भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
by वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द)
Source: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (origin)
Page 214 of 639
Read in context१९६ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. १ सू. ५
ज्ञानमयं तपः । तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते' ( मुण्ड० १।१।९ ) इत्येवमादी-
न्यपि सर्वज्ञेश्वरकारणपराणि वाक्याक्युदाहर्तव्यानि ।
यत्तूक्तं सत्त्वधर्मेण ज्ञानेन सर्वज्ञं प्रधानं भविष्यतीति, तन्नोपपद्यते । नहि प्रधाना-
वस्थायां गुणसाम्यात्सत्त्वधर्मो ज्ञानं संभवति । ननूक्तं, सर्वज्ञानशक्तिमत्त्वेन सर्वज्ञं भवि-
ष्यतीति । तदपि नोपपद्यते । यदि गुणसाम्ये सति सत्त्वव्यपाश्रयां ज्ञानशक्तिमाश्रित्य
सर्वज्ञं प्रधानमुच्येत, कामं रजस्तमोव्यपाश्रयामपि ज्ञानप्रतिबन्धकशक्तिमाश्रित्य
किंचिज्ज्ञमुच्येत । अपि च नासाक्षिका सत्त्ववृत्तिर्ज्ञानातिनाऽभिधीयते । न चाचेतनस्य
प्रधानस्य साक्षित्वमस्ति ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in