Skip to content
SarvaKosh
Back to the archive

भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

Bhamati of Vachaspati Mishra Hindi

by वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द)

Source: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (origin)

Report a copyright issue

DevanagariHindipublished639 pages

About this granth

Bhamati (भामती) is one of the foundational sub-commentaries of Advaita Vedanta. Vachaspati Mishra, the ninth or tenth century scholar from Mithila, wrote it on Shankara's commentary (Shariraka Mimamsa Bhashya) on Badarayana's Brahma Sutras; tradition says he named it after his wife. It gave its name to the Bhamati school of Advaita, which differs from the Vivarana school on questions such as the locus of ignorance.

This volume concentrates on the opening section known as the Chatussutri, the first four sutras from 'athato brahmajijnasa' to 'tat tu samanvayat'. Shankara's preamble on superimposition (adhyasa) and his commentary on these four sutras are treated as the groundwork of the whole system, so students of Vedanta spend the most time here.

The edition prints the sutras, Shankara's bhashya, the Bhamati and a detailed Hindi exposition by Swami Yogindrananda, an Udasin monk and disciple of Swami Rishiram. It is part one in the Vidyabhawan Prachyavidya Granthamala (no. 12) of Chowkhamba Vidyabhawan, Varanasi; the scan, of the 2005 printing, runs to 639 pages.

Page 209
Page 209 scan

प्रधानस्य जगत्कारणत्वभङ्गः ] हिन्दीसहितभामतीसंवलितम् १९१

भामती
सम । तस्याम्नायतो नित्यज्ञानस्वभावत्वविनिश्चयात् । नन्वत एवास्य नेक्षितृत्वं; नित्यस्य ज्ञानस्वभाव-
भूतस्येक्षणस्याक्रियात्वेन ब्रह्मणस्तत्प्रति निमित्तभावाभावात् । अक्रियानिमित्तस्य च कारकत्वनिवृत्तौ
तद्व्याप्यस्य तद्विशेषस्य कर्तृत्वस्य निवृत्तेः । सत्यं ब्रह्मस्वभावश्चैतन्यं नित्यतया न क्रिया, तस्य त्वनवच्छि-
न्नस्य तत्तद्विषयोपाधानभेदावच्छेदेन कल्पितभेदस्यानित्यत्वं कार्य्यत्वं चोपपद्यते । तथा चैवंलक्षणे ईक्षणे
सर्वविषये ब्रह्मणः स्वातन्त्र्यलक्षणं कर्तृत्वमुपपन्नम् । यद्यपि च कूटस्थनित्यस्यापरिणामिन औदासीन्यमस्य
वास्तवं तथाप्यनाद्यनिर्वचनीयाविद्यावच्छिन्नस्य व्यापारवत्त्वमवभासत इति कर्तृत्वोपपत्तिः । परैरपि च
चिच्छक्तेः कूटस्थनित्याया वृत्तौ प्रति कर्तृत्वमीदृशमेवाभ्युपेयम् । चैतन्यसामानाधिकरण्येन ज्ञातृत्वोप-
लब्धेः । न हि प्राधानिकाभ्यन्तरबाह्यकरणानि त्रयोदश सत्त्वप्रधानान्यपि स्वयमेवाचेतनानि तद्वृत्तयश्च
स्वं वा परं वा वेदितुमुत्सहन्ते । नो खल्वन्धाः सहस्रमपि पान्थाः पन्थानं विदन्ति । चक्षुष्मता चैकेन
चेद् वेद्यते, स एव तर्हि मार्गदर्शी स्वतन्त्रः कर्त्ता नेता तेषाम् । एवं बुद्धिसत्त्वस्य स्वयमचेतनस्य चिति-

भामती-व्याख्या
में नहीं । इसी प्रकार ब्रह्म में ही ईक्षितृत्व मुख्य रूप से घटता है, क्योंकि वेद के द्वारा उसमें
नित्यज्ञानरूपता प्रतिपादित है, प्रधानादि में नहीं ।

