सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

Bhamati of Vachaspati Mishra Hindi

वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा

स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)

कॉपीराइट समस्या बताएँ

DevanagariHindipublished639 पृष्ठ

इस ग्रन्थ के बारे में

भामती अद्वैत वेदान्त का एक आधारभूत टीका-ग्रन्थ है। नवीं-दसवीं शताब्दी के मैथिल आचार्य वाचस्पति मिश्र ने इसे बादरायण के ब्रह्मसूत्र पर शंकराचार्य के शारीरक-मीमांसा-भाष्य की व्याख्या के रूप में लिखा। परम्परा के अनुसार इसका नाम उनकी पत्नी भामती के नाम पर पड़ा। इसी टीका से अद्वैत की 'भामती-प्रस्थान' नामक धारा चली, जो अविद्या के आश्रय और विषय जैसे प्रश्नों पर विवरण-प्रस्थान से भिन्न मत रखती है।

यह खण्ड ब्रह्मसूत्र के आरम्भिक भाग पर केन्द्रित है, जिसे चतुःसूत्री कहा जाता है: 'अथातो ब्रह्मजिज्ञासा', 'जन्माद्यस्य यतः', 'शास्त्रयोनित्वात्' और 'तत्तु समन्वयात्'। शंकर का अध्यास-भाष्य और इन चार सूत्रों का भाष्य पूरे अद्वैत दर्शन की नींव माने जाते हैं, इसलिए वेदान्त के अध्येता सबसे अधिक परिश्रम इन्हीं पर करते हैं।

इस संस्करण में सूत्र, शाङ्करभाष्य, भामती और स्वामी ऋषिराम के शिष्य उदासीन संन्यासी स्वामी योगीन्द्रानन्द की विस्तृत हिन्दी 'भामती-व्याख्या' एक साथ हैं। यह चौखम्बा विद्याभवन, वाराणसी की विद्याभवन प्राच्यविद्या ग्रन्थमाला (क्रमांक १२) का प्रथम भाग है, जिसका यह स्कैन 2005 के संस्करण का है और 639 पृष्ठों का है।

पृष्ठ 282 स्कैन

२६४ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. १ सू. ३१

भामती
नोद्घाटितः। स्वव्याख्यानेनैवोक्तप्रायत्वादिति सर्वमवदातम् ॥ ३१ ॥

इति श्रीवाचस्पतिमिश्रविरचिते भाष्यविभागे भामत्यां
प्रथमस्याध्यायस्य प्रथमः पादः।


भामती-व्याख्या
ह्यर्थो विधीयते" (जै.

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 283 स्कैन

मनोमयस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् २६५

प्रथमाध्याये द्वितीयः पादः ।

[ अत्रास्पष्टब्रह्मलिङ्गयुक्तवाक्यानामुपास्यब्रह्मविषयाणां विचारः ]
( १ सर्वत्र प्रसिद्धयधिकरणम् । सू० १-८ )

प्रथमे पादे 'जन्माद्यस्य यतः' इत्याकाशादेः समस्तस्य जगतो जन्मादिकारणं ब्रह्मेत्युक्तम् । तस्य समस्तजगत्कारणस्य ब्रह्मणो व्यापित्वं, नित्यत्वं, सर्वज्ञत्वं, सर्वशक्तित्वं, सर्वात्मत्वमित्येवंजातीयका धर्मा उक्ता एव भवन्ति । अर्थान्तरप्रसिद्धानां च केषांचिच्छब्दानां ब्रह्मविषयत्वहेतुप्रतिपादनेन कानिचिद्वाक्यानि स्पष्टब्रह्मलिङ्गानि संदिह्यमानानि ब्रह्मपरतया निर्णीतानि । पुनरप्यन्यानि वाक्याून्यस्पष्टब्रह्मलिङ्गानि संदिह्यन्ते—किं

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 284 स्कैन
२६६ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. २ सू. १ ]

