Skip to content
SarvaKosh
Back to the archive

भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

Bhamati of Vachaspati Mishra Hindi

by वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द)

Source: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (origin)

Report a copyright issue

DevanagariHindipublished639 pages

About this granth

Bhamati (भामती) is one of the foundational sub-commentaries of Advaita Vedanta. Vachaspati Mishra, the ninth or tenth century scholar from Mithila, wrote it on Shankara's commentary (Shariraka Mimamsa Bhashya) on Badarayana's Brahma Sutras; tradition says he named it after his wife. It gave its name to the Bhamati school of Advaita, which differs from the Vivarana school on questions such as the locus of ignorance.

This volume concentrates on the opening section known as the Chatussutri, the first four sutras from 'athato brahmajijnasa' to 'tat tu samanvayat'. Shankara's preamble on superimposition (adhyasa) and his commentary on these four sutras are treated as the groundwork of the whole system, so students of Vedanta spend the most time here.

The edition prints the sutras, Shankara's bhashya, the Bhamati and a detailed Hindi exposition by Swami Yogindrananda, an Udasin monk and disciple of Swami Rishiram. It is part one in the Vidyabhawan Prachyavidya Granthamala (no. 12) of Chowkhamba Vidyabhawan, Varanasi; the scan, of the 2005 printing, runs to 639 pages.

Page 261
Page 261 scan

ज्योतिषो ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् २४३

त्वस्य श्रवणात् । 'तदेतद्दृष्टं च श्रुतं चेत्युपासीत' इति च श्रुतेः । 'चक्षुष्यः श्रुतो भवति य एवं वेद' ( छा० ३।१३।८ ) इति चाल्पफलश्रवणादब्रह्मत्वम् । महते हि फलाय ब्रह्मोपासनमिष्यते । नचान्यदपि किंचित्स्ववाक्ये प्राणाकाशवज्ज्योतिषोऽस्ति ब्रह्मत्वलिङ्गम् । नच पूर्वस्मिन्नपि वाक्ये ब्रह्म निर्दिष्टमस्ति; 'गायत्री वा इदं सर्वं भूतम्'

भामती

कौक्षेयज्योतिःसारूप्यं च चक्षुषो रूपवान् श्रुतो विश्रुतो भवतीत्यल्पफलत्वं च स्ववाक्ये श्रूयते । न जातु ज्वलनापरनामा दीप्तिर्विना तेजो ब्रह्मणि सम्भवति । न कौक्षेयज्योतिःसारूप्यमृते बाह्यस्तेजसो ब्रह्मण्यस्ति । न

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 262
Page 262 scan
२४४ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. १ सू. २४ ]

इति छन्दोनिर्देशात् । अथापि कथंचित्पूर्वस्मिन्वाक्ये ब्रह्म निर्दिष्टं स्यात् , एवमपि न तस्येह प्रत्यभिज्ञानमस्ति । तत्र हि 'त्रिपादस्यामृतं दिवि' ( छा. ३।१२।१,६ ) इति द्यौरधिकरणत्वेन श्रूयते, अत्र पुनः 'परो दिवो ज्योतिः' इति द्यौर्मर्यादात्वेन । तस्मात्प्राकृतं ज्योतिरिह ग्राह्यमित्येवं प्राप्ते ब्रूमः—

भामती

वाक्यं शक्यम् । तस्मात्तेज एव ज्योतिर्न ब्रह्मेति प्राप्तम् । तेजःकथनप्रस्तावे तमःकथनं प्रतिपक्षोपन्यासेन प्रतिपक्षान्तरे दृढा प्रतीतिर्भवतीत्येतदर्थम् । चक्षुर्वृत्तेर्निरोधकमित्यर्थावरकत्वेन ।