शङ्का—नित्यज्ञानस्वरूपता होने के कारण ही ब्रह्म में ईक्षण-कर्तृत्व सम्भव नहीं,
क्योंकि घटादि कार्य (जन्य) पदार्थों का ही कुलालादि में कर्तृत्व देखा जाता है, नित्य
ज्ञानरूप ईक्षण कार्य (जन्य) पदार्थ नहीं, अतः उसका कर्तृत्व ब्रह्म में क्योंकर होगा ? 'यत्र
यत्र कारकत्वम्, तत्र तत्र क्रिया-निमित्तत्वम्'—इस प्रकार व्यापकीभूत क्रिया-निमित्तत्व की
निवृत्ति हो जाने से ब्रह्म में कारकत्व ही नहीं घटता, कारकत्व धर्म कर्तृत्वादि का व्यापक है,
उसकी निवृत्ति हो जाने से उसके व्याप्यभूत कर्तृत्व की भी निवृत्ति हो जाती है, तब ब्रह्म में
ईक्षणकर्तृत्व कैसे बनेगा ?

समाधान—यह सत्य है कि ब्रह्मस्वरूप ज्ञान नित्य है, कार्य (जन्य) नहीं, किन्तु
स्वभावतः अनवच्छिन्न ज्ञान अपनी विषयरूप उपाधियों से अवच्छिन्न होकर वैसे ही कार्य
(अनित्य) माना जाता है, जैसे घटादि से अवच्छिन्न होकर आकाश । फलतः इस प्रकार के
ईक्षणरूप ज्ञान को लेकर ब्रह्म में उसका "स्वतन्त्रः कर्त्ता" (पा. सू. १।४।५४) के अनुसार
कर्तृत्व उपपन्न हो जाता है । यद्यपि इस कूटस्थ, नित्य और अपरिणामी ब्रह्म में औदासीन्य
(अक्रियाकारित्व) ही वास्तविक है, तथापि अनादि और अनिर्वचनीय अविद्या से अवच्छिन्न
होकर ब्रह्म क्रियावान् हो जाता है, अतः उसमें कर्तृत्व बन जाता है । सांख्याचार्यादि भी
चिति शक्ति (पुरुष) को कूटस्थ और नित्य मानते हैं, अतः उन्हें भी बुद्धिस्थ वृत्ति (क्रिया)
का कर्तृत्व ऐसा ही स्वीकार करना होगा, क्योंकि ज्ञातृत्व जड़ में नहीं, चेतन में ही प्रतीत
होता है ।

प्रधान (प्रकृति) के द्वारा जो मन, बुद्धि और अहङ्काररूप त्रिविध अन्तःकरण, पाँच
ज्ञानेन्द्रिय और पाँच कर्मेन्द्रिय रूप दशविध बाह्य करण; सब मिलाकर तेरह प्रकार का
करण-कलाप उत्पन्न किया जाता है—"करणं त्रयोदशविधम्" (सां. का. ३२) । वह सब
सत्त्व गुण का कार्य होने पर भी अचेतन एवं उसकी वृत्तियां भी जड़ हैं, अतः वे न अपने को
जान सकती हैं और न अपने से भिन्न विषय को । हजारों अन्धे यदि मिलकर किसी मार्ग
पर चल पड़ते हैं, तब भी उस मार्ग का ज्ञान प्राप्त नहीं कर सकते, किन्तु आँखवाला व्यक्ति
भले ही एक अकेला हो, यदि सब कुछ देख सकता है, तब वही आँखवाला व्यक्ति ही सभी का
नेता माना जायगा । बुद्धिगत सत्त्व स्वयं अचेतन होकर जिस चैतन्य की छाया पत्ति के द्वारा

Page 210
Page 210 scan

१९२ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. १ सू. ५

भामती

बिम्बसंक्रान्त्या चेदापन्नं चैतन्यस्य ज्ञातृत्वम् , चितिरेव ज्ञात्री स्वतन्त्रा, नान्तर्बहिकरणान्यन्धसहस्र-
प्रतिमान्यस्वतन्त्राणि। न चास्याश्चितेः कूटस्थनित्याया अस्ति व्यापारयोगः। न च तदयोगेऽप्यज्ञातृत्वं
व्यापारवतामपि जडानामज्ञत्वात्। तस्मादन्तःकरणवर्तिनं व्यापारमारोप्य चितिशक्तौ कर्तृत्वाभिमा-
नोऽन्तःकरणे वा चैतन्यमारोप्य तस्य ज्ञातृत्वाभिमानः। सर्वथा भवन्मतेऽपि नेदं स्वाभाविकं क्वचिदपि
ज्ञातृत्वमपि तु सांव्यावहारिकमेवेति परमार्थः। नित्यस्यात्मनो ज्ञानं परिणाम इति च भेदाभेदपक्षम्-
पाकुर्वद्भिः परास्तम्। कूटस्थस्य नित्यस्यात्मनोऽव्यापारवत एव