सर्वत्र प्रसिद्धोपदेशात् ॥ १ ॥

इदमाम्नायते—'सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत। अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिल्लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत', 'मनोमयः प्राणशरीरो भारूपः' ( छा० ३।१४।१, २ ) इत्यादि । तत्र संशयः—किमिह मनोमयत्वादिभिर्धर्मैः शारीर आत्मोपास्यत्वेनोपदिश्यते, आहोस्वित्परं ब्रह्मेति ? किं तावत्प्राप्तम् ? शारीर इति । कुतः ? तस्य हि कार्यकारणाधिपतेः प्रसिद्धो मनआदिभिः संबन्धो न परस्य ब्रह्मणः, 'अप्राणो ह्यमनाः शुभ्रः' ( मु० २।१।२ ) इत्यादिश्रुतिभ्यः ।


भामती

ॐ

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 285 स्कैन

मनोमयस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् २६७

ननु 'सर्वं खल्विदं ब्रह्म' इति स्वशब्देनैव ब्रह्मोपात्तं, कथमिह शारीर आत्मोपास्य
आशङ्क्यते ? नैष दोषः, नेदं वाक्यं ब्रह्मोपासनाविधिपरं । किं तर्हि ? शमविधिपरम् ।
यत्कारणं 'सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत' इत्याह । एतदुक्तं भवति—
यस्मात्सर्वमिदं विकारजातं ब्रह्मैव तज्जत्वात्तल्लत्वात्तदनत्वाच्च । न च सर्वस्यैकात्म-
त्वेन रागादयः संभवन्ति, तस्माच्छान्त उपासीतेति । न च शमविधिपरत्वे सत्यनेन

भामती

प्राणशरीर इत्यादिभिर्विषयोपनायकैः सम्बध्यते । मनोमयादि च कार्यकारणसङ्घातात्मनो जीवात्मन
एव निरूढमिति जीवात्मनोपास्येनोपरक्तोपासना न पश्चाद्

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 286 स्कैन

२६८ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. २ सू. १

वाक्येन ब्रह्मोपासनं नियन्तुं शक्यते । उपासनं तु 'स क्रतुं कुर्वीत' इत्यनेन विधीयते ।
क्रतुः सङ्कल्पो ध्यानमित्यर्थः । तस्य च विषयत्वेन श्रूयते - 'मनोमयः प्राणशरीरः' इति
जीवलिङ्गम् । अतो ब्रूमो जीवविषयमेतदुपासनमिति । 'सर्वकर्मा सर्वकामः' इत्याद्यपि
श्रूयमाणं पर्यायेण जीवविषयमुपपद्यते । 'एष म आत्माऽन्तर्हृदयेऽणीयान्व्रीहेर्वा
यवाद्वा' इति च हृदयायतनत्वमणीयस्त्वं चाराग्रमात्रस्य जीवस्यावकल्पते, नापरि-
च्छिन्नस्य ब्रह्मणः । ननु 'ज्यायान्पृथिव्या' इत्याद्यपि न परिच्छिन्नेऽवकल्पत इति ।
अत्र ब्रूमः- न तावदणीयस्त्वं ज्यायस्त्वं चोभयमेकस्मिन्समाश्रयितुं शक्यं,

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 287 स्कैन

मनोमयस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् २६९

भविष्यतीति। निश्चिते च जीवविषयत्वे यदन्ते ब्रह्मसंकीर्तनं—'एतद्ब्रह्म' (छा० ३।१४।४) इति, तदपि प्रकृतपरामर्शार्थत्वाज्जीवविषयमेव। तस्मान्मनोमयत्वादिभिर्धर्मैर्जीव उपास्यः।

इत्येवं प्राप्ते ब्रूमः—परमेव ब्रह्म मनोमयत्वादिभिर्धर्मैरुपास्यम्। कुतः? सर्वत्र प्रसिद्धोपदेशात्। यत्सर्वेषु वेदान्तेषु प्रसिद्धं ब्रह्मशब्दस्यालम्बनं जगत्कारणम्, इह च 'सर्वं खल्विदं ब्रह्म' इति वाक्योपक्रमे श्रुतं, तदेव मनोमयत्वादिधर्मैर्विशिष्टमुपदिश्यत इति युक्तम्। एवं च सति प्रकृतहानाप्रकृतप्रक्रिये न

