भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
by वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द)
Source: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (origin)
Page 495 of 639
Read in contextअजाशब्दस्य मायापरत्वम् ] हिन्दीसहितभामतीसंवलितम् ४७७
समर्थयितुमुत्सहते, सर्वत्रापि यया कयाचित्कल्पनयाऽजातत्वादिसंपादनोपपत्तेः सांख्य-
वाद एवेहाभिप्रेत इति विशेषावधारणकारणाभावात् । चमसवत् । यथा हि 'अर्वा-
ग्बिलश्चमस ऊर्ध्वबुध्नः' (बृ० २।२।३) इत्यस्मिन्मन्त्रे स्वातन्त्र्येणायं नामासौ
चमसोऽभिप्रेत इति न शक्यते निरूपयितुम् । सर्वत्रापि यथाकथंचिदवर्वाग्बिलत्वादि-
कल्पनोपपत्तेः । एवमिहाप्यविशेषः 'अजामेकाम्' इत्यस्य मन्त्रस्य । नास्मिन्मन्त्रे
प्रधानमेवाजाऽभिप्रेतेति शक्यते नियन्तुम् ॥ ८ ॥
तत्र तु 'इदं तच्छिर एष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुध्नः' इति वाक्यशेषाच्चमस-
विशेषप्रतिपत्तिर्भवति
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in