भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
by वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द)
Source: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (origin)
About this granth
Bhamati (भामती) is one of the foundational sub-commentaries of Advaita Vedanta. Vachaspati Mishra, the ninth or tenth century scholar from Mithila, wrote it on Shankara's commentary (Shariraka Mimamsa Bhashya) on Badarayana's Brahma Sutras; tradition says he named it after his wife. It gave its name to the Bhamati school of Advaita, which differs from the Vivarana school on questions such as the locus of ignorance.
This volume concentrates on the opening section known as the Chatussutri, the first four sutras from 'athato brahmajijnasa' to 'tat tu samanvayat'. Shankara's preamble on superimposition (adhyasa) and his commentary on these four sutras are treated as the groundwork of the whole system, so students of Vedanta spend the most time here.
The edition prints the sutras, Shankara's bhashya, the Bhamati and a detailed Hindi exposition by Swami Yogindrananda, an Udasin monk and disciple of Swami Rishiram. It is part one in the Vidyabhawan Prachyavidya Granthamala (no. 12) of Chowkhamba Vidyabhawan, Varanasi; the scan, of the 2005 printing, runs to 639 pages.
दहराकाशस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३५१
णोपार्जितत्वात् । भक्त्या च तस्य ब्रह्मशब्दवाच्यत्वम् । नहि परस्य ब्रह्मणः शरीरेण
स्वस्वामिभावः संबन्धोऽस्ति । तत्र पुरस्वामिनः पुरैकदेशेऽवस्थानं दृष्टं, यथा राज्ञः ।
भामती
असाधारणेन हि व्यपदेशा भवन्ति । तद्यथा क्षितिजलपवनबीजादिसामग्रीसमवधानजन्माऽप्य-
ङ्कुरः शालिबीजेन व्यपदिश्यते शाल्यङ्कुर इति । न तु क्षित्यादिभिः, तेषां कार्यान्तरेष्वपि साधार-
ण्यात् । तदिह शरीरं ब्रह्मविकारोऽपि न ब्रह्मणा व्यपदेष्टव्यम् । ब्रह्मणः सर्वविकारकारणत्वेनातिसाधा-
रण्यात् । जीवभेदधर्माधर्मोपार्जितं तदित्यसाधारणकारणत्वाज्जीवेन व्यपदिश्यत इति युक्तम् । अपि च
ब्रह्मपुर इति सप्तम्यधिकरणे स्मर्यते,
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३५२ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ १ पा. ३ सू. १४
मनउपाधिकश्च जीवः, मनश्च प्रायेण हृदये प्रतिष्ठितमित्यतो जीवस्यैवेदं हृदयेऽन्तरवस्थानं स्यात् । दहरत्वमपि तस्यैव आराग्रोपमितत्वादवकल्पते । आकाशोपमितत्वादिश्च ब्रह्माभेदविवक्षया भविष्यति । न चात्र दहरस्याकाशस्यान्वेष्टव्यत्वं विजिज्ञासितव्यत्वं च श्रूयते । 'तस्मिन्यदन्तः' इति परविशेषणत्वेनोपादानादिति ।
अत उत्तरं ब्रूमः - परमेश्वर एवात्र दहराकाशो भवितुमर्हति, न भूताकाशो जीवो वा । कस्मात् ? उत्तरेभ्यो वाक्यशेषगतेभ्यो हेतुभ्यः । तथाहि अन्वेष्टव्यतयाऽभिहितस्य दहरस्याकाशस्य 'तं चेद् ब्रूयुः' इत्युपक्रम्य किं तदत्र विद्यते