आक्षेप्ताऽऽह ॐ

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 263
Page 263 scan

ज्योतिषो ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् २४५

ज्योतिरिह ब्रह्म ग्राह्यम्। कुतः ? चरणाभिधानात्। पादाभिधानादित्यर्थः ।

भामती

एकैकां त्रिवृतंत्रिवृतं करवाणीति तेजःप्रभृत्युपासनामात्रविषया श्रुतिनं सङ्कोचयितुं युक्तेत्यर्थः । एवमेकदेशिनि दूषिते परमसमाधाता पूर्वपक्षी ब्रूते । ꣸ अस्तु तर्हि त्रिवृत्कृतमेव इति ꣸ । ꣸ भागिनी युक्ता ꣸ । यद्यप्याधारबहुत्वश्रुतिर्ब्रह्मण्यपि कल्पितोपाधिनिबन्धना कथञ्चिदुपपद्यते । तथापि यथा कार्ये ज्योतिष्यतिशयेनोपपद्यते न तथाऽत्रेत्यत उक्तम् ꣸ उपपद्यतेतराम् इति ꣸ । ꣸ प्राकृतं ꣸ । प्रकृतेर्जातं, कार्यमिति यावत् ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 264
Page 264 scan

२४६ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. १ सू. २४

पूर्वेस्मिन्हि वाक्ये चतुष्पाद्ब्रह्म निर्दिष्टम्—‘तावानस्य महिमा ततो ज्यायाँश्च पूरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’ ( छा० ३।१२।६ ) इत्यनेन मन्त्रेण । तत्र यच्चतुष्पदो ब्रह्मणस्त्रिपादमृतं द्युसंबन्धिरूपं निर्दिष्टं, तदेवेह द्युसंबन्धान्निर्दिष्टमिति

भामती
तद्बलात् तेन नेयानि तेजोलिङ्गान्यपि ध्रुवम् ।
ब्रह्मण्येव प्रधानं हि ब्रह्मच्छब्दो न तत्र तु ॥

औत्सर्गिकं तावद्यदः प्रसिद्धार्थानुवादकत्वं यद्विधिविभक्तिमप्यपूर्वार्थविबोधनस्वभावात्प्रच्यावयति । यथा यस्याहिताग्नेरग्निर्गृहान् दहेत् यस्योभयं हविरात्तिमार्च्छेदिति । यत्र

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 265
Page 265 scan

ज्योतिषो ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् २४७

प्रत्यभिज्ञायते । तत्परित्यज्य प्राकृतं ज्योतिः कल्पयतः प्रकृतहानाप्रकृतप्रक्रिये प्रसज्ये-
याताम् । न केवलं ज्योतिर्वाक्य एव ब्रह्मानुवृत्तिः, परस्यामपि शाण्डिल्यविद्यायामनु-
वर्तिष्यते ब्रह्म । तस्मादिह ज्योतिरिति ब्रह्म प्रतिपत्तव्यम् । यत्तूक्तम्- 'ज्योतिर्दीप्यत'
इति चैतौ शब्दौ कार्ये ज्योतिषि प्रसिद्धाविति । नायं दोषः; प्रकरणाद्ब्रह्मावगमे सत्य-

भामती

विभक्त्यर्थस्यान्यतामात्रेणान्यता युक्ता । एवं च स्ववाक्यस्थानि तेजोलिङ्गान्यसमञ्जसानीति ब्रह्मण्येव
गमयितव्यानि, गमितानि च भाष्यकृता । तत्र ज्योतिर्ब्रह्मविकार इति ज्योतिषा ब्रह्मोपलक्ष्यते । अथ
वा प्रकाशमात्रवचनो ज्योतिःशब्दः,

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 266
Page 266 scan
२४८ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. १ सू. २४

नयोः शब्दयोरविशेषकत्वात् । दीप्यमानकार्यज्योतिरुपलक्षिते ब्रह्मण्यपि प्रयोगसं-
भवात् । 'येन सूर्यस्तपति तेजसेद्धः' ( तै० ब्रा० ३।१२।९।७) इति च मन्त्रवर्णात् ।
यद्वा, — नायं ज्योतिःशब्दश्चक्षुर्वृत्तेरेवानुग्राहके तेजसि वर्तते; अन्यत्रापि प्रयोगदर्शनात् ।
'वाचैवायं ज्योतिषास्ते' ( बृ० ४।३।५ ), 'मनो ज्योतिर्जुषताम्' ( तै० ब्रा० १।६।३।३ )
इति च । तस्माद्यत्कस्यचिदवभासकं तत्तज्ज्योतिःशब्देनाभिधीयते । तथा सति
ब्रह्मणोऽपि चैतन्यरूपस्य समस्तजगदवभासहेतुत्वादुपपन्नो ज्योतिःशब्दः । 'तमेव
भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति' ( कौ० २।५।१५ ) 'तद्देवा ज्योतिषां