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 211
Page 211 scan

प्रधानकारणतावादभङ्गः ] हिन्दीसहितभामतीसंवलितम् १९३


भामती

चोपचये सति ततो नामरूपमन्नमदनीयं साधारणं संसारिणां व्याचिकीर्षितमभिजायते । तस्मादव्याकृताद् व्याचिकीर्षिताद् अन्नात्प्राणो हिरण्यगर्भो ब्रह्मणो ज्ञानक्रियाशक्त्यधिष्ठानं जगत् सूत्रात्मा साधारणो जायते । यथाऽव्याकृताद् व्याचिकीर्षितात् पटाद् अवान्तरकार्यं द्वितन्तुकादि । तस्माच्च प्राणाद् मनआख्यं सङ्कल्पविकल्पादिव्याकरणात्मकं जायते । ततो व्याकरणात्सकात् मनसः सत्यशब्दवाच्यान्याकाशादीनि जायन्ते । तेभ्यश्च सत्याख्येभ्योऽनुक्रमेण लोका भूर्वादयः । तेषु मनुष्यादिप्राणिनो वर्णाश्रमक्रमेण कर्माणि धर्माधर्मरूपाणि जायन्ते । कर्मंसु चामृतं फलं स्वर्गनरकादि । तच्च स्वनििमत्तयोर्धर्माधर्मयोः सतोर्न विनश्यतीत्यमृतं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 212
Page 212 scan
१९४ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. १ सू. ५

'तदैक्षत बहुस्यां प्रजायेयेति तत्तेजोऽसृजत' ( छान्दो० ६।२।३ ) इति । तत्रेवंदशब्दवाच्यं नामरूपव्याकृतं जगत्प्रागुत्पत्तेः सदात्मनावधार्य तस्यैव प्रकृतस्य सच्छब्दवाच्यस्येक्षणपूर्वकं तेजःप्रभृतेः स्रष्टृत्वं दर्शयति । तथान्यत्र — 'आत्मा वा इदमेक एवाग्र

भामती

प्रधानपरमाण्वादि । अशब्दं हिं तत् । न च प्रधानं परमाणवो वा तदतिरिक्तसर्वज्ञेश्वराधिष्ठिता जगदुपादानमिति साम्प्रतम्, तेषां भेदेन कार्य्यत्वात् । कारणात्कार्याणां भेदाभावात् । कारणज्ञानेन समस्तकार्यपरिज्ञानस्य मृदादिनिदर्शनेनागमेन प्रसाधितत्वात् । भेदे च तदनुपपत्तेः । साक्षाच्च 'एकमेवाद्वितीयं' 'नेह नानास्ति

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 213
Page 213 scan

प्रधानकारणतावादभङ्गः ] हिन्दीसहितभामतीसंवलितम् १९५

आसीत्। नान्यत्किंचन मिषत् । स ईक्षत लोकान्नु सृजा इति । स इमाँल्लोकानसृजत' ( ऐत० १।१।१ ) इतीक्षापूर्विकानेव सृष्टिमाचष्टे । क्वचिच्च षोडशकलं पुरुषं प्रस्तुत्याह - 'स ईक्षांचक्रे। स प्राणमसृजत' ( प्रश्न० ६।३ ) इति । ईक्षतेरिति च धात्वर्थनिर्देशोऽभिप्रेतः, यजतेरितिवत् । न धातुनिर्देशः । तेन 'यः सर्वज्ञः सर्वविद्यस्य

भामती
च चेतनं कारणमात्मन एव बहुभावमाह । तेनापि कारणाच्चेतनादभिन्नं कार्यमवगम्यते । यद्यप्याकाशाद्या भूतसृष्टिस्तथापि तेजोबन्नानामेव त्रिवृत्करणस्य विवक्षितत्वात् तत्र तेजसः प्राथम्यात् तेजः प्रथममुक्तम् । एकद्वितीयं जगदुपादानमित्यत्र श्रुत्यन्तरमपि पठति ॐ तथान्यत्र ॐ