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 288 स्कैन

२७० ब्रह्मसूत्रशाङ्करभाष्यम् [अ. १ पा. २ सू. १

शमविधिधिविवक्षया ब्रह्म निर्दिष्टं न स्वविवक्षयेत्युक्तम्। अत्रोच्यते—यद्यपि शमविधि-
विवक्षया ब्रह्म निर्दिष्टं तथापि मनोमयत्वादिषूपदिश्यमानेषु तदेव ब्रह्म सन्निहितं
भवति। जीवस्तु न सन्निहितो न च स्वशब्देनोपात्त इति वैषम्यम् ॥ १ ॥


भामती

'किमर्थमित्यत्रापि न विज्ञायते। तद्येनैष शब्दः समवेतार्थो भवति स समासार्थः। न चैष जीव एव
समवेतार्थो न ब्रह्मणीति, तस्याप्राणो ह्यमना इत्यादिभिस्तद्विरहप्रतिपादनादिति युक्तम्। तस्यापि
सर्वविकारकारणतया विकाराणां च स्वकारणादभेदात्तेषां च मनोमयतया ब्रह्मणस्तत्कारणस्य मनोमय-
त्वोपपत्तेः।

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 289 स्कैन

मनोमयस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंचालितम् २७१

विवक्षितगुणोपपत्तेश्च ॥ २ ॥

वक्तुमिच्छा विवक्षिता। यद्यप्यपौरुषेये वेदे वक्तुरभावान्नेच्छार्थः सम्भवति, तथाप्युपादानेन फलेनोपचर्यते। लोके हि यच्छब्दाभिहितमुपादेयं भवति तद्विवक्षितमित्युच्यते, यदनुपादेयं तदविवक्षितमिति। तद्ब्रह्मेऽप्युपादेयत्वेनाभिहितं विवक्षितं भवति, इतरदविवक्षितम्। उपादानानुपादाने तु वेदवाक्यतातपर्य्यातात्पर्य्याभ्यामवगम्येते। तदिह ये विवक्षिता गुणा उपासनायामुपादेयत्वेनोपदिष्टाः सत्यसंकल्पप्रभृत-


भामती

विना भुजङ्गो रूपवान्, तदा भुजङ्गस्यैवाभावात् किं रूपवत्। भुजङ्गदशायां तु न नास्ति वास्तवौ रज्जुः। तदिह समारोपितजीवरूपेण वस्तुसद् ब्रह्म

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 290 स्कैन

२७२ ब्रह्मसूत्रशाङ्करभाष्यम् [अ. १ पा. २ सू. २

यस्ते परस्मिन्ब्रह्मण्युपपद्यन्ते । सत्यसंकल्पत्वं हि सृष्टिस्थितिसंहारेष्वप्रतिबद्धशक्तित्वात् परमात्मन एवावकल्पते । परमात्मगुणत्वेन च 'य आत्माऽपहतपाप्मा' (छा० ८।७।१) इत्यत्र 'सत्यकामः सत्यसंकल्प' इति श्रुतम्। आकाशात्मेत्यादिनाकाशवदात्माऽस्येत्यर्थः । सर्वगतत्वादिभिर्धर्मैः संभवत्याकाशेन साम्यं ब्रह्मणः । 'ज्यायान्पृथिव्याः' इत्यादिना चैतदेव दर्शयति । यदाप्याकाश आत्मा यस्येति व्याख्यायते, तदापि संभवति सर्वजगत्कारणस्य सर्वात्मनो ब्रह्मण आकाशात्मत्वम् । अत एव 'सर्वकर्मा' इत्यादि । एवमिहोपास्यतया विवक्षिता गुणा ब्रह्मण्युपपद्यन्ते । यत्तूक्तं 'मनोमयः

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 291 स्कैन

मनोमयस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् २७३

मनुपपत्तिरुच्यते । तुशब्दोऽवधारणार्थः । ब्रह्मैवोक्तेन न्यायेन मनोमयत्वादिशुणं, न तु
शारीरो जीवो मनोमयत्त्वादिगुणः, यत्कारणं 'सत्यसंकल्पः' आकाशात्मा, अवाकी,
अनादरः, ज्यायान्पृथिव्या' इति चैवंजातीयका गुणा न शारीर आञ्जस्येनोपपद्यन्ते ।
शारीर इति शरीरे भव इत्यर्थः । नन्वीश्वरोऽपि शरीरे भवति । सत्यम्, शरीरे
भवति, न तु शरीर एव भवति, 'ज्यायान्पृथिव्या ज्यायानन्तरिक्षात्' ( छा० ३।१४।३ )
'आकाशवत्सर्वगतश्च नित्यः' ( गौड० ३।३ ) इति व्यापित्वश्रवणात् । जीवस्तु शरीर
एव भवति, तस्य