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inदहराकाशस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३५३
प्रसिद्धाकाशौपम्येन दहरत्वं निवर्त्यन्भूताकाशत्वं दहरस्याकाशस्य निवर्तयतीति
गम्यते । यद्यप्याकाशशब्दो भूताकाशे रूढः, तथापि तेनैव तस्योपमा नोपपद्यत इति
भूताकाशशङ्का निवर्तिता भवति । नन्वेकस्याप्याकाशस्य बाह्याभ्यन्तरत्वकल्पितेन
भेदेनोपमानोपमेयभावः संभवतीत्युक्तम् । नैवं संभवति, अगतिका हीयं गतिः, यत्का-
ल्पनिकभेदाश्रयणम् । अपि च कल्पयित्वापि भेदमुपमानोपमेयभावं वर्णयतः परिच्छ-
न्नतवादभ्यन्तराकाशस्य न बाह्याकाशपरिमाणत्वमुपपद्येत । ननु परमेश्वरस्यापि
'ज्यायानाकाशात्' ( शत० ब्रा० १०।६।३।२ )
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in| ३५४ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ १ पा. ३ सू. १४ |
|---|
शैकदेशे द्यावापृथिव्यादीनामन्तःसमाधानमुपपद्यते । 'एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः' इति चात्मत्वापहतपाप्मत्वादयश्च गुणा न भूताकाशे संभवन्ति । यद्यप्यात्मशब्दो जीवे संभवति, तथापीतरेभ्यः कारणेभ्यो जीवाशङ्कापि निवर्तिता भवति । न ह्युपाधिपरिच्छिन्नस्याराग्रोपमितस्य जीवस्य पुण्डरीकवेष्टनकृतं दहरत्वं शक्यं निवर्तयितुम् । ब्रह्माभेदविवक्षया जीवस्य सर्वगतत्त्वादि विवक्ष्यतेति चेत्,–यदात्मतया जीवस्य सर्वगतत्वादि विवक्ष्येत, तस्यैव ब्रह्मणः साक्षात्सर्वगतत्वादि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inदहराकाशस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३५५
कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते' (छा० ८।१।६) इति
च कर्मणामन्तवत्फलत्वमुक्त्वा 'अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामाँ-
स्तेषां सर्वेषु लोकेषु कामचारो भवति' इति प्रकृतदहराकाशविज्ञानस्यानन्तफलत्वं
वदन् परमात्मत्वमस्य सूचयति। यदप्येतदुक्तं, - न दहरस्याकाशस्यान्वेष्टव्यत्वं विजि-
ज्ञासितव्यत्वं च श्रुतं; परविशेषणत्वेनोपादानादिति, अत्र ब्रूमः - यद्याकाशो नान्वेष्टव्य-
त्वेनोक्तः स्यात्, 'यावान्वा अयमाकाशस्तावनेषोऽन्तर्हृदय आकाशः' इत्याद्याकाश-
स्वरूपप्रदर्शनं नोपयुज्येत।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३५६ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. ३ सू. १४
चेद् ब्रूयुर्यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते
यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यम्' इत्याक्षिप्य परिहारावसर आकाशौपम्योपक्रमेण
द्यावापृथिव्यादीनामन्तःसमाहितत्वदर्शनात् । नैतदेवम् ; एवं हि सति यदन्तःसमाहितं
द्यावापृथिव्यादि तदन्वेष्टव्यं विजिज्ञासितव्यं चोक्तं स्यात्, तत्र वाक्यशेषो नोपपद्येत ।
भामती