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 214
Page 214 scan

१९६ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. १ सू. ५

ज्ञानमयं तपः । तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते' ( मुण्ड० १।१।९ ) इत्येवमादी-
न्यपि सर्वज्ञेश्वरकारणपराणि वाक्याक्युदाहर्तव्यानि ।
यत्तूक्तं सत्त्वधर्मेण ज्ञानेन सर्वज्ञं प्रधानं भविष्यतीति, तन्नोपपद्यते । नहि प्रधाना-
वस्थायां गुणसाम्यात्सत्त्वधर्मो ज्ञानं संभवति । ननूक्तं, सर्वज्ञानशक्तिमत्त्वेन सर्वज्ञं भवि-
ष्यतीति । तदपि नोपपद्यते । यदि गुणसाम्ये सति सत्त्वव्यपाश्रयां ज्ञानशक्तिमाश्रित्य
सर्वज्ञं प्रधानमुच्येत, कामं रजस्तमोव्यपाश्रयामपि ज्ञानप्रतिबन्धकशक्तिमाश्रित्य
किंचिज्ज्ञमुच्येत । अपि च नासाक्षिका सत्त्ववृत्तिर्ज्ञानातिनाऽभिधीयते । न चाचेतनस्य
प्रधानस्य साक्षित्वमस्ति ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 215
Page 215 scan
प्रधानकारणतावादभङ्गः ]हन्दीसहितभामतीसंवलितम्१९७

तृत्वं प्रधानस्य कल्प्येत, यथाऽग्निनिमित्तमयःपिण्डादेर्दग्धृत्वम् ; तथा सति यन्निमित्तमीक्षितृत्वं प्रधानस्य तदेव सर्वज्ञं मुख्यं ब्रह्म जगतः कारणमिति युक्तम् ।

यत्पुनरुक्तं—ब्रह्मणोऽपि न मुख्यं सर्वज्ञत्वमुपपद्यते, नित्यज्ञानक्रियत्वे ज्ञानक्रियां प्रति स्वातन्त्र्यासम्भवादिति । अत्रोच्यते— इदं तावद्भगवान्प्रष्टव्यः, कथं नित्यज्ञानक्रियत्वे सर्वज्ञत्वहानिरिति । यस्य हि सर्वविषयावभासनक्षमं ज्ञानं नित्यमस्ति सोऽसर्वज्ञ इति विप्रतिषिद्धम् । अनित्यत्वे हि ज्ञानस्य कदाचिज्जानाति कदाचिन्न जानातीत्यसर्वज्ञत्वमपि स्यात् । नासौ ज्ञाननित्यत्वे दोषोऽस्ति ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 216
Page 216 scan

१९८ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. १ सू. ५

सत्यपि ज्ञानकर्मणि ब्रह्मणः 'तदैक्षत' ( छान्दो० ६।२।३ ) इति कर्तृत्वव्यपदेशोपपत्तेर्न वैषम्यम् । कर्मापेक्षायां तु ब्रह्मणीक्षितृत्वश्रुतयः सुतरामुपपन्नाः । किं पुनस्तत्कर्म, यत्प्रागुत्पत्तेरीश्वरज्ञानस्य विषयो भवतीति ? तत्त्वान्यत्वाभ्यामनिर्वचनीये नामरूपे अव्याकृते व्याचिकीर्षिते इति ब्रूमः । यत्प्रसादाद्धि योगिनामप्यतीतानागतविषयं प्रत्यक्षं ज्ञानमिच्छन्ति योगशास्त्रविदः, किमु वक्तव्यं तस्य नित्यसिद्धस्येश्वरस्य सृष्टि-स्थितिसंहृतिविषयं नित्यज्ञानं भवतीति ।

यदप्युक्तं प्रागुत्पत्तेर्ब्रह्मणः शरीरादिसंबन्धमन्तरेणेक्षितृत्वमनुपपन्नमिति, न तच्चो-