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 292 स्कैन
२७४ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. २ सू. ७

शारीरः' इत्यादिना ? श्रुतिस्तु—'नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता' ( बृ० ३।७।२३ ) इत्येवंजातीयका परमात्मनोऽन्यमात्मानं वारयति । तथा स्मृतिरपि—'क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत' ( गी० १३।२ ) इत्येवंजातीयकेति । अत्रोच्यते—सत्यमेवैतत्, पर एवात्मा देहेन्द्रियमनोबुद्ध्युपाधिभिः परिच्छिद्यमानो बालैः शारीर इत्युपचर्यते । यथा घटकरकाद्युपाधिवशादपरिच्छिन्नमपि नभः परिच्छिन्नवदवभासते, तद्वत् । तदपेक्षया च कर्मकर्तृत्वादिभेदव्यवहारो न विरुध्यते, प्राक् 'तत्त्वमसि' इत्यात्मैकत्वोपदेशग्रहणात् । गृहीते त्वात्मैकत्वे

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 293 स्कैन

मनोमयस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् २७५

कयाचिदपेक्षया सम्भवति । यथा समस्तवसुधाधिपतिरपि हि सन्नयोध्याधिपतिरिति व्यपदिश्यते । कया पुनरपेक्षया सर्वगतः सन्नीश्वरोऽर्भकौका अणीयांश्च व्यपदिश्यत इति ? निचाय्यत्वादेवेति ब्रूमः । एवमणीयस्त्वादिगुणगणोपेत ईश्वरस्तत्र हृदयपुण्डरीके निचाय्यो द्रष्टव्य उपदिश्यते, यथा शालग्रामे हरिः । तत्रास्य बुद्धिविज्ञानं ग्राहकम् । सर्वगतोऽपीश्वरस्तत्रोपास्यमानः प्रसीदति । व्योमवच्चैतद् द्रष्टव्यम् । यथा सर्वगतमपि सद् व्योम सूचीपाशाद्यपेक्षयार्भकौकोऽणीयश्च व्यपदिश्यते; एवं ब्रह्मापि । तदेवं निचाय्यत्वापेक्षं

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 294 स्कैन
२७६ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. २ सू. ९

विशिष्टत्वात्, सुखदुःखादिसंभोगोऽप्यविशिष्टः प्रसज्येत । एकत्वाच्च । न हि परस्मादात्मनोऽन्यः कश्चिदात्मा संसारी विद्यते, 'नान्योऽतोऽस्ति विज्ञाता' (बृ० ३।७।२३) इत्यादिश्रुतिभ्यः । तस्मात्परस्यैव ब्रह्मणः संसारसंभोगप्राप्तिरिति चेत् न, वैशेष्यात् । न तावत्सर्वप्राणिहृदयसंबन्धाच्चिद्रूपतया च शारीरवद् ब्रह्मणः संभोगप्रसङ्गः, वैशेष्यात् । विशेषो हि भवति शारीरपरमेश्वरयोः । एकः कर्ता भोक्ता धर्माधर्मादिसाधनः सुखदुःखादिमांश्च । एकस्तद्विपरीतोऽपहतपाप्मत्वादिगुणः । एतस्मादनयोर्विशेषादेकस्य