न्युत्पादनीयमाकाशव्युत्पादनं तु क्वोपयुज्यते इत्यर्थः । चोदयति ॐ न त्वेतदपि इति ॐ । आकाशकथनर्माप
तदन्तर्वर्तिवस्तुसद्भावप्रदर्शनायैव । अथाकाशपरमेव कस्मान्न भवतीत्यत आह ॐ तं चेद् ब्रूयुः इति ॐ ।
आचार्येण हि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inदहराकाशस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंचलितम् ३५७
'अस्मिन्कामाः समाहिताः', 'एष आत्माऽपहतपाप्मा' इति हि प्रकृतं द्यावापृथिव्यादि समाधानाधारमाकाशमाकृष्य 'अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामान्' इति समुच्चयार्थेन चशब्देनात्मानं कामाधारमाश्रितांश्च कामान्विज्ञेयान्वाक्यशेषो दर्शयति। तस्माद्वाक्योपक्रमेऽपि दहर एवाकाशो हृदयपुण्डरीकाधिष्ठानः सहान्तःस्थैः समाहितैः पृथिव्यादिभिः सत्यैश्च कामैर्विज्ञेय उक्त इति गम्यते। स चोक्तेभ्यो हेतुभ्यः परमेश्वर इति ॥ १४ ॥
गतिशब्दाभ्यां तथाहि दृष्टं लिङ्गं च ॥ १५ ॥
दहरः परमेश्वर उत्तरेभ्यो हेतुभ्य इत्युक्तम्। त एवोत्तरे हेतव इदानीं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३५८ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. ३ सू. १५
(छा० ८।३।२) इति। तत्र प्रकृतं दहरं ब्रह्मलोकशब्देनाभिधाय तद्विषया गतिः प्रजाशब्दवाच्यानां जीवानामाभिधीयमाना दहरस्य ब्रह्मतां गमयति। तथा ह्यहरहर्जीवानां सुषुप्तावस्थायां ब्रह्मविषयं गमनं दृष्टं श्रुत्यन्तरे 'सता सोम्य तदा संपन्नो भवति' (छा० ६।८।१) इत्येवमादौ। लोकेऽपि किल गाढं सुषुप्तमाचक्षते-'ब्रह्मीभूतो ब्रह्मतां गतः' इति। तथा ब्रह्मलोकशब्दोऽपि प्रकृते दहरे प्रयुज्यमानो जीवभूताकाश-शङ्कां निवर्तयन्ब्रह्मतामस्य गमयति। ननु कमलासनलोकमपि ब्रह्मलोकशब्दो गमयेत्। गमयेद्यदि ब्रह्मणो लोक इति षष्ठीसमासवृत्त्या व्युत्पाद्येत, सामानाधिकरण्यवृत्त्या
भामती
इत्यभिसन्धिमती साऽऽदृतमिव
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inदहराकाशस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३५९
तु व्युत्पाद्यमानो ब्रह्मैव लोको ब्रह्मलोक इति परमेव ब्रह्म गमयिष्यति। एवमेव चाहरह-
र्ब्रह्मलोकगमनं दृष्टं ब्रह्मलोकशब्दस्य सामानाधिकरण्यवृत्तिपरिग्रहे लिङ्गम्। न ह्यहरह-
रिमाः प्रजाः कार्यब्रह्मलोकं सत्यलोकाख्यं गच्छन्तीति शक्यं कल्पयितुम् ॥ १५ ॥
धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ॥ १६ ॥
धृतेश्च हेतोः परमेश्वर एवायं दहरः। कथम्? 'दहरोऽस्मिन्नन्तराकाशः' इति हि प्रकृ-
त्याकाशौपम्यपूर्वकं तस्मिन्सर्वसमाधानमुक्त्वा तस्मिन्नेव चात्मशब्दं प्रयुज्यापहतपा-
प्मत्वादिगुणयोगं चोपदिश्य तमेवानतिवृत्तप्रकरणं निर्दिशति—'अथ य आत्मा स
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३६० ब्रह्मसूत्रशाङ्करभाष्यम् [ अ १ पा. ३ सू. १७
प्रसिद्धेश्च ॥ १७ ॥
