भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
by वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द)
Source: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (origin)
Page 381 of 639
Read in contextदहराकाशस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३६३
भामती
पुरुषो दृश्यते एष आत्माऽपहतपाप्मत्वादिगुणः, यद्विज्ञानात्सर्वलोककामावाप्तिः। एतदमृतमभयम् । अथैतच्छ्रुत्वैतावप्रक्षीणकल्मषावरणतया छायापुरुषं जगृहतुः । प्रजापतिञ्च पप्रच्छतुः—अथ योऽयं भगवोऽप्सु दृश्यते यथादर्शं यश्च खङ्गादौ कतम एतेष्वसावथ बैक एव सर्वेष्विति ? तमेतयोः श्रुत्वा प्रश्नं प्रजापतिर्बन्ताहो सुदूरमृवृद्धान्तावेतो, अस्माभिरक्षिस्यान आत्मोपदिष्टः, एतो च छायापुरुषं प्रतिपन्नौ, तद्यदि वयं भ्रान्तौ स्थ इति ब्रूमस्ततः स्वात्मनि समारोपितपाण्डित्यबहुमानौ विमानितौ सन्तौ दौर्मनस्येन यथावदुपदेशं न गृह्णीयाताम् , इत्यनयोराशयमनुरुध्य यथार्थं ग्राहयिष्याम इत्यभिसन्धिमान् प्रत्युवाच ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in