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 295 स्कैन

मनोमयस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् २७७

यते। तत्र किमग्निरत्ता स्यात्, उत जीवः, अथवा परमात्मेति संशयः, विशेषानव-
धारणात्, त्रयाणां चाग्निजीवपरमात्मनामस्मिन्ग्रन्थे प्रश्नोपन्यासोपलब्धेः। किं
तावत् प्राप्तम्? अग्निरत्तेति। कुतः? 'अग्निरन्नादः' (बृ० १।४।६) इति श्रुतिप्रसिद्धि-
भ्याम्। जीवो वाऽत्ता स्यात्, 'तयोरन्यः पिप्पलं स्वाद्वत्ति' इति दर्शनात्। न
परमात्मा, 'अनश्नन्नन्योऽभिचाकशीति' (मुण्ड० ३।१।१) इति दर्शनादित्येवं प्राप्ते
ब्रूमः--अत्ताऽत्र परमात्मा भवितुमर्हति। कुतः? चराचरग्रहणात्। चराचरं हि

भामती

जीवात्मनश्च भोक्तृताविधानात् ॐ तयोरन्यः पिप्पलं स्वाद्वत्ति इति ॐ । तद्यदि भोक्तृत्वमत्तृत्वं ततो

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 296 स्कैन
२७८ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. २ सू. ९ ]

स्थावरजङ्गमं मृत्यूपसेचनमिहाद्यत्वेन प्रतीयते, तादृशस्य चाद्यस्य न परमात्मनोऽन्यः कात्स्न्र्येनात्ता संभवति । परमात्मा तु विकारजातं संहरन् सर्वमत्तीत्युपपद्यते । नन्विह चराचरग्रहणं नोपलभ्यते, कथं सिद्धवच्चराचरग्रहणं हेतुत्वेनोपादीयते ? नैष दोषः, मृत्यूपसेचनत्वेन सर्वस्य प्राणिनिकायस्य प्रतीयमानत्वाद् , ब्रह्मक्षत्रयोश्च प्राधान्यात्प्रदर्शनार्थत्वोपपत्तेः । यत्तु परमात्मनोऽपि नात्तृत्वं संभवति, 'अनश्नन्नन्योऽभिचाकशीति' इति दर्शनादिति । अत्रोच्यते- कर्मफलभोगस्य प्रतिषेधकमेतद्दर्शनं, तस्य संनिहितत्वात् । न विकारसंहारस्य प्रतिषेधकं, सर्ववेदान्तेषु सृष्टिस्थितिसंहारकारणत्वेन ब्रह्मणः

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 297 स्कैन

ऋतं पिबतो ब्रह्मत्वम् ] हिन्दीसहितभामतीसंचलितम् २७९

प्रकरणाच्च ॥ १० ॥

इतश्च परमात्मैवेहाऽत्ता भवितुमर्हति, यत्कारणं प्रकरणमिदं परमात्मनः, ‘न जायते म्रियते वा विपश्चित्’ ( काठ० १।२।१८ ) इत्यादि । प्रकृतग्रहणं च न्याय्यम् । ‘क इत्था वेद यत्र सः’ इति च दुर्विज्ञानत्वं परमात्मलिङ्गम् ॥ १० ॥


( ३ गुहाधिकरणम् । सू० ११-१२ )

गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥ ११ ॥

कठवल्लीष्वेव पठ्यते — 'ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः' ( काठ० १।३।१ ) इति ।

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 298 स्कैन
२८०ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. २ सू. ११

बुद्धिजीवौ, ततो बुद्धिप्रधानात्कार्यकरणसंघाताद्विलक्षणो जीवः प्रतिपादितो भवति । तदपीह प्रतिपादयितव्यं, 'येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके । एतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः ॥' (काठ० १।१।२०) इति पृष्टत्वात् । अथ जीवपरमात्मानौ ततो जीवाद्विलक्षणः परमात्मा प्रतिपादितो भवति । तदपीह प्रतिपादयितव्यम्, 'अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् । अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद ॥' (काठ० १।२।१४) इति पृष्टत्वात् । अत्राहाक्षेप्ता—उभावप्येतौ पक्षौ न संभवतः । कस्मात् ? ऋतपानं कर्मफलोपभोगः,

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 299 स्कैन

ऋतं पिबन्तौ ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् २८१

पाययन्नपि पिबतीत्युच्यते, पाचयितर्यपि पक्तृत्वप्रसिद्धिदर्शनात् । बुद्धिक्षेत्रज्ञपरिग्रहोऽपि संभवति, करणे कर्तृत्वोपचारात् । एधांसि पचन्तीति प्रयोगदर्शनात् । न चाध्यात्मोऽधिकारोऽन्यो कौचिद् द्वावृतं पिबन्तौ संभवतः । तस्माद् बुद्धिजीवौ स्यातां, जीवपरमात्मानौ वेति संशयः । किं तावत्प्राप्तं ? बुद्धिक्षेत्रज्ञाविति । कुतः ? 'गुहां

