भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
by वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द)
Source: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (origin)
Page 81 of 639
Read in contextअथशब्दार्थविचारः ] हिन्दीसहितभामतीसंवलितम् ६३
भामती
इति। ब्रह्मचर्यतपःश्रद्धायज्ञादयश्च सत्कारः। अत एव श्रुतिः “तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः” इति। विज्ञाय तर्कोपकरणेन शब्देन प्रज्ञां भावनां कुर्वीतेत्यर्थः। अत्र च यज्ञादीनां श्रेयः-परिपन्थिकल्मषनिबर्हणद्वारेणोपयोग इति केचित्। पुरुषसंस्कारद्वारेणान्ये। यज्ञादिसंस्कृतो हि पुरुष आदरनैरन्तर्यदीर्घकालैरासेवमानो ब्रह्मभावनामनाद्यविद्यावासनां समूलकाषं कषति। ततोऽस्य प्रत्यगात्मा सुप्रसन्नः केवलो विशदीभवति। अत एव स्मृतिः—‘महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः’। ‘यस्यैतेऽष्टाचत्वारिंशत्संस्काराः’ इति च॥
अपरे तु
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in