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 267
Page 267 scan

ज्योतिषो ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् २४९

नहि इयते फलाय ब्रह्माथ्रयणीयं, इयते नेति नियमहेतुरस्ति । यत्र हि निरस्तसर्वविशेष-संबंधं परं ब्रह्मात्मत्वेनोपदिश्यते, तत्रैकरूपमेव फलं मोक्ष इत्यवगम्यते, यत्र तु गुण-विशेषसंबन्धं प्रतीकविशेषसंबन्धं वा ब्रह्मोपदिश्यते, तत्र संसारगोचराण्येवोच्चावचानि फलानि दृश्यन्ते—'अन्नादो वसुदानो विन्दते वसु य एवं वेद' (बृ० ४।४।२४) इत्या-द्यासु श्रुतिषु । यद्यपि न स्ववाक्ये किंचिज्ज्योतिषो ब्रह्मत्वलिङ्गमस्ति, तथापि पूर्वं-स्मिन्वाक्ये दृश्यमानं ग्रहीतव्यं भवति । तदुक्तं सूत्रकारेण—'ज्योतिश्चरणाभिधानाद्' इति । कथं पुनर्वाक्यान्तरगतेन

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 268
Page 268 scan

२५० ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. १ सू. २५

तत्परिहर्तव्यम् । कथं पुनश्छन्दोऽभिधानान्न ब्रह्माभिहितमिति शक्यते वक्तुं ? यावता
'तावानस्य महिमा' इत्येतस्यामृचि चतुष्पाद् ब्रह्म दर्शितम् । नैतदस्ति, 'गायत्री वा
इदं सर्वम्' इति गायत्रीमुपक्रम्य तामेव भूतपृथिवीशरीरहृदयवाक्प्राणप्रभेदैर्व्याख्याय
'सैषा चतुष्पदा षड्विधा गायत्री तदेतदृचाभ्यनूक्तं तावानस्य महिमा' इति तस्यामेव

भामती

नन्वाकाशस्तल्लिङ्गादित्यनेनैव गतार्थमेतत् । तथाहि । तावानस्य महिमेत्यस्यामृचि ब्रह्म चतुष्पा-
दुक्तम् । सैव च तदेतदृचाभ्यनूक्तमित्यनेन सङ्गमिता ब्रह्मलिङ्गम् । एवं गायत्री वा इदं सर्वमित्यक्षरसन्नि-
वेशमात्रस्य गायत्र्या न

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 269
Page 269 scan
ज्योतिषो ब्रह्मत्वम् ]हिन्दीसहितभामतीसंवलितम्२५१

व्याख्यातरूपायां गायत्र्यामुदाहृतो मन्त्रः कथम कस्माद् ब्रह्म चतुष्पादभिदध्यात्? योऽपि तत्र 'यद्वै तद्ब्रह्म' (छा० ३।१२।५, ६) इति ब्रह्मशब्दः, सोऽपि छन्दसः प्रकृतत्वाच्छन्दो-विषय एव 'य एतामेवं ब्रह्मोपनिषदं वेद' (छा० ३।११।३) इत्यत्र हि वेदोपनिषदमिति व्याचक्षते, तस्माच्छन्दोभिधानान्न ब्रह्मणः प्रकृतत्वमिति चेत्,—नैष दोषः, 'तथा चेतोऽर्पणनिगदात्' तथा गायत्र्याख्यच्छन्दोद्वारेण तदनुगते ब्रह्मणि चेतसोऽर्पणं चित्त-समाधानमनेन ब्राह्मणवाक्येन निगद्यते—'गायत्री वा इदं सर्वम्' इति। न ह्यक्षरसंनि-वेशमात्राया गायत्र्याः सर्वात्मकत्वं संभवति। तस्माद्यद्गायत्र्याख्यविकारेऽनुगतं जग-