भामती

तदिह बुद्धेरचेतनत्वेन परमात्मनश्च भोक्तृत्वानषेधेन जीवात्मैवकः पाता परिशिष्यत इति सृष्टीरुपदधातीतिवद् द्विवचनानुरोधादपिवत्संस्पृष्टां स्वार्थस्य विवच्छुञ्छब्दो लक्षयन्

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 300
स्थायी लिंक
पृष्ठ 300 स्कैन

२८२ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. २ सू. ११

प्रविष्टौ' इति विशेषात् । यदि शरीरं गुहा, यदि वा हृदयं, उभयथापि बुद्धिक्षेत्रज्ञौ
गुहां प्रविष्टावुपपद्येते । न च सति संभवे सर्वगतस्य ब्रह्मणो विशिष्टदेशत्वं युक्तं
कल्पयितुम् । 'सुकृतस्य लोके' इति च कर्मगोचरानतिक्रमं दर्शयति । परमात्मा तु न
सुकृतस्य वा दुष्कृतस्य वा गोचरे वर्तते; 'न कर्मणा वर्धते नो कनीयान्' इति श्रुतेः ।
'छायातपौ' इति च चेतनाचेतनयोर्निर्देश उपपद्यते; छायातपवत्परस्परविलक्षणत्वात् ।
तस्माद् बुद्धिक्षेत्रज्ञाविहोच्येयातामित्येवं प्राप्ते ब्रूमः—विज्ञानात्मपरमात्मानाविहोच्ये-

भामती

न च पिबन्तावितिवत्प्रविष्टपदमपि लाक्षणिकं युक्तं, सति मुख्यार्थत्वे लाक्षणिकार्थत्वायोगात् ।
बुद्धिजीवयोश्च गुहाप्रवेशोपपत्तेः । अपि च सुकृतस्य लोक इति सुकृतलोकव्यवस्थाननेन कर्मगोचरानतिक्रम
उक्तः । बुद्धिजीवौ च कर्मगोचरमनतिक्रान्तौ । जीवो हि भोक्तृतया बुद्धिश्च भोगसाधनतया धर्मस्य गोचरे
स्थितौ, न तु ब्रह्म; तस्यातदायत्तत्वात् । किञ्च छायातपाविति तमःप्रकाशावुक्तौ । न च जीवः
परमात्मनोऽभिन्नस्तमः, प्रकाशरूपत्वात् । बुद्धिस्तु जडतया तम इति शक्योपदेष्टुम् । तस्माद् बुद्धिजीवा-
वत्र कथ्येते । तत्रापि प्रेते विचिकित्सापनुत्तये बुद्धेर्भेदेन परलोकी जीवो दर्शनीय इति बुद्धिरुच्यते ।