भामती

वैषम्यमुच्यते,

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 217
Page 217 scan

प्रधानकारणतावादभङ्गः ] हिन्दीसहितभामतीसंवलितम् १९९

द्यमवतरति; सवितृप्रकाशवद्ब्रह्मणो ज्ञानस्वरूपनित्यत्वे ज्ञानसाधनापेक्षानुपपत्तेः। अपि चाऽविद्यादिमतः संसारिणः शरीराद्यपेक्षा ज्ञानोत्पत्तिः स्यात्, न ज्ञानप्रतिबन्धकारणरहितस्येश्वरस्य। मन्त्रौ चेमावीश्वरस्य शरीराद्यनपेक्षतामनावरणज्ञानतां च दर्शयतः—'न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते। पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च' (श्वेता० ६।८) इति। 'अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः। स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम्' (श्वेता० ३।१९) इति च। ननु नास्ति तावज्ज्ञानप्रतिबन्धकारणवानीश्वरादन्यः संसारी,

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 218
Page 218 scan
२००ब्रह्मसूत्रशाङ्करभाष्यम्[अ. १ पा. १ सू. ६

देहादिसंघातेऽनात्मन्यात्मत्वाभिनिवेशो मिथ्याबुद्धिमात्रेण पूर्वेण। सति चैवं संसारित्वे देहाद्यपेक्षमीक्षितृत्वमुपपन्नं संसारिणः। यद्युक्तं प्रधानस्यानेकात्मकत्वान्मृदादिवत्कारणत्वोपपत्तिर्नासंहतस्य ब्रह्मण इति, तत्प्रधानस्याशब्दत्वेनैव प्रत्युक्तम्। यथा तु तर्केणापि ब्रह्मण एव कारणत्वं निर्वोढुं शक्यते, न प्रधानादीनां, तथा प्रपञ्चयिष्यति— ‘न, विलक्षणत्वादस्य-’ (ब्र. २।१।४) इत्येवमादिना॥ ५॥

अत्राह—यदुक्तं नाचेतनं प्रधानं जगत्कारणम्, ईक्षितृत्वश्रवणादिति, तदन्यथाप्युपपद्यते, अचेतनेऽपि

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 219
Page 219 scan

प्रधानस्य जगतकारणत्वभङ्गः ] हिन्दीसहितभामतीसंवलितम् २०१

प्रकृतत्वात्सेयं देवतेति परामृश्येत । न तदा देवता जीवमात्मशब्देनाभिदध्यात् । जीवो हि नाम चेतनः शरीराध्यक्षः प्राणानां धारयिता, तत्प्रसिद्धेर्निर्वचनाच्च । स कथमचेतनस्य प्रधानस्यात्मा भवेत् ? आत्मा हि नाम स्वरूपम्, नाचेतनस्य प्रधानस्य चेतनो जीवः स्वरूपं भवितुमर्हति । अथ तु चेतनं ब्रह्म मुख्यमीक्षितृ परिगृह्यते, तस्य जीवविषय आत्मशब्दप्रयोग उपपद्यते । तथा 'स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो' ( छान्दो० ६।१४।३ ) इत्यत्र 'स आत्मा' इति प्रकृतं सदणिमानमात्मानमात्मशब्देनोपदिश्य

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 220
Page 220 scan
२०२ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. १ सू. ७

शास्त्रं पुरुषस्यानर्थायेत्यप्रमाणं स्यात्। न तु निर्दोषं शास्त्रमप्रमाणं कल्पयितुं युक्तम्। यदि चाज्ञस्य सतो मुमुक्षोरचेतनमनात्मानमात्मेत्युपदिशेत्प्रमाणभूतं शास्त्रं, स श्रद्दधानतयान्धगोलाङ्गूलन्यायेन तदात्मदृष्टिं न परित्यजेत्, तद्व्यतिरिक्तं चात्मानं न प्रतिपद्येत, तथा सति पुरुषार्थाद्विहन्येतानर्थं च ऋच्छेत्। तस्माद्यथा स्वर्गार्थिनोऽग्निहोत्रादिसाधनं यथाभूतमुपदिशति, तथा मुमुक्षोरपि 'स आत्मा तत्त्वमसि श्वेतकेतो' इति यथाभूतमेवात्मानमुपदिशतीति युक्तम्। एवं च सति तप्तपरशुग्रहणमोक्षदृष्टान्तेन सत्याभिसंधस्य मोक्षोपदेश उपपद्यते।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 221
Page 221 scan

