भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
by वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द)
Source: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (origin)
Page 521 of 639
Read in contextबालाकिसंवादे ब्रह्मवादः ] हिन्दीसहितभामतीसंवलितम् ५०३
प्रकृतत्वात्, असंश्ब्दितत्वाच्च। नापि पुरुषाणामयं निर्देशः, एतेषां पुरुषाणां कर्तेत्येव तेषां निर्दिष्टत्वात्, लिङ्गवचनविगानाच्च। नापि पुरुषविषयस्य करोत्यर्थस्य क्रिया-फलस्य वाऽयं निर्देशः, कर्तृशब्देनैव तयोरुपात्तत्वात्। पारिशेष्यात्प्रत्यक्षसंनिहितं
भामती
एतदुक्तं भवति — अत्यल्पमिदमुच्यते एतेषामादित्यादिगतानां जगदेकदेशभूतानां कर्तेति, किन्तु कृत्स्नमेव जगदस्य कार्यमिति वाशब्देन सूच्यते। जीवप्राणशब्दौ च ब्रह्मपरौ जीवशब्दस्य ब्रह्मोपलक्षण-परत्वात् न पुनर्ब्रह्मशब्दो जीवोपलक्षणपरस्तथा सति हि बहुसमञ्जसं स्यादित्युक्तम्। न चानधिगतार्था-वबोधनस्वरसस्य शब्दस्याधिगतबोधनं युक्तम्।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in