इतश्च परमेश्वर एव ‘दहरोऽस्मिन्नन्तराकाशः' इत्युच्यते । यत्कारणमाकाशशब्दः परमेश्वरे प्रसिद्धः । 'आकाशो वै नाम नामरूपयोर्निर्वहिता' (छा० ८।१४।१), 'सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते' (छा० १।९।१), इत्यादिप्रयोगदर्शनात् । जीवे तु न क्वचिदाकाशशब्दः प्रयुज्यमानो दृश्यते । भूताकाशस्तु सत्यामप्याकाशशब्दप्रसिद्धावुपमानोपमेयभावाद्यसंभवाच्च ग्रहीतव्य इत्युक्तम् ॥ १७ ॥
भामती
न चेयमाकाशशब्दस्य ब्रह्मणि लक्ष्यमाणविभुत्वादिगुणयोगाद् वृत्तिः साम्प्रतिकी । यथा रथाङ्गनामा चक्रवाक इति लक्षणा, किन्त्वत्यन्तनिगूढेति
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inदहराकाशस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३६१
इतरपरामर्शात्स इति चेन्नासंभवात् ॥ १८ ॥
यदि वाक्यशेषबलेन दहर इति परमेश्वरः परिगृह्येतास्तीतरस्यापि जीवस्य वाक्यशेषे परामर्शः—'अथ य एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति होवाच' (छा० ८।३।४) इति । अत्र हि संप्रसादशब्दः श्रुत्यन्तरे सुषुप्तावस्थायां दृष्टत्वात्तदवस्थावन्तं जीवं शक्नोत्युपस्थापयितुं नार्था-
भामती
भवति गङ्गायाः कूले विवक्षिते गङ्गायां घोषेति प्रयोगः । तत्किमिदानीं पौर्णमास्यां पौर्णमास्या यजेतामावास्यायाममावास्ययेत्यसाधुर्वैदिकः प्रयोगः ? न च पौर्णमास्यमावास्याशब्दावाग्नेयादिषु
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३६२ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. ३ सू. १९
न्तरम्। तथा शरीरव्यपाश्रयस्यैव जीवस्य शरीरात्समुत्थानं संभवति। यथाकाशव्यपा-
श्रयाणां वाय्वादीनामाकाशात्समुत्थानं, तद्वत्। यथा चादृष्टोऽपि लोके परमेश्वरविषय
आकाशशब्दः परमेश्वरधर्मसमभिव्याहारात् 'आकाशो वै नाम नामरूपयोर्निर्वहिता'
इत्येवमादौ परमेश्वरविषयोऽभ्युपगतः, एवं जीवविषयोऽपि भविष्यति। तस्मादितर-
परामर्शात् 'दहरोऽस्मिन्नन्तराकाश' इत्यत्र स एव जीव उच्यत इति चेत्, नैतदेवं
स्यात्; कस्मात्? असंभवात्। नहि जीवो बुद्ध्याद्युपाधिपरिच्छेदाभिमानी सन्नाका-
शेनोपमीयेत। नचोपाधिधर्मानभिमन्यमानस्यापहतपाप्मत्वादयो धर्माः संभवन्ति।
प्रपञ्चितं चतत्प्रथमसूत्रे।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inदहराकाशस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३६३
भामती
पुरुषो दृश्यते एष आत्माऽपहतपाप्मत्वादिगुणः, यद्विज्ञानात्सर्वलोककामावाप्तिः। एतदमृतमभयम् । अथैतच्छ्रुत्वैतावप्रक्षीणकल्मषावरणतया छायापुरुषं जगृहतुः । प्रजापतिञ्च पप्रच्छतुः—अथ योऽयं भगवोऽप्सु दृश्यते यथादर्शं यश्च खङ्गादौ कतम एतेष्वसावथ बैक एव सर्वेष्विति ? तमेतयोः श्रुत्वा प्रश्नं प्रजापतिर्बन्ताहो सुदूरमृवृद्धान्तावेतो, अस्माभिरक्षिस्यान आत्मोपदिष्टः, एतो च छायापुरुषं प्रतिपन्नौ, तद्यदि वयं भ्रान्तौ स्थ इति ब्रूमस्ततः स्वात्मनि समारोपितपाण्डित्यबहुमानौ विमानितौ सन्तौ दौर्मनस्येन यथावदुपदेशं न गृह्णीयाताम् , इत्यनयोराशयमनुरुध्य यथार्थं ग्राहयिष्याम इत्यभिसन्धिमान् प्रत्युवाच ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in| ३६४ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. ३ सू. १९ |
