया? ब्रह्म
का ही निर्देश करना चाहिए था, किन्तु जीव का निर्देश अंगुष्ठमात्र' शब्द के द्वारा किया

पृष्ठ 402
स्थायी लिंक
पृष्ठ 402 स्कैन
३८४ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. ३ सू. २६

ङ्गुष्ठमात्रस्य ब्रह्मत्वमिदमुपदिश्यत इति । द्विरूपं हि वेदान्तवाक्यानां प्रवृत्तिः, क्वचित्पर-
मात्मस्वरूपनिरूपणपरा, क्वचिद्विज्ञानात्मनः परमात्मैकत्वोपदेशपरा । तदत्र विज्ञाना-
त्मनः परमात्मनैकत्वमुपदिश्यते, नाङ्गुष्ठमात्रत्वं कस्यचित् । एवमेवार्थं परेण स्फुटी-
करिष्यति—'अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये संनिविष्टः। तं स्वाच्छ-
रीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्येण । तं विद्याच्छुक्रममृतम्' ( का० २।६।१७ ) इति ॥२५॥


( ८ देवताधिकरणम् । सू० २६-३३ )

तदुपर्यपि बादरायणः संभवात् ॥ २६ ॥

अङ्गुष्ठमात्रश्रुतिर्मनुष्यहृदयापेक्षा मनुष्याधिकारत्वाच्छास्त्रस्येत्युक्तं, तत्प्रसङ्गेनेद-
मुच्यते । बाढम्, मनुष्यानधिकरोति शास्त्रम्, नतु मनुष्यानेवेतीह ब्रह्मज्ञाने नियमो-
ऽस्ति । तेषां मनुष्याणामुपरिष्ठान्थे देवादयस्तानप्यधिकरोति शास्त्रमिति बादरायण
आचार्यो मन्यते । कस्मात् ? संभवात् । संभवति हि तेषामप्यर्थित्वाद्यधिकारकारणम् ।
तत्रार्थित्वं तावन्मोक्षविषयं देवादीनामपि संभवति विकारविषयविभूत्यनित्यत्वालोच-
नादिनिमित्तम् । तथा सामर्थ्यमपि तेषां संभवति, मन्त्रार्थवादेतिहासपुराणलोकेभ्यो


भामती

इति ॐ । जीवस्य हि तत्त्वं परमात्मभावः, तद्वक्तव्यम् , न च तज्जीवमनभिधाय शक्यं वक्तुमिति जीव
उच्यत इत्यर्थः ॥ २५ ॥


देवर्षीणां ब्रह्मविज्ञानाधिकारचिन्ता समन्वय लक्षणेऽसङ्गतेत्यस्याः प्रासङ्गिकीं सङ्गतिं दर्शयितुं
प्रसङ्गमाह ॐ अङ्गुष्ठमात्रश्रुतिः इति ॐ । स्यादेतद् — देवादीनां विविधविचित्रानन्दभोगभागिनां
वैराग्याभावान्नाथित्वं ब्रह्मविद्यायामित्यत आह ॐ तत्रार्थित्वं तावन्मोक्षविषयम् इति ॐ । क्षयातिशय-
योगस्य स्वर्गाद्युपभोगेऽपि भावादस्ति वैराग्यमित्यर्थः । ननु देवादीनां विग्रहाद्यभावेनेन्द्रियार्थसन्निकर्षजायाः
प्रमाणादिवृत्तेरनुपपत्तेरविद्यतया सामर्थ्याभावेन नाधिकार इत्यत आह ॐ तथा सामर्थ्यमपि तेषाम्


भामती-व्याख्या

जाता है, अतः उक्त वाक्य जीवपरक ही है, ब्रह्मपरक नहीं।' उस शङ्का का परिहार किया
जाता है—"तत्प्रत्युच्यते" । आशय यह है कि जीव के ब्रह्मत्वरूप वास्तविक स्वरूप का
उपदेश विवक्षित है, वह जीव के स्वरूप का अभिधान न करके नहीं किया जा सकता, अतः
'अङ्गुष्ठमात्र' शब्द के द्वारा जीव का अभिधान किया गया है ॥ २५ ॥


'इन्द्रादि देवताओं को भी ब्रह्मज्ञान में अधिकार है'—यह विचार यद्यपि इस समन्व-
याध्याय में संगत नहीं, तथापि प्रासङ्गिक संगति को लेकर वह विचार किया गया है-ऐसा
भाष्यकार कह रहे हैं—"अंगुष्ठमात्रश्रुतिर्मनुष्यहृदयापेक्षया, मनुष्याधिकारत्वाच्छास्त्रस्येत्यु-
क्तम्, तत्प्रसङ्गेनेदमुच्यते।" 'देवगण स्वर्ग के विविध आनन्दप्रद भोगों में लिप्त हैं, उन्हें
उससे वैराग्य न होने के कारण ब्रह्मविद्या में प्रवृत्ति क्योंकर होगी ?' इस शङ्का का समाधान
है—"तत्रार्थित्वं तावत् मोक्षविषयं देवादीनामपि सम्भवति"। अर्थात् स्वर्ग-सुखादि में भी
क्षयित्व और उत्कर्षापकर्षभाव (न्यूनाधिकरूपता) आदि दोषों के कारण वैराग्य हो जाता है,
वैराग्य हो जाने पर मोक्षार्थिता सम्भव हो जाती है। 'देवगणों का शरीरादि न होने के कारण
इन्द्रियार्थ-सन्निकर्ष-सापेक्ष प्रमाणादि व्यवहार क्योंकर होगा ? एवं वेदाध्ययनादि सामर्थ्य का
अभाव होने के कारण ज्ञान में भी अधिकार कैसे होगा ? इस प्रश्न का उत्तर है—"तथा