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 270
Page 270 scan
२५२ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. १ सू. २५

त्कारणं ब्रह्म, तर्हि सर्वमित्युच्यते ? यथा 'सर्वं खल्विदं ब्रह्म' (छा० ३।१४।१) इति । कार्यं च कारणादव्यतिरिक्तमिति वक्ष्यामः—'तदनन्यत्वमारम्भणशब्दादिभ्यः' ( ब्र० २।१।१४) इत्यत्र । तथान्यत्रापि विकारद्वारेण ब्रह्मण उपासनं दृश्यते—'एतं ह्येव बह्वृचा महत्युक्थे मीमांसन्त एतमग्नावध्वर्यव एतं महाव्रते छन्दोगाः' ( ऐ० आ० ३।२।३।१२ ) इति । तस्मादस्ति छन्दोऽभिधानेऽपि पूर्वस्मिन्वाक्ये चतुष्पाद् ब्रह्म निर्दिष्टम् । तदेव ज्योतिर्वाक्येऽपि परामृश्यत उपासनान्तरविधानाय ।

अपर आह—साक्षादेव गायत्रीशब्देन ब्रह्म प्रतिपाद्यते, संख्यासामान्यात् ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 271
Page 271 scan
ज्योतिषो ब्रह्मत्वम् ]हिन्दीसहितभामतीसंवलितम्२५३

घ्याथी शब्दोऽर्थान्तरे संख्यासामान्यात्प्रयुज्यमानो दृश्यते । तद्यथा- 'ते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृतम्' इत्युपक्रम्याह 'सैषा विराडन्नादी' ( छा० ४।३।८ ) इति । अस्मिन्पक्षे ब्रह्मैवाभिहितमिति न छन्दोऽभिधानम् । सर्वथाप्यस्ति पूर्वस्मिन्वाक्ये प्रकृतं ब्रह्म ॥ २५ ॥

भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॥ २६ ॥

इतश्चैवमभ्युपगन्तव्यमस्ति, पूर्वस्मिन्वाक्ये प्रकृतं ब्रह्मेति । यतो भूतादीन्पादान्व्यपदिशति । भूतपृथिवीशरीरहृदयानि हि निर्दिश्याह — 'सैषा चतुष्पदा षड्विधा गायत्री' इति । नहिं ब्रह्मसमाश्रयणे केवलस्य छन्दसो भूतादयः पादा उपपद्यन्ते । अपि


Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 272
Page 272 scan

२५४ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. १ सू. २६

च ब्रह्मानाश्रयणे नेयमृक् संबध्येत—'तावानस्य महिमा' इति। अनया हि ऋचा स्वर-
सेन ब्रह्मैवाभिधीयते, 'पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि' (छा० ३।१२।५ )
इति सर्वात्मत्वोपपत्तेः । पुरुषसूक्तेऽपीयमृङ्ग्रहपरतयैव समाम्नायते । स्मृतिश्च ब्रह्मण
एवंरूपतां दर्शयति—'विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्' (गी० १०।४२ )
इति, 'यद्वै तद् ब्रह्म' ( छा० ३।१२।७ ) इति च निर्देशः । एवं सति मुख्यार्थ उपपद्यते ।
'पञ्च ब्रह्मपुरुषाः' (छा० ३।१३।६ ) इति च हृदयसुषिषु ब्रह्मपुरुषश्रुतिर्ब्रह्मसंबन्धितायां
विवक्षितायां संभवति । तस्मादस्ति पूर्वस्मिन्वाक्ये ब्रह्म प्रकृतम् । तदेव ब्रह्म ज्योति-

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 273
Page 273 scan

प्राणस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् २५५

वृक्षाग्रात्परतः श्येन इति च । एवं दिव्येव सद्ब्रह्म दिवः परमित्युपदिश्यते । अपर आह - यथा लोके वृक्षाग्रेणासंबद्धोऽपि श्येन उभयथोपदिष्यमानो दृश्यते, वृक्षाग्रे श्येनो वृक्षाग्रात्परतः श्येन इति च । एवं च दिवः परमपि सद् ब्रह्म दिवीत्युपदिश्यते । तस्मादस्ति पूर्वनिर्दिष्टस्य ब्रह्मण इह प्रत्यभिज्ञानम् । अतः परमेव ब्रह्म ज्योतिःशब्दमिति सिद्धम् ॥ २७ ॥