भामती-व्याख्या

कर्म-फल-भोक्ता व्यक्तियों का जो विशेषण दिया गया है—"गुहां प्रविष्टौ" (कठो. १।३।१) ।
वहाँ 'गुहा' पद से चाहे स्थूल शरीर का ग्रहण किया जाय, चाहे हृदय का, उभयथा गुहारूप
नियत (परिच्छिन्न) देश की आधारता बुद्धि और जीव में ही सम्भव है, परमात्मा में उसकी
कल्पना करनी युक्ति-युक्त नहीं, क्योंकि वह सर्वत्रग (व्यापक) है किसी एकदेश में रहनेवाला
(परिच्छिन्न) नहीं । 'पिबन्तौ' पद लाक्षणिक (जीव और ब्रह्म—इन दोनों का लक्षक) है,
वैसे ही "गुहां प्रविष्टौ"—यह भी उभय का लक्षक है'—ऐसा नहीं कह सकते, क्योंकि
मुख्यार्थकत्व का असम्भव हो जाने पर ही किसी पद को लाक्षणिक माना जाता है, बुद्धि
और जीव को लेकर जब 'प्रविष्टौ' पद मुख्यार्थक हो जाता है, तब उसे ब्रह्म का लक्षक
मानने की आवश्यकता नहीं। दूसरी बात यह भी है कि "ऋतं पिबन्तौ सुकृतस्य लोके"
(कठो. १।३।१) इस मन्त्र के 'सुकृत' पद का यद्यपि उपनिषद्भाष्य में भाष्यकार ने 'ऋत' पद
के साथ अन्वय करते हुए कहा है—"सुकृतस्य स्वयंकृतस्य कर्मण ऋतमिति पूर्वेण सम्बन्धः"
(काठक-भाष्य पृ. ५९), किन्तु यहां 'सुकृतस्य लोके' ऐसी लेख-भङ्गी से 'सुकृत' पद का
'लोक' पद के साथ अन्वय प्रतीत हो रहा है। तथापि 'सुकृत' पद का उभयत्र अन्वय माना जा
सकता है । 'सुकृतस्य लोके' का अर्थ है—'स्वयंकृतस्य पूर्वकर्मणः फलभूतेऽस्मिन् शरीरलक्षणे
लोके' । इससे ऋत-पान करनेवालों के साथ कर्म का अटूट सम्बन्ध प्रतिपादित होता है, अतः
ऐसे पान-कर्ता बुद्धि और जीव ही हो सकते हैं; क्योंकि जीव कर्ता और भोक्ता है एवं बुद्धि
तत्त्व भोग का साधन । ब्रह्म वैसा नहीं हो सकता, क्योंकि वह कर्म के अधीन नहीं,
जैसा कि श्रुति कहती है—"न कर्मणा वर्धते नो कनीयान्" (कौ. ब्रा. उ. ३।९) । इसी प्रकार
'छायातपौ' शब्द के द्वारा अन्धकार और प्रकाश अभिहित हैं । जीव और ब्रह्म में से जीव
को अन्धकाररूप नहीं कहा जा सकता, क्योंकि वह प्रकाशस्वरूप ब्रह्म से अभिन्न माना जाता
है, बुद्धि जड़ होने के कारण अन्धकाररूप कही जा सकती है, अतः उक्त श्रुति में 'पिबन्तौ'
पद के द्वारा बुद्धि और जीव का प्रतिपादन किया जाता है। बुद्धि का प्रतिपादन किस लिए ?
इस प्रश्न का उत्तर यह है कि मरने के पश्चात् जो आत्मा की सत्ता और असत्ता का सन्देह
होता है, उसकी निवृत्ति करने के लिए बुद्धितत्त्व से भिन्न परलोकगामी जीव का स्वरूप
दिखाना आवश्यक है, अतः बुद्धि का ग्रहण किया गया है।

पृष्ठ 301
स्थायी लिंक
पृष्ठ 301 स्कैन

ऋतं पिबन्तौ ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् २८३


याताम्। कस्मात् ? आत्मानौ हि तावुभावपि चेतनौ समानस्वभावौ। संख्याश्रवणे
च समानस्वभावेष्वेव लोके प्रतीतिर्दृश्यते । अस्य गोर्द्वितीयोऽन्वेष्टव्य इत्युक्ते गौरित्येव
द्वितीयोऽन्विष्यते, नाश्वः पुरुषो वा । तदिह ऋतपानेन लिङ्गेन निश्चिते विज्ञानात्मनि
द्वितीयान्वेषणाय समानस्वभावश्चेतनः परमात्मैव प्रतीयते । ननूक्तं गुहाहितत्वदर्शनाच्च
परमात्मा प्रत्येतव्य इति गुहाहितत्वदर्शनादेव परमात्मा प्रत्येतव्य इति वदामः ।
गुहाहितत्वं तु श्रुतिस्मृतिष्वसकृत्परमात्मन एव दृश्यते—'गुहाहितं गह्वरेष्ठं पुराणम्'
(काठ० १।२।१२) 'यो वेद निहितं गुहायां परमे व्योमन्' (तै० २।१) 'आत्मान-
मन्विच्छ गुहां प्रविष्टम्' इत्याद्यासु । सर्वगतस्यापि ब्रह्मण उपलब्ध्वर्थो देशविशेषो-
पदेशो न विरुध्यत इत्येतदप्युक्तमेव । सुकृतलोकवर्तित्वं तु छत्रिवत्त्वदेकस्मिन्नपि

