भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
by वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द)
Source: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (origin)
Page 352 of 639
Read in context| ३३४ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. ३ सू. ८ |
|---|
भूमेति तावद् बहुत्वमभिधीयते, 'बहोर्लोपो भू च बहोः' ( पा० ६।४।१५८ ) इति भूम-शब्दस्य भावप्रत्ययान्ततास्मरणात् । किमात्मकं पुनस्तद्बहुत्वमिति विशेषाकाङ्क्षायां 'प्राणो वा आशाया भूयान्' ( छा० ७।१५।१ ) इति संनिधानात्प्राणो भूमेति प्रतिभाति । तथा 'श्रुतं ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मविदिति । सोऽहं भगवः शोचामि तं मा भगवान् शोकस्य पारं तारयतु' ( छा० ७।१।३ ) इति प्रकरणोत्थानात्परमात्मा भूमेत्यपि प्रतिभाति । तत्र कस्योपादानं न्याय्यं, कस्य वा हानमिति भवति संशयः ।
किं तावत्प्राप्तम् ? प्राणो भूमेति । कस्मात् ?
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in