भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
by वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द)
Source: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (origin)
Page 514 of 639
Read in context४९६ [ अ. १ पा. ४ सू. १५
मन्विच्छ' (छा० ६।८।४) इति । मृदादिदृष्टान्तैश्च कार्यस्य कारणेनाभेदं वदितुं सृष्ट्या-
दिप्रपञ्चः श्राव्यत इति गम्यते । तथाच संप्रदायविदो वदन्ति – 'मृल्लोहविस्फुलिङ्गाद्यैः
सृष्टिर्या चोदिताऽन्यथा । उपायः सोऽवताराय नास्ति भेदः कथंचन ।' (माण्डू०
का० १।१५) । ब्रह्मप्रतिपत्तिप्रतिबद्धं तु फलं श्रूयते – 'ब्रह्मविदाप्नोति परम्' (तै० २।१),
'तरति शोकमात्मवित्' (छा० ७।१।३) 'तमेव विदित्वाऽतिमृत्युमेति' (श्वे० ३।८)
इति । प्रत्यक्षावगमं चेदं फलम्, 'तत्त्वमसि' इत्यसंसार्यात्मत्वप्रतिपत्तौ सत्यां
संसार्यात्मत्वव्यावृत्तेः ॥ १४ ॥
यत्पुनः कारणविषयं विगानं दर्शितम् – 'असद्वा
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in