भामती

एवं प्राप्तेऽभिधीयते—

ऋतपानेन जीवात्मा निश्चितोऽस्य द्वितीयता ।
ब्रह्मणेव सरूपेण न तु बुद्ध्या विरूपया ॥
प्रथमं सद्वितीयत्वे ब्रह्मणोऽवगते सति ।
गुहाश्रयत्वं चरमं व्याख्येयमविरोधतः ॥

गौः सद्वितीयेत्युक्ते सजातीयेनैव गवान्तरेणावगम्यते, न तु विजातीयेनाश्वादिना । तदिह चेतनो
जीवः सरूपेण चेतनान्तरेणैव ब्रह्मणा सद्वितीयः प्रतीयते, न त्वचेतनया विरूपया बुद्ध्या । तदेवममृतं
पिबन्तावित्यत्र प्रथममवगते ब्रह्मणि तदनुरोधेन चरमं गुहाश्रयत्वं शालग्रामे हरिरितिवद्व्याख्येयम् ।
बहुलं हि गुहाश्रयत्वं ब्रह्मणः श्रुतय आहुः । तदिदमुक्तं ॐ तद्दर्शनादिति ॐ। तस्य ब्रह्मणो गुहाश्रयत्वस्य

भामती-व्याख्या

सिद्धान्त—

ऋतपानेन जीवात्मा निश्चितोऽस्य द्वितीयता ।
ब्रह्मणेव सरूपेण न तु बुद्ध्या विरूपया ॥ १ ॥
प्रथमं सद्वितीयत्वे ब्रह्मणोऽवगते सति ।
गुहाश्रयत्वं चरमं व्याख्येयमविरोधतः ॥ २ ॥

ऋत पान करनेवाला (कर्म-फल-भोक्ता) जीव है—यह तथ्य तो निश्चित है, उसमें
“ऋतं पिबन्तौ”—यहाँ द्विवचन के द्वारा प्रतिपादित जो द्वितीयता है, उसकी निष्पत्ति ब्रह्म
को लेकर ही होती है, बुद्धि का लेकर नहीं, क्योंकि ब्रह्म जीव के समानरूप का (चेतन)
और बुद्धि विरुद्धरूप की (जड़) है। लोक में भी 'इयं गौः सद्वितीया'—ऐसा कहने पर इस
गौ में सद्वितीयता दूसरी गौ को लेकर ही मानी जाती है, गर्दभादि को लेकर नहीं, क्योंकि
दूसरी गौ इस गौ को सजातीय और गर्दभादि विजातीय हैं। फलतः “ऋतं पिबन्तौ”—यहाँ
द्विवचन की उपपत्ति के लिए जीव के साथ ब्रह्म को जोड़ा जा सकता है, क्योंकि “न जायते
म्रियते वा विपश्चित्” (कठो. १।२।१८) इत्यादि पूर्व वाक्यों के द्वारा प्रतिपादित ब्रह्म में ही
गुहाश्रयत्व का वैसे ही अन्वय किया जा सकता है, जैसे शालग्राम में हरि का । ‘गुहाहितं
गह्वरेष्ठं पुराणम्' (कठो. १।२।१२), “यो वेद निहितं गुहायाम्” (तै. उ. २।१),
“आत्मानमन्विच्छ गुहां प्रविष्टम्” इत्यादि अनेक श्रौत-वाक्यों में गुहाश्रित ब्रह्म का प्रतिपादन
किया गया है—इस तथ्य को सूचित करने के लिए सूत्रकार ने कहा है—“तद्दर्शनात्” (ब्र. सू.
१।२।११) । 'तद्दर्शनात्' का अर्थ है—'तस्य (ब्रह्मणः) श्रुतिषु गुहाश्रयत्व दर्शनात्' । जब कि
पूर्व वाक्यों में ब्रह्म का दर्शन प्रस्तुत किया गया है, तब “सुकृतस्य लोके”—इत्यादि परवर्ती