प्रधानस्य जगत्कारणत्वभङ्गः ] हिन्दीसहितभामतीसंवलितम् २०३

कुतश्च न प्रधानं सच्छब्दवाच्यम्—

हेयत्वावचनाच्च ॥ ८ ॥

यद्यनात्मैव प्रधानं सच्छब्दवाच्यं 'स आत्मा तत्त्वमसि' (छान्दो० ६।८।७) इतीहोपदिष्टं स्यात्, स तदुपदेशश्रवणादनात्मज्ञतया तन्निष्ठो मा भूदिति मुख्यमात्मानमुपदिदिक्षुस्तस्य हेयत्वं ब्रूयात्। यथाऽरुन्धतीं दिदर्शयिषुस्तत्समीपस्थां स्थूलां ताराममुख्यां प्रथममरुन्धतीति ग्राहयित्वा तां प्रत्याख्याय पश्चादरुन्धतीमेव ग्राहयति, तद्वन्नायमात्मेति ब्रूयात्, नचैवमवोचत्। सन्मात्र आत्मावगतिनिष्ठतैव हि षष्ठप्रपाठकपरिसमाप्तिरीक्ष्यते। चशब्दः

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 222
Page 222 scan

२०४ ब्रह्मसूत्रशाङ्करभाष्यम् [अ. १ पा. १ सू. १०]

तदेव सच्छब्दवाच्यं कारणं प्रकृत्य श्रूयते–‘यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षते स्वं ह्यपीतो भवति’ (छा० ६।८।१) इति । एषा श्रुतिः स्वपितीत्येतत्पुरुषस्य लोकप्रसिद्धं नाम निर्वक्ति । स्वशब्देनेहात्मोच्यते । यः प्रकृतः सच्छब्दवाच्यस्तमपीतो भवत्यपि- गतो भवतीत्यर्थः । अपिपूर्वस्यैतेर्लयार्थत्वं प्रसिद्धं, प्रभवाप्ययावित्युत्पत्तिप्रलययोः प्रयोगदर्शनात् । मनःप्रचारोपाधिविशेषसम्बन्धादिन्द्रियार्थान्गृह्णन् तद्विशेषापन्नो जीवो जागर्ति । तद्वासनाविशिष्टः स्वप्नान्

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 223
Page 223 scan

धानस्य जगतकारणत्वभङ्गः ] हिन्दीसहितभामतीसंवलितम् २०५

कारणवादानुरोधेनापीक्षत्यादिश्रवणमकल्पयिष्यत । नत्वेतदस्ति, समानैव हि सर्वेषु वेदान्तेषु चेतनकारणावगतिः ।' 'यथाऽग्नेर्ज्वलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः' ( कौ० ३।३ ) इति । 'तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः' ( तै० २।१ ) इति । 'आत्मन एवेदं सर्वम्' ( छा० ७।२६।१ ) इति । 'आत्मन एष प्राणो जायते' ( प्र० ३।३) इति चात्मनः कारणत्वं दर्शयन्ति

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 224
Page 224 scan
२०६ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. १ सू. १२

( ६ आनन्दमयाधिकरणम् । सू० १२-१९ )

'जन्माद्यस्य यतः' इत्यारभ्य 'श्रुतत्वाच्च' इत्येवमन्तैः सूत्रैर्याण्युदाहृतानि वेदान्तवाक्यानि तेषां सर्वज्ञः सर्वशक्तिरीश्वरो जगतो जन्मस्थितिलयकारणमित्येतत्स्यार्थस्य प्रतिपादकत्वं न्यायपूर्वकं प्रतिपादितम्। गतिसामान्योपन्यासेन च सर्वे वेदान्ताश्चेतनकारणवादिन इति व्याख्यातम्, अतः परस्य ग्रन्थस्य किमुत्थानमिति ? उच्यते—द्विरूपं हि ब्रह्मावगम्यते, नामरूपविकारभेदोपाधिविशिष्टं, तद्विपरीतं च सर्वोपाधिविवर्जितम्। 'यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्' (बृह०