( ११ प्रतर्दनाधिकरणम् । सू० २८-३१ )

प्राणस्तथानुगमात् ॥ २८ ॥

**अस्ति

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 274
Page 274 scan
२५६ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. १ सू. २८

सिरिन्द्रस्य प्रियं धामोपजगाम युद्धेन च पौरुषेण च' इत्यारभ्याम्नाता । तस्यां श्रूयते - 'स होवाच प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्स्व' इति । तथोत्तरत्रापि 'अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति' (कौ० ३।१,२,३) इति । तथा 'न वाचं विजिज्ञासीत वक्तारं विद्याद्' इति । अन्ते च 'स एष प्राण एव प्रज्ञात्मानन्दोऽजरोऽमृतः' (कौ० ३।८) इत्यादि ।

भामती

कतमदित्यत्र विचार्यते । न चायमर्थोऽत एव प्राण इत्यत्र विचारितः । स्यादेतत् — हिततमपुरुषार्थसिद्धश्च निखिलभ्रूणहत्यादिपापापरामर्शश्च प्रज्ञात्मत्वं चानन्त्वादिश्च न मुख्ये प्राणे सम्भवन्ति । तथैष साधु कर्म

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 275
Page 275 scan

प्राणस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् २५७

तत्र संशयः - किमिह प्राणशब्देन वायुमात्रमभिधीयते, उत देवतात्मा, उत जीवः, अथवा परं ब्रह्मेति ? ननु 'अत एव प्राणः' इत्यत्र वर्णितं प्राणशब्दस्य ब्रह्म-परत्वम् । इहापि च ब्रह्मलिङ्गमस्ति - 'आनन्दोऽजरोऽमृतः' इत्यादि । कथमिह पुनः संशयः संभवति ? अनेकलिङ्गदर्शनादिति ब्रूमः । न केवलमिह ब्रह्मलिङ्गमेवोपलभ्यते, सन्ति हीतरलिङ्गान्यपि—'मामेव विजानीहि' (कौ० ३।१) इतीन्द्रस्य वचनं देवता-त्मलिङ्गम् । इदं शरीरं परिगृह्योत्थापयतीति प्राणलिङ्गम् । 'न वाचं विजिज्ञासीत वक्तारं विद्याद्' इत्यादि जीवलिङ्गम् । अत उपपन्नः संशयः तत्र प्रसिद्धेर्वायुः प्राण इति प्राप्ते

भामती

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 276
Page 276 scan
२५८ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. १ सू. २८

उच्यते—प्राणशब्दं ब्रह्म विज्ञेयम् । कुतः ? तथाऽनुगमात् । तथा हि—पौर्वापर्येण पर्यालोच्यमाने वाक्ये पदार्थानां समन्वयो ब्रह्मप्रतिपादनपर उपलभ्यते । उपक्रमे तावत् 'वरं वृणीष्व' इतीन्द्रेणोक्तः प्रतर्दनः परमं पुरुषार्थं वरमुपचिक्षेप—'त्वमेव मे वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे' इति । तस्मै हिततमत्वेनोपदिश्यमानः प्राणः कथं परमात्मा न स्यात् ? नह्यान्यत्र परमात्मज्ञानाद्धिततमप्राप्तिरस्ति, 'तमेव विदि-

भामती

सहोत्क्रामतः' इति यस्यैव प्राणस्य प्रज्ञात्मन उपास्यत्वमुक्तं तस्यैव प्राणस्य प्रज्ञात्मना सहोत्क्रमणमुच्यते । न च ब्रह्मण्यभेदे द्विवचनं, न