|---|
इति ब्रुवन्नक्षिस्थं द्रष्टारं जीवमात्मानं निर्दिशति । 'एतं त्वेव ते भूयोऽनुव्याख्यास्यामि' ( छा० ८।९।३ ) इति च तमेव पुनः पुनः परामृश्य 'य एष स्वप्ने महीयमानश्चरत्येष आत्मा' ( छा० ८।१०।१ ) इति 'तद्यत्रैतत्सुप्तः समस्तः संप्रसन्नः स्वप्नं न विजानात्येष आत्मा' ( छा० ८।६।३ ) इति च जीवमेवावस्थान्तरगतं व्याचष्टे । तस्यैव चापहतपा-
भामती
पुनश्च प्रजापतिना पृष्टौ तामेव छायामात्मान ऊचतुः । तदुपश्रुत्य प्रजापतिरहो बताद्यापि न प्रशान्त-
एनयोर्विभ्रमः, तद्यथाभिमतमेवात्मतत्त्वं कथयामि तावत् । कालेन कल्मषे क्षीणेऽस्मद्वचनसन्दर्भपौर्वा-
पर्यालोचनयाऽऽत्मतत्त्वं प्रतिपत्स्येते स्वयमेवेति
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inदहराकाशस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३६५
भामती
सोऽयं य एष स्वप्ने महीयमानो वनितादिभिरनेकधा स्वप्नोपभोगान् भुञ्जानो विहरतीति । अस्मिन्नपि देवेन्द्रो भयं ददर्श । यद्यप्ययं छायापुरुषवन्न शरीरधर्माननुपतति, तथापि शोकभयादिविविधबाधानुभवान्न तत्राप्यस्ति स्वस्तिप्राप्तिरित्युक्तवति मघवति पुनरपराणि चर द्वात्रिंशतं वर्षाणि स्वच्छं ब्रह्मचर्यमिदानीमप्यक्षीणकल्मषोऽसीत्यूचे प्रजापतिः । अथास्मिन्नेवङ्कारमुपसन्ने मघवति प्रजापतिरुवाच—य एष आत्माऽपहतपाप्मादिगुणो दर्शितोऽक्षिणि च स्वप्ने च स एष यो विषयेन्द्रियसंप्रयोगविरहात्प्रसन्नः सुषुप्तावस्थायामिति । अत्रापि नेन्द्रो निर्ववार । यथा हि जाग्रद्वा स्वप्नगतो वाऽयमहमस्मीति इमानि भूतानि चेति विजानाति नैवं सुषुप्तः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३६६ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. ३ सू. १९
प्मत्वादि दर्शयति—‘एतदमृतमभयमेतद् ब्रह्म’ इति। नाह खल्वयमेवं संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि’ ( छा० ८।११।१, २) इति च सुषुप्तावस्थायां दोषमुपलभ्य ‘एतं त्वेव ते भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्मात्’ इति चोपक्रम्य, शरीरसम्बन्धनिन्दापूर्वकं ‘एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः’ इति जीवमेव शरीरात्समुत्थितमुत्तमपुरुषं दर्शयति। तस्मादस्ति संभवो जीवे पारमेश्वराणां धर्माणां। अतः ‘दहरोऽस्मिन्नन्तराकाशः’ इति जीव एवोक्त इति चेत्कश्चिद् ब्रूयात्। तं प्रति ब्रूयात् ‘आविर्भूतस्वरूपस्तु’ इति।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inदहराकाशस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३६७
तुशब्दः पूर्वपक्षव्यावृत्त्यर्थः। नोत्तरस्मादपि वाक्यादिह जीवस्याशङ्का संभवतीत्यर्थः। कस्मात्? यतस्तत्राप्याविर्भूतस्वरूपो जीवो विवक्ष्यते। आविर्भूतं स्वरूपमस्येत्याविर्भूत-स्वरूपः। भूतपूर्वगत्या जीववचनम्। एतदुक्तं भवति - 'य एषोऽक्षिणि' इत्यक्षिलक्षितं द्रष्टारं निर्दिश्योदशरावब्राह्मणेनैनं शरीरात्मताया व्युत्थाप्य 'एतं त्वेव ते' इति पुनःपुनः तमेव व्याख्येयत्वेनाकृष्य स्वप्नसुषुप्तोपन्यासक्रमेण 'परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते' इति यदस्य पारमार्थिकं स्वरूपं परं ब्रह्म तद्रूपतयैनं जीवं व्याचष्टे, न जैवेन रूपेण। यत्तत्परं ज्योतिरुपसंपत्तव्यं श्रुतं तत्परं ब्रह्म। तच्चापहतपाप्मत्वादि-धर्मकं,