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 225
Page 225 scan

प्रधानस्यानन्दमयत्वम् ] हिन्दोसहितभामतीसंवलितम् २०७

र्थानि। तेषां गुणविशेषोपाधिभेदेन भेदः। एक एव तु परमात्मेश्वरस्तैस्तैर्गुणविशेषैर्विशिष्ट उपास्यो यद्यपि भवति, तथापि यथागुणोपासनमेव फलानि भिद्यन्ते। 'तं यथा यथोपासते तदेव भवति' इति श्रुतेः, यथाक्रतुरस्मिँल्लोके पुरुषो भवति तथेतः प्रेत्य भवति' (छा० ३।१४।१) इति च। स्मृतेश्च—'यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम्। तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥' (गी० ८।६) इति। यद्यप्येक आत्मा सर्वभूतेषु स्थावरजङ्गमेषु गूढः, तथापि चित्तोपाधिविशेषतारतम्यादात्मनः

भामती

क्रममुक्त्यर्थानि, कानिचित्कर्मसमृद्ध्यर्थानि ॐ । क्वचित्

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 226
Page 226 scan
२०८ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. १ सू. १२

कूटस्थनित्यस्यैकरूपस्याप्युत्तरोत्तरमाविष्कृतस्य तारतम्यमैश्वर्यशक्तिविशेषैः श्रूयते—'तस्य य आत्मानमाविस्तरां वेद' (ऐ० आ० २।३।२।१) इत्यत्र। स्मृतावपि—'यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा। तत्तदेवावगच्छ त्वं मम तेजोऽंशसंभवम्॥' (गी० १०।४१) इति। यत्र यत्र विभूत्याद्यतिशयः स स ईश्वर इत्युपास्यतया चोद्यते। एवमिहाप्यादित्यमण्डले हिरण्मयः पुरुषः सर्वपाप्मोदयलिङ्गात्पर एवेति वक्ष्यति। एवं 'आकाशस्तल्लिङ्गात्' (ब्र० १।१।२२) इत्यादिषु द्रष्टव्यम्। एवं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 227
Page 227 scan

आनन्दमयस्य जीवत्वाशङ्काः ] हिन्दीसहितभामतीसंचलितम् २०९

आत्मानन्दमयः स्यात् । कस्मात् ? अन्नमयाद्यमुख्यात्मप्रवाहपतितत्वात् । अथापि स्यात्सर्वान्तरत्वादानन्दमयो मुख्य एवात्मेति, न स्यात्प्रियाद्यवयवयोगाच्छारीरत्वश्र-

भामती

आनन्दमय इति हि विकारे प्राचुर्ये च मयटस्तुल्यं मुख्यार्थत्वमिति विकारार्थान्न मयादिपद-प्रायपाठादानन्दमयपदमपि विकारार्थमेवेति युक्तम् । न च प्राणमयादिषु विकारार्थत्वायोगात् स्वार्थिको मयडिति युक्तम् । प्राणाद्युपाध्यवच्छिन्नो ह्यात्मा भवति प्राणादिविकारो घटाकाशमिव घटविकारः । न च सत्यर्थे स्वार्थिकत्वमुचितम् ,

भामती-व्याख्या

गौणप्रवाहपातेऽपि युज्यते

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 228
Page 228 scan

२१० | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. १ सू. १२

वणाच्च । मुख्यश्चेदात्मानन्दमयः स्यात्, न प्रियादिसंस्पर्शः स्यात् । इह तु ‘तस्य प्रियमेव शिरः’ इत्यादि श्रूयते । शारीरत्वं च श्रूयते—‘तस्यैष एव शारीर आत्मा, यः पूर्वस्य’ इति । तस्य पूर्वस्य विज्ञानमयस्यैष एव शारीर आत्मा य एष आनन्दमय इत्यर्थः । न च सशरीरस्य सतः प्रियाप्रियसंस्पर्शो वारयितुं शक्यः । तस्मात्संसार्येवानन्दमय आत्मेत्येवं प्राप्ते इदमुच्यते—

भामती
चतुष्कोशान्तरत्वेन न सर्वान्तरतोचिता ।
प्रियादिभागी शारीरो जीवो न ब्रह्म युज्यते ॥

न च सर्वान्तरतया ब्रह्मैवानन्दमयं न जीव इति साम्प्रतम् , नहीयं श्रुतिरानन्दमयस्य

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in