भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
by वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द)
Source: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (origin)
Page 286 of 639
Read in context२६८ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. २ सू. १
वाक्येन ब्रह्मोपासनं नियन्तुं शक्यते । उपासनं तु 'स क्रतुं कुर्वीत' इत्यनेन विधीयते ।
क्रतुः सङ्कल्पो ध्यानमित्यर्थः । तस्य च विषयत्वेन श्रूयते - 'मनोमयः प्राणशरीरः' इति
जीवलिङ्गम् । अतो ब्रूमो जीवविषयमेतदुपासनमिति । 'सर्वकर्मा सर्वकामः' इत्याद्यपि
श्रूयमाणं पर्यायेण जीवविषयमुपपद्यते । 'एष म आत्माऽन्तर्हृदयेऽणीयान्व्रीहेर्वा
यवाद्वा' इति च हृदयायतनत्वमणीयस्त्वं चाराग्रमात्रस्य जीवस्यावकल्पते, नापरि-
च्छिन्नस्य ब्रह्मणः । ननु 'ज्यायान्पृथिव्या' इत्याद्यपि न परिच्छिन्नेऽवकल्पत इति ।
अत्र ब्रूमः- न तावदणीयस्त्वं ज्यायस्त्वं चोभयमेकस्मिन्समाश्रयितुं शक्यं,
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in