भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
by वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द)
Source: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (origin)
Page 523 of 639
Read in contextबालाकिसंवादे ब्रह्मवादः ] हिन्दीसहितभामतीसंवलितम् ५०५
'प्राणबन्धनं हि सोम्य मनः' ( छा० ६।८।२ ) इत्यत्र । जीवलिङ्गमप्युपक्रमोपसंहार-
योर्ब्रह्मविषयत्वादभेदाभिप्रायेण योजयितव्यम् ॥ १७॥
अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॥१८॥
अपि च नैवात्र विवदितव्यम्—जीवप्रधानं वेदं वाक्यं स्याद्, ब्रह्मप्रधानं वेति ।
यतोऽन्यार्थं जीवपरामर्शं ब्रह्मप्रतिपत्त्यर्थमस्मिन् वाक्ये जैमिनिराचार्यो मन्यते ।
कस्मात् ? प्रश्नव्याख्यानाभ्याम् । प्रश्नस्तावत्सुप्तपुरुषप्रतिबोधनेन प्राणादिव्यतिरिक्ते
जीवे प्रतिबोधिते पुनर्जीवव्यतिरिक्तविषयो दृश्यते—'क्वैक एतद्बालाके पुरुषोऽशयिष्ट
क्व वा एतदभूत्कुत एतदागात्' ( कौ० ब्रा० ४।१९ ) इति
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in