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३६८ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. ३ सू. १९
मानात्समुत्थितःन्स एव कूटस्थनित्यदृक्स्वरूप आत्मा भवति, 'स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति' (मुण्ड० ३।२।९) इत्यादिश्रुतिभ्यः । तदेव चास्य पारमार्थिकं स्वरूपं येन शरीरात्समुत्थाय स्वेन रूपेणाभिनिष्पद्यते । कथं पुनः स्वं च रूपं स्वेनैव च निष्पद्यत इति संभवति कूटस्थनित्यस्य ? सुवर्णादीनां तु द्रव्यान्तरसंपर्कादभिभूतस्वरूपाणामनभिव्यक्तासाधारणविशेषाणां क्षारप्रक्षेपादिभिः शोध्यमानानां स्वरूपेणाभिनिष्पत्तिः स्यात् । तथा नक्षत्रादीनामह्न्यभिभूतप्रकाशानामभिभावकवियोगे रात्रौ स्वरूपेणाभिनिष्पत्तिः स्यात् । न तु तथात्मचैतन्यज्योतिषो नित्यस्य केनचिदभिभवः संभवत्यसंसर्गित्वाद्
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inदहराकाशस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३६९
प्रमाणजनितविवेकग्रहणात्तु पराचीनः स्फटिकः स्वाच्छ्येन शौक्ल्येन च स्वेन रूपे-
णाभिनिष्पद्यत इत्युच्यते प्रागपि तथैव सन् । तथा देहाद्युपाध्यविविक्तस्यैव सतो
भामती
मिव वृष्ट्यादिरूपमद्य प्रथते । तथा च देहेन्द्रियादिगतैस्तापादिविभिस्तापादिमदिव भवतीति । उपपादित-
ञ्चैतद्विस्तरेणाध्यासभाष्य इति नेहोपपाद्यते । यद्यपि स्फटिकादयो जपाकुसुमादिसन्निहिताः, सन्निधानञ्च
संयुक्तसंयोगात्मकम् , तथा च संयुक्ताः, तथापि न साक्षाज्जपादिकुसुमसंयोगिनः इत्येतावता दृष्टान्तता
इति । ॐ वेदनाः ॐ हर्षभयशोकादयः । दार्ष्टान्तिके योजयति ॐ तथा देहादि इति ॐ । सम्प्रसादोऽस्मा-
च्छरीरात्समुत्थाय परं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in| ३७० | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. ३ सू. १९ |
|---|
जीवस्य श्रुतिकृतं विवेकविज्ञानं शरीरात्समुत्थानम्, विवेकविज्ञानफलं स्वरूपेणाभिनिष्पत्तिः केवलात्मस्वरूपावगतिः । तथा विवेकाविवेकमात्रेणैवात्मनोऽशरीरत्वं सशरीरत्वं च, मन्त्रवर्णात् 'अशरीरं शरीरेषु' (का० १।२।२२) इति, 'शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते' (गी० १३।३१) इति च सशरीरत्वाशरीरत्वविशेषाभावस्मरणात् । तस्माद्विवेकविज्ञानाभावादनाविर्भूतस्वरूपः सन् विवेकविज्ञानादाविर्भूतस्वरूप इत्युच्यते, नत्वन्यादृशावाविर्भावानाविर्भावौ स्वरूपस्य संभवतः स्वरूपत्वादेव । एवं मिथ्याज्ञानकृत एव जीवपरमेश्वरयोर्भेदो न वस्तुतः, व्योमवदसङ्गत्वविशेषात् । कुतश्चैतदेवं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in