भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
by वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द)
Source: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (origin)
Page 264 of 639
Read in context२४६ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. १ सू. २४
पूर्वेस्मिन्हि वाक्ये चतुष्पाद्ब्रह्म निर्दिष्टम्—‘तावानस्य महिमा ततो ज्यायाँश्च पूरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’ ( छा० ३।१२।६ ) इत्यनेन मन्त्रेण । तत्र यच्चतुष्पदो ब्रह्मणस्त्रिपादमृतं द्युसंबन्धिरूपं निर्दिष्टं, तदेवेह द्युसंबन्धान्निर्दिष्टमिति
भामती
तद्बलात् तेन नेयानि तेजोलिङ्गान्यपि ध्रुवम् ।
ब्रह्मण्येव प्रधानं हि ब्रह्मच्छब्दो न तत्र तु ॥
औत्सर्गिकं तावद्यदः प्रसिद्धार्थानुवादकत्वं यद्विधिविभक्तिमप्यपूर्वार्थविबोधनस्वभावात्प्रच्यावयति । यथा यस्याहिताग्नेरग्निर्गृहान् दहेत् यस्योभयं हविरात्तिमार्च्छेदिति । यत्र
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in