भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
by वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द)
Source: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (origin)
Page 556 of 639
Read in context| ५३८ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. २ पा. १ सू. १ |
|---|
भवति चान्या मनोर्माहात्म्यं प्रख्यापयन्ती श्रुतिः — ‘यद्वै किंच मनुरवदत्तद्भेषजम्’ (तै० सं० २।२।१०।२) इति । मनुना च ‘सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । संपश्यन्नात्मयाजी वै स्वाराज्यमधिगच्छति ॥’ (१२।९१) इति सर्वात्मत्वदर्शनं प्रशंसता कापिलं मतं निन्द्यत इति गम्यते । कपिलो हि न सर्वात्मत्वदर्शनमनुमन्यते, आत्मभेदाभ्युपगमात् । महाभारतेऽपि च ‘बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु’ (शान्ति. ३५०।१) इति विचार्य ‘बहवः पुरुषा राजन्सांख्ययोगविचारिणाम्’ इति परपक्षमुपन्यस्य तद्व्युदासेन — **‘बहूनां पुरुषाणां हि यथैका योनिरुच्यते । तथा तं पुरुषं विश्वमाख्यास्यामि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in