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 277
Page 277 scan

प्राणस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् २५९

त्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय' ( श्वेता० ३।८ ) इत्यादिश्रुतिभ्यः । तथा 'स यो मां वेद न ह वै तस्य केनचन कर्मणा लोको मीयते न स्तेयेन न भ्रूणहत्याया' ( कौ० ३।१ ) इत्यादि च ब्रह्मपरिग्रहे घटते । ब्रह्मविज्ञानेन हि सर्वकर्मक्षयः प्रसिद्धः - 'क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे' ( मु० २।२।८ ) इत्याद्यासु श्रुतिषु । प्रज्ञात्मत्वं च ब्रह्मपक्ष एवोपपद्यते, नहाचेतनस्य वायोः प्रज्ञात्मत्वं संभवति । तथोपसंहारेऽपि - 'आनन्दोऽजरोऽमृतः' इत्यानन्दत्वादीनि न ब्रह्मणोऽन्यत्र सम्यक् संभवन्ति । 'स न साधुना कर्मणा भूयान्भवति नो एवासाधुना

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 278
Page 278 scan
२६०ब्रह्मसूत्रशाङ्करभाष्यम्[अ. १ पा. १ सू. ३०

प्रत्यगात्मसंबन्धः, तस्य भूमा बाहुल्यम् , अस्मिन्नध्याये उपलभ्यते । 'यावद्धयस्मिन् शरीरे प्राणो वसति तावदायूः' इति प्राणस्यैव प्रज्ञात्मनः प्रत्यग्भूतस्यायुष्प्रदानोप-संहारयोः स्वातन्त्र्यं दर्शयति, न देवताविशेषस्य पराचीनस्य । तथाऽस्तित्वे च प्राणानां निःश्रेयसमित्यध्यात्ममेवेन्द्रियाश्रयं प्राणं दर्शयति । तथा 'प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति' (कौ० ३।३) इति । 'न वाचं विजिज्ञासीत वक्तारं विद्यात्' इति चोपक्रम्य 'तद्यथा रथस्यारेषु नेरिमर्र्पिता नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञा-मात्रास्वर्पिताः

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 279
Page 279 scan

[ प्राणस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् २६१

जीवमुख्यप्राणलिङ्गानेति चेन्नोपासात्रैविध्या-

दाश्रितत्वादिह तद्योगात् ॥ ३१ ॥

यद्यप्यध्यात्मसंबन्धभूमादर्शनान्न पराचीनस्य देवतात्मन उपदेशः, तथापि न ब्रह्मवाक्यं भवितुमर्हति । कुतः ? जीवलिङ्गान्मुख्यप्राणलिङ्गाच्च । जीवस्य तावदस्मिन् वाक्ये विस्पष्टं लिङ्गमुपलभ्यते 'न वाचं विजिज्ञासीत वक्तारं विद्याद्' इत्यादि । अत्र हि वागादिभिः करणैर्व्यापृतस्य कार्यकारणाध्यक्षस्य जीवस्य विज्ञेयत्वमभिधीयते । तथा मुख्यप्राणलिङ्गमपि—'अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति' इति । शरीरधारणं च मुख्यप्राणस्य धर्मः,

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 280
Page 280 scan

२६२ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. १ सू. ३१

उपासात्रैविध्यात् । एवं सति त्रिविधमुपासनं प्रसज्येत—जीवोपासनं, मुख्यप्राणो-
पासनं ब्रह्मोपासनं चेति। न चैतदेकस्मिन् वाक्येऽभ्युपगन्तुं युक्तम्, उपक्रमोपसंहारा-
भ्यां हि वाक्यैकत्वमवगम्यते। 'मामेव विजानीहि' इत्युपक्रम्य 'प्राणोऽस्मि
प्रज्ञात्मा तं मामायुरमृतमित्युपास्स्व' इत्युक्त्वा, अन्ते 'स एव प्राण
एव प्रज्ञात्मानन्दोऽजरोऽमृतः' इत्येकरूपावुपक्रमोपसंहारौ दृश्येते । तत्रार्थैकत्वं
युक्तमाश्रयितुम् । न च ब्रह्मलिङ्गमन्यपरत्वेन परिणेतुं शक्यम्, दशानां भूतमात्राणां
प्रज्ञामात्राणां च ब्रह्मणोऽन्यत्रापर्णानुपपत्तेः । आश्रितत्वाच्चान्यत्रापि

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in